उच्यमानस्य शब्देन येन केनापि वस्तुनः । उत्कर्षमावहन्नर्थो गुण इत्यबिधीयते ।। ३४६.
माधुर्य्यं सम्बिधानञ्च कोमलत्वमूदारता । प्रौढ़िः सामयिकत्वञ्च तद्भेदाः षट्चकाशति ।। ३४६.
क्रोधेर्ष्याकारगाम्भीर्य्यान्माधुर्य्यं धैर्य्यगाहिता । सम्बिधानं परिकरः स्यादपेक्षइतसिद्धये ।। ३४६.
यत्काठिन्यादिनिर्मुक्तसन्निवेशविशिष्टता । तिरस्कृत्यैव मृकदुता भाति कोमलतेति सा ।। ३४६.
लक्ष्यते स्थूललक्षत्वप्रवृत्तेर्यत्र लक्षणम् । गुणल्य तदुदारत्वमाशयस्यातिसौष्ठवं ।। ३४६.
अभिप्रेतं प्रति यतो निर्व्वाहस्योपपादिकाः । युक्तयो हेतुगर्भिण्यः प्रौढाप्रौढिरुदाहृता ।। ३४६.
स्वतन्त्रस्यान्यतन्त्रस्य वाह्यान्तः समयोगतः । तत्र व्युत्पत्तिरर्थस्य या सामयिकतेति सा ।। ३४६.
शब्दार्थावुपकुर्व्वाणो नाम्नोभयगुणः स्मृतः । तस्य प्र्सादः सौभाग्यं यथासङ्ख्यं प्रशस्तता ।। ३४६.
काको राग इकति प्राज्ञैः षट् प्रपञ्चविपञ्चिताः । पाको राग इति प्राज्ञैः पाठभेदः सुप्रसिद्धार्थपदता प्रसाद इति गीयते ।। ३४६.
उत्कर्षवान् गुणः कश्चिद्यस्मिन्नुक्तेप्रतीयते । तत्सौभाग्यमुदारत्वं प्रवदन्ति मनीषिणः ।। ३४६.
यथासङ्ख्यमनुद्देशः सामान्यमतिदिश्यते । समये वर्णनीयस्य दारुणस्यापि वस्तुनः ।। ३४६.
अदारुणेन शब्देन प्राशसत्यमुपवर्णनं । उच्चैः परिणतिः कापि पाक इत्यभिधीयते ।। ३४६.
मृद्वीकानारिकेलाम्बुपाकभेदाच्चतुव्विधः । आदावन्ते च सौरस्यं मृद्वीकापाक एव सः ।। ३४६.
काव्येच्छया विशेषो यः स राग इति गीयते । अब्यासोपहितः कान्तिं सहजामपि वर्त्तते ।। ३४६.
हारिद्रश्चैव कौसुम्भो नीली रागश्च स त्रिधा । वैशेषिकः परिज्ञेयो यः स्वलक्षणगोचरः ।। ३४६.
अग्निरुवाच उद्वेगजनको दोषः सभ्यानां स च सप्तधा । वक्तृवाचकवाच्यानामेकद्वित्रिनियोगतः ।। ३४७.
तत्र वक्ता कविर्नाम प्रथते स च भेदतः । सन्दिहानोऽविनीतः सन्नज्ञो ज्ञाता चतुर्व्विंधः ।। ३४७.
निमित्तपरिभाषाभ्यामर्थसंस्पर्शिवाचकम् । तद्भेदो पदवाक्ये द्वे कथितं लक्षणं द्व्योः ।। ३४७.
असाधुत्वाप्रयुक्तत्वे द्वावेव पदनिग्रहौ । शब्दशास्त्रविरुद्धत्वमसाधुत्वं विदुर्बुधाः ।। ३४७.
व्युत्पन्नैरनिबद्धत्वमप्रयुक्तत्वमुच्यते । छान्दसत्वमविस्पष्टत्वञ्च कष्टत्वमेव च ।। ३४७.
तदसामयिकत्वञ्च ग्राम्यत्वञ्चेति पञ्चधा । छान्दसत्वं न भाषायामविस्पष्टमबोधतः ।। ३४७.
गूढ़ार्थता विपर्य्यस्तार्थता संशयितार्थता । अविस्पष्टार्थता भेदास्तत्र गूढ़ार्थतेति सा ।। ३४७.
यत्रार्थो दुःखसंवेद्यो विपर्य्यस्तार्थ्ता पुनः । विवक्षितान्यशब्दार्थप्रतिपत्तिर्मलीमसा ।। ३४७.
अन्यार्थत्वासमर्थत्वे एतामेवोपसर्पतः । सन्दिह्यमानवाच्यत्वमाहुः संशयितार्थतां ।। ३४७.
दोषत्वमनुबध्नाति सज्जनोद्वेजनादृते । असुखोच्चार्य्यमाणत्वं कष्टत्वं समयाच्युतिः ।। ३४७.
असामयितता नेयामेताञ्च मुनयो जगुः । ग्राम्यता तु जघन्यार्थप्रतिपत्तिः शलीकृता ।। ३४७.
वक्तव्यग्राम्यवाच्यस्य वचनात्स्मरणादपि । तद्वाचकपदेनाभिसाम्याद्भवति सा त्रिधा ।। ३४७.
दोषः साधारणः प्रातिस्विकोऽर्थस्य स तु द्विधा । अनेकभागुपालम्भः साधारण इति स्मृतः ।। ३४७.
क्रियाकारकयोर्भ्रंशो विसन्धिः पुनरुक्तता । व्यस्तसम्बन्धता चेति पञ्च साधारणा मताः ।। ३४७.
अक्रियत्वं त्रियाभ्रंशो भ्रष्टकारकता पुनः । सर्त्त्र्यादिकारकाभावो विसन्धिः सन्धिदूषणम् ।। ३४७.