एवं परवराद्याश्च दक्षिणोत्तरकान्तराः । अपरऱश्चाधरो नेमाः प्रथमाः प्रथमेऽर्कवत् ।। ३५१.
एवं चरमायतया अल्पार्द्धा नेमआदयः । द्वितीयस्मै द्वितीयाय द्वितीयस्मात् द्वितीयकात् ।। ३५१.
द्वितीयस्मिन् द्वितीये च तृतीयश्च तथाऽर्क्कवत् । सोमपाः सोमपौ ज्ञेयौसोमपाः सोमपां ब्रज ।। ३५१.
कीलालपौ सोमपश्च सोमपा सोमपे दद । सोमपाभ्यां सोमपाभ्यः सोमपः सोमपोः कुलं ।। ३५१.
एवं कीलालपाद्याः स्यु कविरग्निस्तथाऽरयः । हेकवे कविमग्नी तान् हरीन् सात्यकिना हृतं ।। ३५१.
रविभ्यां रविभिर्द्देहि वह्निये यः समागतः । अग्नेरग्न्योस्तथाग्नीनां कवौ कव्योः कविष्वऽथ ।। ३५१.
एवं सुसृतिरभ्रान्तिः सुकीर्त्तिः सुधृतिस्तथा । सखा सखायौ सखायः हेसखे व्रज सप्ततिं ।। ३५१.
सखायञ्च स खायौ च सखीन् सख्या गतो दद । सख्ये सख्युश्च सख्यश्च सख्योः शेषः कवेरिव ।। ३५१.
पत्या पत्ये च पत्यश्च पत्युः पत्योस्तथाऽग्निवत् । द्वौ द्वौ द्वाभ्यां द्वाभ्यां द्वित्वाद्यर्थे द्वयोर्द्वयोः ।। ३५१.
त्रयस्त्रींश्च त्रिभिस्त्रिभ्यस्त्रयाणाञ्च त्रिषु क्रमात् । कविवत् कतिकतीति शेषं वहुवचनं स्मृतम् ।। ३५१.
नीनियौ च नियो हेनीः नियं नियौ नियो निया । नीभ्यां नीभिर्निये नीभ्यः नियान्नियि नियोस्तथा ।। ३५१.
सुश्रीः सुधीः प्रभृतयो ग्रामणीः पूजयेद्धरिं । ग्रामण्यौ ग्रामण्यो ग्रामण्यं ग्रामण्या ग्रामणीभिः ।। ३५१.
ग्रामण्यो ग्रामण्यामेवं सेनानीप्रमुखाः सुभूः । सुभुवौ च स्वयम्भुवः स्वयम्भुञ्च स्वयम्भुवः ।। ३५१.
स्वयम्भुवा स्वयम्भुवि एवं प्रतिभुवादयः । खलपूः खलप्वौ श्रेष्ठौ खलप्वञ्च खलप्वि च ।। ३५१.
एवं शरपूमुखाः स्युः क्रोष्टा क्रोष्टार ईरिताः । क्रोष्टूंश्च कोष्टुश्च कोष्टुना क्रोष्ट्रा क्रोष्टूनां कोष्टरीदृशं ।। ३५१.
पिता पितरौ पितरः हेपितः पितरौ शुभौ । पितॄन् पितुः पितुः पित्रोः पितॄणां पितरीदृशं ।। ३५१.
एवं भ्राता च जामातृमुखा नॄणां नृणां तथा । कर्त्ता कर्त्तारौ कर्त्तॄश्च कर्त्तॄणां कर्त्तरीदृशं ।। ३५१.
पितृवच्चैवमुट्गाता स्वसा नप्त्रादयः स्मृताः । सुराः सुरायौ सुरायः नुरायाञ्च सुराय्यपि ।। ३५१.
गौः गावौ गाङ्गा गवा च गोर्गवोश्च गवां गवि । एव द्यौर्ग्लौश्चापि तथा स्वरान्ताः पुंसि नायकाः ।। ३५१.
सुवाक् सुवाचौ सुवाचा सुवाग्भ्याञ्च सुवाक्ष्वपि । एवं दिक्प्रमुखाः प्राङ्च प्राञ्चौ प्राञ्चञ्च भो व्रज ।। ३५१.
प्राग्भ्यां प्राग्भिः प्राचाञ्च प्राचि च प्राङ्सु प्राङ्सु प्राङ्श्वपि एवं ह्युदङुदीची वा सम्यङ्क प्र्त्यकसमीच्यपि ।। ३५१.५५ तिर्य्यङ्तिरश्च सध्र्यङ् च विश्वद्र्यङ् पूर्ववत् स्मृताः । अदद्र्यङदमुयङ् स्यात् ततामुमुयङीरितः ।। ३५१.
अदद्र्यङदमुयङ् स्यात् तथामुमुयङीरितः । अदद्र्यञ्चो ह्यमुद्रीचः अदद्र्यग्भ्याञ्च पूर्व्ववत् ।। ३५१.
तत्त्वतृषि तत्त्वतृट्सु एवं काष्ठतड़ादयः । भिषक् भिषगब्यां भिषजि जन्मभागादयस्तथा ।। ३५१.
मरुत् मरुद्भ्यां मरुति एवं शत्रुजिदादयः । भवान् भवन्तौ भवतां भवंश्चैव भवत्यपि ।। ३५१.
महान्महान्तौ महतामेवं भगवदादयः । एवं मघवान्मघवन्तौ अग्निचिच्चाग्निचित्यपि ।। ३५१.
अग्निचित्स्वेवमेवान्यत् वेदवित्त्ववित्त्वपि । वेदविदामेवमन्यत् यः समस्तेन सर्व्ववित् ।। ३५१.
राजा राजानौ राज्ञः रीज्ञि राजनि राजन् । यज्वा यज्वानस्तद्वत् करी दण्डी च दण्डिनी ।। ३५१.
पन्थाः पन्थानौ च पथः पथिम्भां पथि चेदृशम् । मन्था ऋभुक्षाः पश्याद्याः पञ्च पञ्च च पञ्चभिः ।। ३५१.
प्रतान् प्रतानौ प्रतान्भ्यां हेप्र्तांश्च सुशर्म्मणः । आपः अपः अद्भिरप्येवं प्रशांश्चैव प्रशाम्यपि ।। ३५१.
कः केन सर्व्ववत् केषु अयं चेमेइमान्नयः । अनेन चाभ्यामेभिश्च अस्मै चेभ्यः स्वमस्यच ।। ३५१.