द्वन्द्वः समासो द्विविखधो हीतरेतरयोगकः । रुद्रविष्णू समाहारो भेरीपटहमीदृशम् ।। ३५५.
द्विधाख्यातोऽव्ययीभावो नामपूर्वपदो यथा । शाकस्य मात्रा शाकप्रति यथाऽव्ययपूर्व्यकः ।। ३५५.
उपकुम्भञ्चोपरथ्यं प्राधान्येन चतुर्विंधः । उत्तरपदार्थमुख्यो द्वन्द्वश्चोभयमुख्यकः ३५५.
स्कन्द उवाच तद्धितं त्रिविधं वक्ष्ये सामान्यवृत्तिरीदृशी । ल व्यंसलो वत्सलः स्यादिलचि स्यात्तू फेनिलं ।। ३५६.
लोमशः से पामनो ने इलचि स्यात्तु पिच्छिलं । अणि प्राज्ञ आर्च्चकः स्यात् दन्तादुरचि दन्तुरः ।। ३५६.
रे स्याम्मधुरं सुशिरं रे स्यात् केशर ईदृशः । हिरण्यं ये मालवो वे वलचि स्याद्रजस्वलः ।। ३५६.
इनो धनो करी हस्ती धनिकं टिकनोरितं । पयस्वी विनि मायावी ऊर्णायुर्युचि ईरितं ।। ३५६.
वाग्मी मिनि आलचि स्याद्वाचालश्चाटचीरितं । फलिनो वर्हिणः केकी वृन्दारकस्तया कनि ।। ३५६.
आलुचि शीतन्न सहते शीतालुः श्वालुरीदृशः । हिमालुरालुचि स्याच्च हिमं न सहते तथा ।। ३५६.
रूपं वातादुलचि स्याद् वातुलश्चानपत्यके । वाशिष्ठः कौरवो वासः पाञ्चालः सोस्य वासकः ।। ३५६.
तत्र वासो माथुरः स्याद्वेत्त्यधीते च चान्द्रकः । व्युत्क्रमं वेत्ति क्रमकः नरश्चक्राम कौशकः ।। ३५६.
प्रियङ्गूनां भवं क्षेत्रं प्रैयङ्गवीनकं खञि । मौद्गीनं सौद्रवीणञ्च वैदेहश्चानपत्यके ।। ३५६.
इञि दाक्षिर्दाशरथिः कचि नारायणादिकं । आश्वायनः स्याच्च फञि यचि गार्ग्यश्च वात्सकः ।। ३५६.
ढकि स्याद्वैनतेयादिश्चाटकेरस्तथैरकि । ढ्रकि गौधेरको रूपं गौवारश्चारकीरितं ।। ३५६.
क्षत्रियो घे कुलीनः खे ण्ये कौरव्यादयः स्मृताः । यति मूर्द्धन्यमुख्यादिः सुगन्धिरिति रूपकं ।। ३५६.
तारकादिभ्य इतचि नभस्तारकितादयः । अनङि स्याच्च कुण्डाध्नी पुष्पधन्वसुधनवनी ।। ३५६.
चञ्चुपि वित्तचञ्चुः स्याद्वित्तमस्य च शब्दके । चणपि स्यात् केशचणः रूपे स्यात् पटरूपकम् ।। ३५६.
ईयसौ च पटीयान् स्यात् तरप्यक्षतरादिकम् । पचतितराञ्च तरपि तमप्यटतितमामपि ।। ३५६.
मृद्वीतमा कल्पपि स्यादिन्द्रकल्पोऽर्ककल्पकः । राजदेशीयो देशीये देश्ये देश्यादिरूपकम् ।। ३५६.
पटुजातीयो जातीये जानुमात्रञ्च मात्रचि । ऊरुद्वयसो द्वयसचि ऊरुदघ्नञ्च दघ्नचि ।। ३५६.
तयटि स्यात् पञ्चतयः दौवारिकष्ठकीरितं । सामान्यवृत्तिरुक्ताऽअव्याख्यश्च तद्धितः ।। ३५६.
यस्माद्यतस्तसिलि च यत्र तत्र त्रलीरितं । अस्मिन् काले ह्यधुना स्यादिदानीञ्चैव दान्यपि ।। ३५६.
सर्वस्मिन् सर्व्वदा दा स्यात्तस्मिन्काले र्हिलीरितं । तर्हि होऽस्भिन् काल इह कर्हि सस्मिंश्च कालके ।। ३५६.
यथा थालि थमि कथं पूर्व्वस्यान्दिशि सञ्चयेत् । अस्ताति चैव पूर्व्वस्याः पूर्व्वादिग्रामणीयकाः ।। ३५६.
पुरस्तात् सञ्चरेद् गच्छेत् सद्यस्तुल्येऽहनीरितं । उतिपूर्व्वाब्दे च परुत् पूर्व्वतरे परार्य्यपि ।। ३५६.
ऐषमोऽस्मिन् संवत्सरे रूपं समसि चेरितं । एद्यवौ परेद्यवि स्यात् परस्मिन्नहनीरितं ।। ३५६.
अद्यास्मिन्नहनि द्ये स्यात् पूर्व्वेद्युश्च तथैद्युसि । दक्षिणस्यान्दिशि वसेत् दक्षिणाद्दक्षइणा द्युभौ ।। ३५६.
उत्तरस्यान्दिशि वसेदुत्तरादुत्तराद्युभौ । उपरि वसैदुपरिष्टाद् भवेद्रिष्टाति ऊद्र्ध्वकात् ।। ३५६.
उत्तरेण च पित्रोक्तं आचि च स्याच्च दक्षिणा । आहौ दक्षिणाहि वसेद् द्विप्रकारं द्विधा च धा ।। ३५६.
निपातास्तद्धिताः प्रोक्ताः तद्वितो भाववाचकः । पटोर्भावः पटुत्वन्त्वे पटुता तलि चेरितं ।। ३५६.