जरा जरसौ जर इति जरसश्च जरा जरां । जरसञ्च जरास्वेवं सर्व्वा सर्व्वे च सर्व्वेया ।। ३५२.
सर्व्वस्थै देहि सर्व्वस्याः सर्व्वस्याः सर्व्वयोस्तथा । शेषं रमावद्रूपं स्याद् द्वे द्वे तिस्रश्च तिसृणां ।। ३५२.
बुद्धीर्बुद्ध्या बुद्धये च बुद्ध्यै बुद्धेश्च हेमते । कविवत्स्यान्मुनीनाञ्च नदी नद्यौ नदीं नदीः ।। ३५२.
नद्या नदीभिर्नद्यै च नद्याञ्चैव नदीषु च । कुमारी जृम्भणीत्येवं श्रीः श्रियौ च श्रियः श्रिया ।। ३५२.
श्रियै श्रिये स्त्रीं स्त्रियञ्च स्त्रीश्च स्त्रियः स्त्रिया स्त्रियै । स्त्रियाः स्त्रीणां स्त्रियाञ्च ग्रामण्यां धेन्वै च धेनवे ।। ३५२.
जम्बूर्जम्ब्वौ च जम्बूश्च जम्बूनाञ्च फलम्पिव । वर्षाभ्वौ च पुनर्भ्वौ च मातॄर्व्वापरि च गौश्च नौः ।। ३५२.
वाग्वाचा वाग्भिश्च वाक्षु स्रग्भ्यां स्रजि स्रजोस्तथा । विद्वद्भ्याञ्चैव विद्वत्सु भवती स्याद् भवन्त्यपि ।। ३५२.
दीव्यन्ती भाती भान्ती च तुदन्ती च तुदत्यपि । रुदती रुन्धती देवी गृह्णती चोरयन्त्यपि ।। ३५२.
दृषत् दृषद्भ्यां दृषदि विशेषविदुषी कृतिः । समित् समिद्ब्यां समिधि सीमा सीम्नि च सीमनि ।। ३५२.
दामनीभ्यां ककुद्भ्याञ्च केयमाब्यां तथासु च । गीर्भ्याञ्चैव गिरा गीर्षु सुभूः सुपूः पुरा पुरि ।। ३५२.
द्यौर्द्युभ्यां दिवि द्युषु तादृश्या तादृशी दिशः । यादृश्यां यादृशी तद्वत् सुवचोभ्यां सुवचः स्वपि ३५२.
स्कन्द उवाच नपुंसके किं के कानि किं के कानि ततो जलं । सर्वं सर्वे च पूर्वाद्याः सोमपं सोमपानि च ।। ३५३.
ग्रामणि ग्राणणिनी च ग्रामणि ग्रामणीन्यपि । वारि वारिणी वारीणि वारिणां वारिणीदृशं ।। ३५३.
शुचये शुचिने देहि मृदुने मृदवे तथा । त्रपु त्रपुणि त्रपुणाञ्च चखलपूनि खलप्वि च ।। ३५३.
कर्त्त्त्रा च कर्तृणे कर्त्त्त्रे अतिर्व्यतिरिणान्तथा । अभिन्यभिनिनी चैव सुवचांसि सुवाक्षु च ।। ३५३.
यद्यत्त्विमे तत् कर्म्माणि इदञ्चेमे त्विमानि च । ईदृक्त्वदोऽमुनी अमूनि अमुना स्यादमीषु च ।। ३५३.
अहमावां वयं मां वै आवामस्मान्मया कृतं । आवाभ्याञ्च तथास्माभिर्म्मह्यमस्मभ्यमेव च ।। ३५३.
मदावाभ्यां मदस्मच्च पुत्रोऽयं मम चावयोः । अस्माकमपि चास्मासु त्वं युवां यूयंमीजिरे ।। ३५३.
त्वां युवाञ्च युष्मांश्च त्वया युष्माभिरीरितं । तुभ्यं युवाभ्यां युष्मभ्यं त्वत् युवाभ्याञ्च युष्मत् ।। ३५३.
तव युवयोर्युष्माकं त्वयि युष्मासु भारती । उपलक्षणमत्रैव अज्भ्क्तलन्ताश्च ते स्मृताः ।। ३५३.
स्कन्द उवाच कारकं सम्प्रवक्ष्यामि विभक्त्यर्थसमन्वितं । ग्रामोऽस्ति हेमहार्केह नौमि विष्णुं श्रिया सह ।। ३५४.
स्वतन्त्रः कर्त्ता विद्यान्तं कृतिनः समुपासते । हेतुकर्त्तालम्भयते हितं वै कर्म्मकर्त्तरि ।। ३५४.
स्वयं भिद्येत् प्राकृतधीः स्वयञ्च छिद्यते तरुः । सर्त्ताऽभिहित उत्तमः कर्त्ताऽनभिहितोऽधमः ।। ३५४.
कर्त्ताऽनभिहितो धर्म्मः शिष्ये व्याख्यायते यथा । कर्त्ता पञ्चविधः प्रोक्तः कर्म्म सप्तविधं श्रुणु ।। ३५४.
ईप्सितं कर्म्म च यथा श्रद्दधाति द्दरि यतिः । अनीप्सितं कर्म्म यथा अहिं लङ्घयते भृशं ।। ३५४.
नैवेप्सितं नानीप्सितं दुग्धं सम्भक्षयन्रजः । भक्ष्येदप्यकथितं गोपालो दोग्धि गां पयः ।। ३५४.
कर्त्तृ कर्माऽथ गमयेच्छिष्यं ग्रामं गुरुर्यथा । कर्म्म चाभिहितं पूजा क्रियते वै श्रिये हरेः ।। ३५४.
कर्म्मानभिहितं स्तोत्रं हरेः कुर्य्यात्तु सर्व्वदं । करणं द्विविधं प्रोक्तं वाह्यमाभ्यन्तरं तथा ।। ३५४.
चक्षुषा रूपं गृह्णाति वाह्यं दात्रेण तल्लुनेत् । सम्प्रदानं त्रिधा प्रोक्तं प्रेरकं ब्राह्मणाय गां ।। ३५४.
नरो ददाति नृपतये दासन्तदनुमन्तृकं । अनिराकर्त्तृकं भर्त्रे दद्यात् पुष्पाणि सज्जनः ।। ३५४.