अपादानं द्विधा प्रोक्तं चलमश्वात्तु धावतः । पतितश्चाचलं ग्रामादागच्छति स वैष्णवः ।। ३५४.
चतुर्द्धा चाधिकरणं व्यापकन्दध्नि वै घृतम् । तिलेषु तैलं देवार्थमौपश्लेषिकमुच्यते ।। ३५४.
गृहे तिष्ठेत् कपिर्वृक्षे स्मृतं वैषयिकं यथा । जले मत्स्यो वने सिंहः स्मृतं सामीप्यकं यथा ।। ३५४.
गङ्गायां घोषो वसति औपचारिकमीदृशं । तृतीया वाथ वा षष्ठी स्मृताऽनभिहिते तथा ।। ३५४.
विष्णुः सम्पूज्यते लोकैर्गन्तव्यन्तेन तस्य वा । प्रथमाऽभिहितकर्त्तृ कर्म्मणोः प्रणमेद्धरिम् ।। ३५४.
हेतौ तृतीया चान्नेन वसेद् वृक्षाय वै जलं । चतुर्थी तादर्थ्येऽभिहिता पञ्चमी पर्य्युपाङ्मुखैः ।। ३५४.
योगे वृष्टः परि ग्रामाद्देवोऽयं बलवत् पुरा । पूर्व्वो ग्रामादृते विष्णोर्न मुक्तिरितरो हरेः ।। ३५४.
पृथग्विनाद्यैस्तृतीया पञ्चमी च तथा भवेत् । पृथग्ग्रामाद्विहारेण विना श्रिश्च श्रीया श्रइयः ।। ३५४.
कर्म्मप्रवचनीयाख्यैर्द्वितीया योगतो भवेत् । अन्वर्ज्जुनञ्च योद्धारो ह्यभितो ग्राममीरितं ।। ३५४.
नमः स्वाहास्वधास्वस्तिवषडाद्यैश्चतुर्थ्यपि । नमो देवाय ते स्वस्ति तुमर्थाद्भाववाचिनः ।। ३५४.
पाकाय पक्तये याति तृतीया सहयोगके । हेत्वर्थे कुत्सितेऽङ्गे सा तृतीया च विशेषणे ।। ३५४.
पिताऽगात्सह पुत्रेण काणोऽक्ष्णा गदया हरिः । अर्थेन निवसेकद्भृत्यः काले भावे च सप्तमी ।। ३५४.
विष्णौ नते भवेन्मुक्तिर्वसन्ते स गतो हरिम् । नृणां स्वामी नृषु स्वामी नृणामीशः सताम्पतिः ।। ३५४.
नृणां साक्षी नृषु साक्षी गोषु नाथो गवाम्पतिः । गोषु सूतो गवां सूतो राज्ञां दायादकोऽस्विह ।। ३५४.
अन्नस्य१ हेतोर्वसति षष्ठी स्मृत्यर्थकर्मणि । मातुः स्मरति गोप्तारं नित्यं स्यात् कर्तृकर्मणोः ३५४.
स्कन्ध उवाच षोढ़ा समासं वक्ष्यामि अष्टाविंशातिधा पुनः । नित्यानित्यविभागेन लुगलोपेन च द्विधा ।। ३५५.
कुम्भकारश्च नित्यः स्याद्धेमकारादिकस्तथा । राज्ञः पुमान्राजपुमान् नित्योऽयञ्च समासकः ।। ३५५.
कष्टश्रितो लुक्समासः कण्ठेकालादिकस्त्वलुक् । स्यादष्टधा तत्पुरुषः प्रथमाद्यसुपा सह ।। ३५५.
प्रथमातत्पुरुषोऽयं पूर्व्वं कायस्य विग्रहे । पूर्वकायोऽपरकायो ह्यधरोत्तरकायकः ।। ३५५.
अर्द्धं कणाया अर्द्धकणा भिक्षातुर्य्यमथेदृशम् । आपन्नजीविकस्तद्वत् द्वितीया चाधराश्रितः ।। ३५५.
वर्षम्भोग्यो वर्षभोग्यो धान्यार्थश्च तृतीयया । चतुर्थो स्याद्विषणुबलिर्वृकभीतिश्च पञ्चमी ।। ३५५.
राज्ञः पुमान् राजपुमान् षष्ठी वृक्षफलं तथा । सप्तमी चाक्षशौण्डोऽयमहितो नञ्समासकः ।। ३५५.
कर्मधारयः सप्तधा नीलोत्पलमुखाः स्मृताः । विशेषणपूर्व्वपदो विशेष्योत्तरतस्तथा ।। ३५५.
वैयाकरणखसूचिः शीतोष्णं द्विपदं शुभम् । उपमानपूर्वपदः शङ्खपाण्डर इत्यपि ।। ३५५.
उपमानोत्तरपदः पुरुषव्याघ्र इत्यपि । सम्भावनापूर्वपदो गुणवृद्धिरितीदृशम् ।। ३५५.
गुण इति वृद्धिर्वाच्या सुहृदेव सुबन्धुकः । सवधारणपूर्वपदो बहुव्रीहिश्च सप्तधा ।। ३५५.
द्विपदश्च बहुव्रीहिरारूढ़भवनो नरः । अर्च्चिताशेषपूर्व्वोऽयं बह्वङ्घ्रिः परिकीर्त्तितः ।। ३५५.
एते विप्राश्चोपदशाः सङ्ख्योत्तरपदस्त्वयम् । सङ्ख्योभयपदो यद्वद्द्वित्रा द्व्येकत्रयो नरः ।। ३५५.
सहपूर्षपदोऽयं स्यात् समूलोद्धृतकस्तरुः । व्यतिहारलक्षणार्थः केशाकेशि नखानखि ।। ३५५.
दिग्लक्ष्या स्याद्दक्षिणपूर्व्वा द्विगुराभाषितो द्विधा । एकवद्भावि द्विश्रृङ्गं पञ्चमूली त्वनेकधा ।। ३५५.