प्राग्भ्यां प्राग्भिः प्राचाञ्च प्राचि च प्राङ्सु प्राङ्सु प्राङ्श्वपि एवं ह्युदङुदीची वा सम्यङ्क प्र्त्यकसमीच्यपि ।। ३५१.५५ तिर्य्यङ्तिरश्च सध्र्यङ् च विश्वद्र्यङ् पूर्ववत् स्मृताः । अदद्र्यङदमुयङ् स्यात् ततामुमुयङीरितः ।। ३५१.
अदद्र्यङदमुयङ् स्यात् तथामुमुयङीरितः । अदद्र्यञ्चो ह्यमुद्रीचः अदद्र्यग्भ्याञ्च पूर्व्ववत् ।। ३५१.
तत्त्वतृषि तत्त्वतृट्सु एवं काष्ठतड़ादयः । भिषक् भिषगब्यां भिषजि जन्मभागादयस्तथा ।। ३५१.
मरुत् मरुद्भ्यां मरुति एवं शत्रुजिदादयः । भवान् भवन्तौ भवतां भवंश्चैव भवत्यपि ।। ३५१.
महान्महान्तौ महतामेवं भगवदादयः । एवं मघवान्मघवन्तौ अग्निचिच्चाग्निचित्यपि ।। ३५१.
अग्निचित्स्वेवमेवान्यत् वेदवित्त्ववित्त्वपि । वेदविदामेवमन्यत् यः समस्तेन सर्व्ववित् ।। ३५१.
राजा राजानौ राज्ञः रीज्ञि राजनि राजन् । यज्वा यज्वानस्तद्वत् करी दण्डी च दण्डिनी ।। ३५१.
पन्थाः पन्थानौ च पथः पथिम्भां पथि चेदृशम् । मन्था ऋभुक्षाः पश्याद्याः पञ्च पञ्च च पञ्चभिः ।। ३५१.
प्रतान् प्रतानौ प्रतान्भ्यां हेप्र्तांश्च सुशर्म्मणः । आपः अपः अद्भिरप्येवं प्रशांश्चैव प्रशाम्यपि ।। ३५१.
कः केन सर्व्ववत् केषु अयं चेमेइमान्नयः । अनेन चाभ्यामेभिश्च अस्मै चेभ्यः स्वमस्यच ।। ३५१.
अनयोरेषामेषु स्याच्चत्वारश्चतुरस्तथा । चतुर्णोञ्च चतुर्ष्वऽस्ति सुगीः श्रेष्ठः सुगिर्य्यपि ।। ३५१.
सुद्यौः सुदित्रौ सुद्युभ्यां विड्विषौ विट्सु यादृशः । यादृग्भ्याञ्चैव विड़भ्याञ्च षट् षट् षण्णाञ्च षट्स्वपि ।। ३५१.
सुवचाः सुवचसा च सुवचोभ्यामथेदृशम् । हे सुवचो हे उशनन् उशना वोशनस्यपि ।। ३५१.
पुरदंशा अनेहा हेविद्वन् विद्वांस उत्तमाः । विदुषे नमो विद्वद्भ्यां विद्वत्सु च वभुविवान् ।। ३५१.
एवञ्च पेचिवान् श्रेयान् श्रेयांसौ श्रेयसस्तथा । असौ अम् अमी श्रेष्ठा अमुं भमूनिहामुना ।। ३५१.
अमीभिरमुस्मै वामुस्मादमुषथ्य वामुयोस्तथा । अमीषाममुस्मिन्नित्येवं गोधुक् गोधुग्मिरगतः ।। ३५१.
गोधुक्ष्वित्येवमन्येपि मित्रद्रुहो मित्रद्रुहा । मित्रध्रुग्भ्यां मित्रध्रुग्भिरेव चित्तद्रुहादयः ।। ३५१.
स्वलिट् स्वलिड्भ्यां स्वलिहि अनड्वाननडुत्सु च । अजन्ताश्च हलन्ताश्च पुंस्याथोऽथ स्त्रियां वदे ।। ३५१.
स्कन्द उवाच रमा रमे रमाः शुभा रमां रमे रमास्तथा । रमया च रमाभ्याञ्च रमाभिः सृतमव्ययं ।। ३५२.
रमायै च रमाभ्याञ्च रमाया रमयोः शुभं । रमाणाञ्च रमायाञ्च रमाश्वेवं कलादयः ।। ३५२.
जरा जरसौ जर इति जरसश्च जरा जरां । जरसञ्च जरास्वेवं सर्व्वा सर्व्वे च सर्व्वेया ।। ३५२.
सर्व्वस्थै देहि सर्व्वस्याः सर्व्वस्याः सर्व्वयोस्तथा । शेषं रमावद्रूपं स्याद् द्वे द्वे तिस्रश्च तिसृणां ।। ३५२.
बुद्धीर्बुद्ध्या बुद्धये च बुद्ध्यै बुद्धेश्च हेमते । कविवत्स्यान्मुनीनाञ्च नदी नद्यौ नदीं नदीः ।। ३५२.
नद्या नदीभिर्नद्यै च नद्याञ्चैव नदीषु च । कुमारी जृम्भणीत्येवं श्रीः श्रियौ च श्रियः श्रिया ।। ३५२.
श्रियै श्रिये स्त्रीं स्त्रियञ्च स्त्रीश्च स्त्रियः स्त्रिया स्त्रियै । स्त्रियाः स्त्रीणां स्त्रियाञ्च ग्रामण्यां धेन्वै च धेनवे ।। ३५२.
जम्बूर्जम्ब्वौ च जम्बूश्च जम्बूनाञ्च फलम्पिव । वर्षाभ्वौ च पुनर्भ्वौ च मातॄर्व्वापरि च गौश्च नौः ।। ३५२.
वाग्वाचा वाग्भिश्च वाक्षु स्रग्भ्यां स्रजि स्रजोस्तथा । विद्वद्भ्याञ्चैव विद्वत्सु भवती स्याद् भवन्त्यपि ।। ३५२.
दीव्यन्ती भाती भान्ती च तुदन्ती च तुदत्यपि । रुदती रुन्धती देवी गृह्णती चोरयन्त्यपि ।। ३५२.
दृषत् दृषद्भ्यां दृषदि विशेषविदुषी कृतिः । समित् समिद्ब्यां समिधि सीमा सीम्नि च सीमनि ।। ३५२.
दामनीभ्यां ककुद्भ्याञ्च केयमाब्यां तथासु च । गीर्भ्याञ्चैव गिरा गीर्षु सुभूः सुपूः पुरा पुरि ।। ३५२.