श्रृण्वती तुदती कर्त्री तुदन्ती कुर्वती मही । रुन्धती क्रीड़ती दान्ती पालयन्ती सुराण्यपि ।। ३५१.
गौरी पुत्रवती नीश्च वधूर्द्देवतया भुवा । तिस्रो द्वे कति वर्षाभूः स्वसा माता वरा च गौः ।। ३५१.
नौर्वाक्त्वक्त्वक्प्राच्यवाचीति तिरश्ची समुदीच्यपि । शरद्विद्युत् सरिद्योषित् अग्निवित् सस्पदा दृशत् ।। ३५१.
यैषा सा वेदवित्संवित् बह्वी राज्ञी त्वया मया । सीमा पञ्चादयो राजी धूः पूश्चैव दिशा गिरा ।। ३५१.
चतस्रो विदुषी चैव केयं दिक् दृक् च तादृशो । असौ स्त्रियां नायकाश्च नायकाश्च नपुंसके ।। ३५१.
कुण्डं सर्वं सोमपञ्च दधि वारि खलप्वथ । मधु त्रपु कर्त्तृ भक्तृ अतिवक्तृ पयः पुरः ।। ३५१.
प्राक्प्रत्यक् च तिर्य्यगुदक् जगद् जाग्रत्तथा सकृत् । सुसम्पच्च सुदण्डीह अहः किञ्चेदमित्यपि ।। ३५१.
षट्सर्पिः श्रेयश्चत्वारि अदोऽन्ये हीदृशाः परे । एतेब्यः प्रथमादयश्च स्युः प्रातिपदिकात्पराः ।। ३५१.
धातुप्रत्ययहीनं यत्स्यात् प्रातिपदिकन्तु तत् । प्रातिपदिकात् स्वलिङ्गार्थवचने प्रथमा भवेत् ।। ३५१.
सम्बोधने च प्रथमा उक्ते कर्म्मणि कर्त्तरि । कर्म्म यत् क्रियते तत्स्यात् द्वितीया कर्मणि स्मृता ।। ३५१.
क्रियते येन करणं कर्त्ता यश्च करोति सः । अनुक्ते तिङ्कृत्तद्धितैस्तृतीया करणे भवेत् ।। ३५१.
कारके कर्त्तरि च सा सम्प्रदाने चतुर्थ्यपि । यस्मै दित्सा धारयते सम्प्रदानं तदीरितं ।। ३५१.
अपादानं यतोऽपैति आदत्ते च भयं यतः । अपादाने पञ्चमी स्यात् स्वस्वाम्यादौ च षष्ठ्यपि ।। ३५१.
आधारो योऽधिकरणं विभक्तिस्तत्र सप्तमी । एकार्थे चैकवचनं द्व्यर्थे द्विवचनं भवेत् ।। ३५१.
बहुषु बहुवचनं सिद्धरूपाण्यथो वदे । वृक्षः सूर्य्योऽमबुवाहोऽर्क हेरवे हेद्विजातयः ।। ३५१.
विप्रौ गजान्महेन्द्रेण यमाब्यामनलैः कृतं । रामाय मुनिवर्य्याभ्यां केभ्यो धर्म्मात् हरौ रतिः ।। ३५१.
शराब्यां पुस्तकेभ्यश्च अर्थस्येश्वरयोर्गतिः । बालानां सज्जने प्रीतिर्हंसयोः कमलेषु च ।। ३५१.
एवं काममहेशाद्याः शब्दा ज्ञेयाश्च वृक्षवत् । सर्वे विश्वे च सर्वस्मै सर्वस्मात्कतरो मतः ।। ३५१.
सर्वेषां स्वञ्च विश्वस्मिन् शेषं रूपञ्च वृक्षवत् । एवञ्चोभयकतरकतमान्यतरादयः ।। ३५१.
पूर्व्वे पूर्व्वाश्च पूर्वस्मै पूर्वस्मात् सुसमागतः । पूर्व्वो बुद्धिश्च पूर्वस्मिन् शेषरूपन्तु सर्ववत् ।। ३५१.
एवं परवराद्याश्च दक्षिणोत्तरकान्तराः । अपरऱश्चाधरो नेमाः प्रथमाः प्रथमेऽर्कवत् ।। ३५१.
एवं चरमायतया अल्पार्द्धा नेमआदयः । द्वितीयस्मै द्वितीयाय द्वितीयस्मात् द्वितीयकात् ।। ३५१.
द्वितीयस्मिन् द्वितीये च तृतीयश्च तथाऽर्क्कवत् । सोमपाः सोमपौ ज्ञेयौसोमपाः सोमपां ब्रज ।। ३५१.
कीलालपौ सोमपश्च सोमपा सोमपे दद । सोमपाभ्यां सोमपाभ्यः सोमपः सोमपोः कुलं ।। ३५१.
एवं कीलालपाद्याः स्यु कविरग्निस्तथाऽरयः । हेकवे कविमग्नी तान् हरीन् सात्यकिना हृतं ।। ३५१.
रविभ्यां रविभिर्द्देहि वह्निये यः समागतः । अग्नेरग्न्योस्तथाग्नीनां कवौ कव्योः कविष्वऽथ ।। ३५१.
एवं सुसृतिरभ्रान्तिः सुकीर्त्तिः सुधृतिस्तथा । सखा सखायौ सखायः हेसखे व्रज सप्ततिं ।। ३५१.
सखायञ्च स खायौ च सखीन् सख्या गतो दद । सख्ये सख्युश्च सख्यश्च सख्योः शेषः कवेरिव ।। ३५१.
पत्या पत्ये च पत्यश्च पत्युः पत्योस्तथाऽग्निवत् । द्वौ द्वौ द्वाभ्यां द्वाभ्यां द्वित्वाद्यर्थे द्वयोर्द्वयोः ।। ३५१.
त्रयस्त्रींश्च त्रिभिस्त्रिभ्यस्त्रयाणाञ्च त्रिषु क्रमात् । कविवत् कतिकतीति शेषं वहुवचनं स्मृतम् ।। ३५१.