यथासङ्ख्यमनुद्देशः सामान्यमतिदिश्यते । समये वर्णनीयस्य दारुणस्यापि वस्तुनः ।। ३४६.
अदारुणेन शब्देन प्राशसत्यमुपवर्णनं । उच्चैः परिणतिः कापि पाक इत्यभिधीयते ।। ३४६.
मृद्वीकानारिकेलाम्बुपाकभेदाच्चतुव्विधः । आदावन्ते च सौरस्यं मृद्वीकापाक एव सः ।। ३४६.
काव्येच्छया विशेषो यः स राग इति गीयते । अब्यासोपहितः कान्तिं सहजामपि वर्त्तते ।। ३४६.
हारिद्रश्चैव कौसुम्भो नीली रागश्च स त्रिधा । वैशेषिकः परिज्ञेयो यः स्वलक्षणगोचरः ।। ३४६.
अग्निरुवाच उद्वेगजनको दोषः सभ्यानां स च सप्तधा । वक्तृवाचकवाच्यानामेकद्वित्रिनियोगतः ।। ३४७.
तत्र वक्ता कविर्नाम प्रथते स च भेदतः । सन्दिहानोऽविनीतः सन्नज्ञो ज्ञाता चतुर्व्विंधः ।। ३४७.
निमित्तपरिभाषाभ्यामर्थसंस्पर्शिवाचकम् । तद्भेदो पदवाक्ये द्वे कथितं लक्षणं द्व्योः ।। ३४७.
असाधुत्वाप्रयुक्तत्वे द्वावेव पदनिग्रहौ । शब्दशास्त्रविरुद्धत्वमसाधुत्वं विदुर्बुधाः ।। ३४७.
व्युत्पन्नैरनिबद्धत्वमप्रयुक्तत्वमुच्यते । छान्दसत्वमविस्पष्टत्वञ्च कष्टत्वमेव च ।। ३४७.
तदसामयिकत्वञ्च ग्राम्यत्वञ्चेति पञ्चधा । छान्दसत्वं न भाषायामविस्पष्टमबोधतः ।। ३४७.
गूढ़ार्थता विपर्य्यस्तार्थता संशयितार्थता । अविस्पष्टार्थता भेदास्तत्र गूढ़ार्थतेति सा ।। ३४७.
यत्रार्थो दुःखसंवेद्यो विपर्य्यस्तार्थ्ता पुनः । विवक्षितान्यशब्दार्थप्रतिपत्तिर्मलीमसा ।। ३४७.
अन्यार्थत्वासमर्थत्वे एतामेवोपसर्पतः । सन्दिह्यमानवाच्यत्वमाहुः संशयितार्थतां ।। ३४७.
दोषत्वमनुबध्नाति सज्जनोद्वेजनादृते । असुखोच्चार्य्यमाणत्वं कष्टत्वं समयाच्युतिः ।। ३४७.
असामयितता नेयामेताञ्च मुनयो जगुः । ग्राम्यता तु जघन्यार्थप्रतिपत्तिः शलीकृता ।। ३४७.
वक्तव्यग्राम्यवाच्यस्य वचनात्स्मरणादपि । तद्वाचकपदेनाभिसाम्याद्भवति सा त्रिधा ।। ३४७.
दोषः साधारणः प्रातिस्विकोऽर्थस्य स तु द्विधा । अनेकभागुपालम्भः साधारण इति स्मृतः ।। ३४७.
क्रियाकारकयोर्भ्रंशो विसन्धिः पुनरुक्तता । व्यस्तसम्बन्धता चेति पञ्च साधारणा मताः ।। ३४७.
अक्रियत्वं त्रियाभ्रंशो भ्रष्टकारकता पुनः । सर्त्त्र्यादिकारकाभावो विसन्धिः सन्धिदूषणम् ।। ३४७.
विगतो वा विरुद्धो वा सन्धिः स भवति द्विधा । सन्धेर्व्विरुद्धता कष्टपादादर्थान्तरागमात् ।। ३४७.
पुनरुक्तत्वमाभीक्ष्ण्यादभिधानं द्विधैव तत् । अर्थावृत्तिः पदावृत्तिरर्थावृत्तिरपि द्विधा ।। ३४७.
प्रयुक्त वरशब्देन तथा शब्दान्तरेण च । नावर्त्तते पदावृत्तौ वाच्यमावर्त्तते पदम् ।। ३४७.
व्यस्तसम्बन्धता सुष्ठुसम्बन्धो व्यवधानतः । सम्बन्धान्तरनिर्भाषात् सम्बन्धान्तरजन्मनः ।। ३४७.
अभावेपि तयोरन्तर्व्यवधानात्त्त्रिधैव सा । अन्तरा पदवाक्याभ्यां पुनर्द्विधा ।। ३४७.
वाच्यमर्थार्थ्यमानत्वात्तद्द्विधा पदवाक्ययोः । व्युत्पादितपूर्व्ववाच्यं व्युत्पाद्यञ्चेति भिद्यते ।। ३४७.
इष्टव्याघातकारित्वं हेतोः स्यादसमर्थता । असिद्धत्वं विरुद्धत्वमनैकान्तिकता तथा ।। ३४७.
एवं सत्प्रतिपक्षत्वं कालातीतत्वसङ्करः । पक्षे सपक्षे नास्तित्वं विपक्षेऽस्तित्वमेव तत् ।। ३४७.
काव्येषु परिषद्यानां न भवेदप्यरुन्तुदम् । एकादशनिरर्थत्वं दुष्करादौ न दुष्यति ।। ३४७.
दुःखीकरोति दोषज्ञान् गूढार्थत्वं न दुष्करे । न ग्राम्यतोद्वेगकारी प्रसिद्धेर्ल्लोकशास्त्रयोः ।। ३४७.