क्रियाभ्रंशेन लक्ष्मास्ति क्रियाध्याहारयोगतः । भ्रष्टकारकताक्षेपबलाध्याहृतकारके ।। ३४७.
प्रगृह्यो गृह्यते नैव क्षतं विगतसन्धिना । कष्टपाठाद्विसन्धित्वं दुर्व्वचादौ न दुर्भगम् ।। ३४७.
अनुप्रासे पदावृत्तिर्व्यस्तसम्बन्धता शुभा । नार्थसंग्रहणे दोषो व्युत्क्रमाद्यैर्न्न लिप्यते ।। ३४७.
विभक्तिसंज्ञालिङ्गानां यत्रोद्वेगो न धीमतां । संख्यायास्तत्र भिन्नत्वमुप्मानोपमेययोः ।। ३४७.
अनेकस्य तथैकेन बहूनां बहुभिः शुभा । कवीनां समुदाचारः समयो नाम गीयते ।। ३४७.
सामान्यश्च विशिष्टश्च धर्म्मवद्भवति द्विधा । सिद्धसैद्धान्तिकानाञ्च कवीनाञ्चाविवादतः ।। ३४७.
यः प्रसिध्यति सामान्य इत्यसौ समयो मतः । सर्व्वे सिद्धान्तिका येन सञ्चरन्ति निरत्ययं ।। ३४७.
कियन्त एव वा येन सामान्यस्तेन स द्विधा । छेदसिद्धान्ततोऽन्यः स्यात् केषाञ्चिद् भ्रान्तितो यथा ।। ३४७.
तर्कज्ञानां मुनेः कस्य कस्यचित् क्षणभङ्गिका । भूतचैतन्यता कस्य ज्ञानस्य सुप्रकाशता ।। ३४७.
प्रज्ञातस्थूलताशबप्दानेकान्तत्वं तथार्हतः । शैववैष्णवशाक्तेयसौरसिद्धान्तिनां मतिः ।। ३४७.
जगतः कारणं ब्रह्म साङ्ख्यानां सप्रधानकं । अस्मिन् सरस्वतीलोके सञ्चरन्तः परस्परम् ।। ३४७.
बध्नन्ति व्यतिपश्यन्तो यद्विशिष्टः स उच्यते । परिग्रहादप्यसतां सतामेवापरिग्रहात् ।। ३४७.
भिद्यमानस्य तस्यायं द्वैविध्यमुपगीयते । प्रत्यज्ञादिप्रमाणैर्यद्बाधितं तदसद्विदुः ।। ३४७.
कविभिस्तत् प्रतिग्राह्यं ज्ञानस्य द्योतमानता । यदेवार्थक्रियाकारि तदेव परमार्थसत् ।। ३४७.
अज्ञानाज्ज्ञानतस्त्वेकं ब्रह्मैव परमार्थसत् । विष्णुः स्वर्गादिहेतुः स शब्दालङ्काररूपवान् ।। ३४७.
अपरा च परा विद्या तां ज्ञात्वा मुच्यते भवात् ।। ३४७.
अग्निरुवाच एकाक्षराभिधानञ्च मातृकान्तं वदामि ते । अ विष्णुः प्रतिषेधः स्यादा पितामहवाक्ययोः ।। ३४८.
सीमायामथाव्ययं आ भवेत्संक्रोधपीडयो । इः कामे रतिलक्ष्म्योरी उः शिवे रक्षकाद्य ऊः ।। ३४८.
ऋ शब्दे चादितौ ऋॄस्यात् लृ लॄ ते वै [https://puranastudy.freeoda.com/pur_index14/diti.htm दितौ] गुहे । ए देवी ऐ योगिनी स्यादो ब्रह्मा औ महेश्वरः ।। ३४८.
अङ्कामः अः प्रशस्तः स्यात् को ब्रह्मादौ कु कुत्सिते । खं शून्येन्द्रियं खङ्गो गन्धर्व्वे च विनायके ।। ३४८.
गङ्गीते गो गायने स्याद् घो घण्टा किङ्किणीमुखे । ताड़ने ङ्श्च विषयेस्पृहायाञ्चैव भैरवे ।। ३४८.
चो दुर्जने निर्म्मले छश्छेदे जिर्ज्जयने तथा । जं गीते ज्ञः प्रशस्ते स्याद् बले ञो गायने च टः ।। ३४८.
ठश्चन्द्रमण्डले शून्ये शिवे चोद्बन्धने मतः । डश्च रुद्रे ध्वनौ त्रासे ढक्कायां ढो ध्वनौ मतः ।। ३४८.
णो निष्कर्षे निश्चये च तश्चौरे क्रोडपुच्छके । भक्षणे थश्छेदने दो धारणे शोभने मतः ।। ३४८.
धो धातरि च धूस्तूरे नो वृन्दे सुगते तथा । प उपवने विख्यातः फश्च झञ्झानिले मतः ।। ३४८.
फुः फुत्कारे निष्फले च विः पक्षी भञ्च तारके । मा श्रीर्म्मानञ्च माता स्याद्यागे यो यातृवीरणे ।। ३४८.
रो वह्नौ च लः शक्रे च लो विधातरि ईरितः । विश्लेषणे वो वरुणे शयने शश्च शं सुखे ।। ३४८.
षः श्रेष्ठे सः परोक्षे च सा लक्ष्मीः सं कचे मतः । धारणे हस्तथा रुद्रे क्षः क्षत्त्त्रे चाक्षरे मतः ।। ३४८.
क्षो नृसिंहे हरौ तद्वत् क्षेत्रपालकयोरपि । मन्त्र एकाक्षरो देवो भुक्तिमुक्तिप्रदायकः ।। ३४८.
हैहयशिरसे नमः सर्व्वविद्याप्रदो मनुः । अकाराद्यास्तथा मन्त्रा मातृकामन्त्र उत्तमः ।। ३४८.