स्कन्द उवाच कारकं सम्प्रवक्ष्यामि विभक्त्यर्थसमन्वितं । ग्रामोऽस्ति हेमहार्केह नौमि विष्णुं श्रिया सह ।। ३५४.
स्वतन्त्रः कर्त्ता विद्यान्तं कृतिनः समुपासते । हेतुकर्त्तालम्भयते हितं वै कर्म्मकर्त्तरि ।। ३५४.
स्वयं भिद्येत् प्राकृतधीः स्वयञ्च छिद्यते तरुः । सर्त्ताऽभिहित उत्तमः कर्त्ताऽनभिहितोऽधमः ।। ३५४.
कर्त्ताऽनभिहितो धर्म्मः शिष्ये व्याख्यायते यथा । कर्त्ता पञ्चविधः प्रोक्तः कर्म्म सप्तविधं श्रुणु ।। ३५४.
ईप्सितं कर्म्म च यथा श्रद्दधाति द्दरि यतिः । अनीप्सितं कर्म्म यथा अहिं लङ्घयते भृशं ।। ३५४.
नैवेप्सितं नानीप्सितं दुग्धं सम्भक्षयन्रजः । भक्ष्येदप्यकथितं गोपालो दोग्धि गां पयः ।। ३५४.
कर्त्तृ कर्माऽथ गमयेच्छिष्यं ग्रामं गुरुर्यथा । कर्म्म चाभिहितं पूजा क्रियते वै श्रिये हरेः ।। ३५४.
कर्म्मानभिहितं स्तोत्रं हरेः कुर्य्यात्तु सर्व्वदं । करणं द्विविधं प्रोक्तं वाह्यमाभ्यन्तरं तथा ।। ३५४.
चक्षुषा रूपं गृह्णाति वाह्यं दात्रेण तल्लुनेत् । सम्प्रदानं त्रिधा प्रोक्तं प्रेरकं ब्राह्मणाय गां ।। ३५४.
नरो ददाति नृपतये दासन्तदनुमन्तृकं । अनिराकर्त्तृकं भर्त्रे दद्यात् पुष्पाणि सज्जनः ।। ३५४.
अपादानं द्विधा प्रोक्तं चलमश्वात्तु धावतः । पतितश्चाचलं ग्रामादागच्छति स वैष्णवः ।। ३५४.
चतुर्द्धा चाधिकरणं व्यापकन्दध्नि वै घृतम् । तिलेषु तैलं देवार्थमौपश्लेषिकमुच्यते ।। ३५४.
गृहे तिष्ठेत् कपिर्वृक्षे स्मृतं वैषयिकं यथा । जले मत्स्यो वने सिंहः स्मृतं सामीप्यकं यथा ।। ३५४.
गङ्गायां घोषो वसति औपचारिकमीदृशं । तृतीया वाथ वा षष्ठी स्मृताऽनभिहिते तथा ।। ३५४.
विष्णुः सम्पूज्यते लोकैर्गन्तव्यन्तेन तस्य वा । प्रथमाऽभिहितकर्त्तृ कर्म्मणोः प्रणमेद्धरिम् ।। ३५४.
हेतौ तृतीया चान्नेन वसेद् वृक्षाय वै जलं । चतुर्थी तादर्थ्येऽभिहिता पञ्चमी पर्य्युपाङ्मुखैः ।। ३५४.
योगे वृष्टः परि ग्रामाद्देवोऽयं बलवत् पुरा । पूर्व्वो ग्रामादृते विष्णोर्न मुक्तिरितरो हरेः ।। ३५४.
पृथग्विनाद्यैस्तृतीया पञ्चमी च तथा भवेत् । पृथग्ग्रामाद्विहारेण विना श्रिश्च श्रीया श्रइयः ।। ३५४.
कर्म्मप्रवचनीयाख्यैर्द्वितीया योगतो भवेत् । अन्वर्ज्जुनञ्च योद्धारो ह्यभितो ग्राममीरितं ।। ३५४.
नमः स्वाहास्वधास्वस्तिवषडाद्यैश्चतुर्थ्यपि । नमो देवाय ते स्वस्ति तुमर्थाद्भाववाचिनः ।। ३५४.
पाकाय पक्तये याति तृतीया सहयोगके । हेत्वर्थे कुत्सितेऽङ्गे सा तृतीया च विशेषणे ।। ३५४.
पिताऽगात्सह पुत्रेण काणोऽक्ष्णा गदया हरिः । अर्थेन निवसेकद्भृत्यः काले भावे च सप्तमी ।। ३५४.
विष्णौ नते भवेन्मुक्तिर्वसन्ते स गतो हरिम् । नृणां स्वामी नृषु स्वामी नृणामीशः सताम्पतिः ।। ३५४.
नृणां साक्षी नृषु साक्षी गोषु नाथो गवाम्पतिः । गोषु सूतो गवां सूतो राज्ञां दायादकोऽस्विह ।। ३५४.
अन्नस्य१ हेतोर्वसति षष्ठी स्मृत्यर्थकर्मणि । मातुः स्मरति गोप्तारं नित्यं स्यात् कर्तृकर्मणोः ३५४.
स्कन्ध उवाच षोढ़ा समासं वक्ष्यामि अष्टाविंशातिधा पुनः । नित्यानित्यविभागेन लुगलोपेन च द्विधा ।। ३५५.
कुम्भकारश्च नित्यः स्याद्धेमकारादिकस्तथा । राज्ञः पुमान्राजपुमान् नित्योऽयञ्च समासकः ।। ३५५.
कष्टश्रितो लुक्समासः कण्ठेकालादिकस्त्वलुक् । स्यादष्टधा तत्पुरुषः प्रथमाद्यसुपा सह ।। ३५५.
प्रथमातत्पुरुषोऽयं पूर्व्वं कायस्य विग्रहे । पूर्वकायोऽपरकायो ह्यधरोत्तरकायकः ।। ३५५.
अर्द्धं कणाया अर्द्धकणा भिक्षातुर्य्यमथेदृशम् । आपन्नजीविकस्तद्वत् द्वितीया चाधराश्रितः ।। ३५५.