एकपद्मेऽर्चयेदेतान्नव दुर्गाश्च पूजयेत् । भगवती कात्यायनी कौशिकी चाथ चण्डिका ।। ३४८.
प्रचण्डा सुरनायिका उग्रा पार्व्वती दुर्गया । ओं चण्डिकायै विद्महे भगवत्यै धीमहि तन्नो दुर्गा प्रचोदयात् । क्रमादि तु षड़ङ्गं स्याद् गणो गुरुर्गुरुः क्रमात् ।। ३४८.
अजितापराजिता चाथ जया च विजया ततः । कात्यायनी भद्रकाली मङ्गला सिद्धिरेवती ।। ३४८.
सिद्दादिवटुकाः पूज्या हेतुकश्च कपालिकः । एकपादो भीमरूपो दिक्पालान्मध्यतो नव ।। ३४८.
ह्रीं दुर्गे दुर्गे रक्षणि स्वाहा मन्त्रार्थसिद्धये । गौरी पूज्या च धर्म्मद्याः स्कन्दाद्याः शक्तयो यजेत् ।। ३४८.
प्रज्ञा ज्ञाना क्रिया वाचा वागीशी ज्वालिनी तथा । कामिनी काममाला च इन्द्राद्याः शक्तिपूजनं ।। ३४८.
ओं गं स्वाहा मूलमन्त्रोऽयं गं वा गणपतये नमः । षड़ङ्गो रक्तशुक्लश्च कदन्कताक्षपरशूत्कटः ।। ३४८.
समोदकोऽथ गन्धादिगन्धोल्कायेति च क्रमात् । गजो महागणपतिर्म्महो ल्कः पूज्य एव च ।। ३४८.
कुष्माण्डाय एकदन्तत्रिपुरान्तकाय श्यामदन्तविकटहरहासाय । लम्वनाशाननाय पद्मदंष्ट्राय मेघोल्काय धूमोल्काय । वक्रतुण्डाय विघ्नेश्वराय विकटोत्कटाय गजेन्द्रगमनाय ।। ३४८.
वक्रतुण्डाय विघ्नेश्वराय विकटोत्कटाय गजेन्द्रगमनाय । भुजगेन्द्रहाराय शशाङ्कधराय गणाधिपतये स्वाहा ।। ३४८.
एतैर्म्मनुभिः स्वाहान्तैः पूज्य तिलहोमादिनार्थभाक् । काद्यैर्वा वीजसंयुक्तैराद्यैश्च नमोऽन्तकैः ।। ३४८.
मन्त्राः पृथक् पृथग्वा स्युर्द्विरेफद्विर्मुखाक्षिणः । कात्यायनं स्कन्द आह यत्तद्व्याकरणं वदे ।। ३४८.
स्कन्द उवाच वक्ष्ये व्याकरणं सारं सिद्धशब्दस्वरूपकम् । कात्यायनविबोधाय बालानां बोधनाय च ।। ३४९.
स्कन्द उवाच वक्ष्ये सन्धिसिद्धरूपं स्वरसन्धिमथादितः । दण्डाग्रं सागता दधीदं नदीहते मधूदकं ।। ३५०.
पितॄषभः लॄकारश्च तवेदं सकलोदकं । अर्द्धर्च्चोऽयं तवल्कारः सैषा सैन्द्री तवौदनम् ।। ३५०.
शट्टौघोऽभवदित्येवं व्यसुधीर्वस्वलङ्कृतं । पित्रर्थोपवनं दात्री नायको लावको नयः ।। ३५०.
तइह तयिहेत्यादि तेऽत्र योत्र जलेऽकजं । प्रकृतिर्नो अहो एहि अ अवेहि इ इन्द्रकं ।। ३५०.
उ उत्तिष्ठ कवी एतौ वायू एतौ वने इमे । अमी एते यज्ञभूते एहि देव इमन्नय ।। ३५०.
वक्ष्ये सन्धि व्यञ्जानानां वाग्यतोऽजेकमातृकः । षडेते तदिमे वादिवाङ्नीतिः षण्मुखादिकम् ।। ३५०.
वाङ्मनसं वाग्भावादिर्वाक् श्लक्ष्णं तच्छरीरकं । तल्लुनाति तच्चरेच्च क्रुङ्ङास्ते सुगण्णिह ।। ३५०.
भवांश्चरन् भवांश्छात्रो भवांष्टीका भवांष्ठकः । भवांस्तीर्थं भवांस्थेयात् भवांल्लेखा भवाञ्जयः ।। ३५०.
भवाञ्छेते भवाञ्च्शेते भवाञ्शेते भवाण्डीनः । त्वम्भर्त्ता त्वङ्करोष्यादिः सन्धिर्ज्ञयो विसर्गजः ।। ३५०.
कश्छिन्द्यात् कश्चरेत् कष्टः कष्ठः कस्थश्च कश्चलेत् । क खनेत् क करोति स्म क " पठेत् " फलेत वा ।। ३५०.
कश्श्वशुरः कः श्वशुरः कस्सावरः कः सावरः । कः फलेत कः शयिता कोऽत्र योधः क उत्तमः ।। ३५०.
देवा एते भो इह सोदरा यान्ति भगो व्रज । सुपूः सुदूरात्रिरत्र वायुर्याति पुनर्न हि ।। ३५०.
पुनरेति स यातीह एष याति क ईश्वरः । ज्योतीरूपं तवच्छत्रं म्लेच्छधीश्छिद्रमच्छिदत् ।। ३५०.
स्कन्द उवाच विभक्तिसिद्धरूपञ्च कात्यायन वदामि ते । द्वे विभक्ती सुप्तिङश्च सुपः सप्त विभक्तयः ।। ३५१.
सु औजसिति प्रथमा अमौट्शसो द्वितीया । टाभ्यां बिसिति तृतीया ङभ्यांभ्यसश्चतुर्थ्यपि ।। ३५१.
ङसिभ्यांभ्यसः पञ्चमी स्यात्ङसोसामिति षष्ठ्यपि । ङिओस्तुबिति सप्तमी स्यात् स्युः प्रातिपदिकात्पराः ।। ३५१.
द्विविधं प्रातिपदिकं ह्यजन्तञ्च हलन्तकं । प्रत्येकं त्रिविधं तत् स्यात् पुमांस्त्री च नपुंसकं ।। ३५१.