एतैर्म्मनुभिः स्वाहान्तैः पूज्य तिलहोमादिनार्थभाक् । काद्यैर्वा वीजसंयुक्तैराद्यैश्च नमोऽन्तकैः ।। ३४८.
मन्त्राः पृथक् पृथग्वा स्युर्द्विरेफद्विर्मुखाक्षिणः । कात्यायनं स्कन्द आह यत्तद्व्याकरणं वदे ।। ३४८.
स्कन्द उवाच वक्ष्ये व्याकरणं सारं सिद्धशब्दस्वरूपकम् । कात्यायनविबोधाय बालानां बोधनाय च ।। ३४९.
स्कन्द उवाच वक्ष्ये सन्धिसिद्धरूपं स्वरसन्धिमथादितः । दण्डाग्रं सागता दधीदं नदीहते मधूदकं ।। ३५०.
पितॄषभः लॄकारश्च तवेदं सकलोदकं । अर्द्धर्च्चोऽयं तवल्कारः सैषा सैन्द्री तवौदनम् ।। ३५०.
शट्टौघोऽभवदित्येवं व्यसुधीर्वस्वलङ्कृतं । पित्रर्थोपवनं दात्री नायको लावको नयः ।। ३५०.
तइह तयिहेत्यादि तेऽत्र योत्र जलेऽकजं । प्रकृतिर्नो अहो एहि अ अवेहि इ इन्द्रकं ।। ३५०.
उ उत्तिष्ठ कवी एतौ वायू एतौ वने इमे । अमी एते यज्ञभूते एहि देव इमन्नय ।। ३५०.
वक्ष्ये सन्धि व्यञ्जानानां वाग्यतोऽजेकमातृकः । षडेते तदिमे वादिवाङ्नीतिः षण्मुखादिकम् ।। ३५०.
वाङ्मनसं वाग्भावादिर्वाक् श्लक्ष्णं तच्छरीरकं । तल्लुनाति तच्चरेच्च क्रुङ्ङास्ते सुगण्णिह ।। ३५०.
भवांश्चरन् भवांश्छात्रो भवांष्टीका भवांष्ठकः । भवांस्तीर्थं भवांस्थेयात् भवांल्लेखा भवाञ्जयः ।। ३५०.
भवाञ्छेते भवाञ्च्शेते भवाञ्शेते भवाण्डीनः । त्वम्भर्त्ता त्वङ्करोष्यादिः सन्धिर्ज्ञयो विसर्गजः ।। ३५०.
कश्छिन्द्यात् कश्चरेत् कष्टः कष्ठः कस्थश्च कश्चलेत् । क खनेत् क करोति स्म क " पठेत् " फलेत वा ।। ३५०.
कश्श्वशुरः कः श्वशुरः कस्सावरः कः सावरः । कः फलेत कः शयिता कोऽत्र योधः क उत्तमः ।। ३५०.
देवा एते भो इह सोदरा यान्ति भगो व्रज । सुपूः सुदूरात्रिरत्र वायुर्याति पुनर्न हि ।। ३५०.
पुनरेति स यातीह एष याति क ईश्वरः । ज्योतीरूपं तवच्छत्रं म्लेच्छधीश्छिद्रमच्छिदत् ।। ३५०.
स्कन्द उवाच विभक्तिसिद्धरूपञ्च कात्यायन वदामि ते । द्वे विभक्ती सुप्तिङश्च सुपः सप्त विभक्तयः ।। ३५१.
सु औजसिति प्रथमा अमौट्शसो द्वितीया । टाभ्यां बिसिति तृतीया ङभ्यांभ्यसश्चतुर्थ्यपि ।। ३५१.
ङसिभ्यांभ्यसः पञ्चमी स्यात्ङसोसामिति षष्ठ्यपि । ङिओस्तुबिति सप्तमी स्यात् स्युः प्रातिपदिकात्पराः ।। ३५१.
द्विविधं प्रातिपदिकं ह्यजन्तञ्च हलन्तकं । प्रत्येकं त्रिविधं तत् स्यात् पुमांस्त्री च नपुंसकं ।। ३५१.
दर्श्यन्ते नायकास्तेषामनुक्तानाञ्च वीर्य्यतः । वृक्षः सर्व्वोऽथ पूर्व्वश्च प्रथमश्च द्वितीयकः ।। ३५१.
तृतीयः खण्डपा वह्निः सखापतिरहर्पतिः । पटुर्नीर्ग्रामणीन्द्रश्च खलबूर्म्मित्रभूः स्वभूः ।। ३५१.
सुश्रीः सुधीः पिता भ्राता ना कर्त्ता क्रोष्टुनप्तृकौ । सुरा रा गौस्तथा द्यौर्ग्लौः स्वरान्ताः पुंसि नायकाः ।। ३५१.
सुवाक् त्वक् पृषत् सम्राट् जन्मभाक् च अवेदपि । आपो मरुद्भवन् दीव्यन् भवांश्च मघवान् पिवन् ।। ३५१.
भगवानघवानर्व्वान्वह्निमत् सर्व्ववित्सुपृत् । सुसोमा कुण्डी राजा च श्वा युवा मघवा तथा ।। ३५१.
पूषा सुकर्म्मा यज्वा च सुवर्म्मा च सुधर्म्मणा । अर्य्यमा वृत्रहा पन्थाः सुककुदादिपञ्च च ।। ३५१.
प्रशान् सुतांश्च पञ्चाद्याः सुगीः सुराः सुपूरपि । चन्द्रमाः सुवचाः श्रेयान् विद्वांश्चोशनसा सह ।। ३५१.
पेचिवान् गौरवानड्वान् गोधुङ्मित्रद्रुहौ श्वलिट् । स्त्रियां जाया जरा बाला एड़का सहो वृद्धया ।। ३५१.
क्षात्रिया बहुराजा च बहुदा माऽथ बालिका । माया कौमुदगन्धा च सर्व्वा पूर्व्वा सहान्यया ।। ३५१.
द्वितीया च तृतीया च बुद्धिः स्त्रो श्रोर्न्नदी सुधीः । भवन्ती चैव दीव्यन्ती भाती भान्ती च यान्त्यपि ।। ३५१.