यया शब्दो निमित्तेन केनचित्सौपचारिकी । सा च लाक्षणिकी गौणी लक्षणागुणयोगतः ।। ३४५.
अभिधेयाविनाभूता प्रतीतिर्ल्लक्षणोच्यते । अभिधेयेन सम्बन्धात्सामीप्यात्समवायतः ।। ३४५.
वैपरीत्यात्क्रियायोगाल्लक्षणा पञ्चधा मता । गौणीगुणानामानन्त्यादनन्ता तद्विवक्षया ।। ३४५.
अन्यधर्म्मस्ततोऽन्यत्र लोकसीमानुरोधिना । सम्यगाधीयते यत्र स समाधिरिह स्मृतः ।। ३४५.
श्रुतेरलभ्यमानोऽर्थो यस्माद्भाति सचेतनः । स आक्षएपो ध्वनिः स्याच्च ध्वनिना व्यज्यते यतः ।। ३४५.
शब्देनार्थेन यत्रार्थः कृत्वा स्वयमुपार्जनम् । प्रतिषेध इवेष्टस्य यो विशेषोऽभिधित्सया ।। ३४५.
तमाक्षेपं ब्रुवन्त्यत्र स्तुतं स्तोत्रमिदं पुनः । अधिकारादपेतस्य वस्तुनोऽन्यस्य या स्तुतिः ।। ३४५.
यत्रोक्तं गम्यते नार्थस्तत्समानविशेषणं । सा समासोक्तिरुदिता सङ्क्षेपार्थतया बुधैः ।। ३४५.
अपह्नुतिरपह्नुत्य किञ्चिदन्यार्थसूचनम् । पर्य्यायोक्तं यदन्येन प्रकारेणाभिधीयते ।। ३४५.
एषामेकंतमस्येव समाख्या ध्वनिरित्यतः ।। ३४५.
काव्यगुणविवेकः । अग्निरुवाच । अलंकृतमपि प्रीत्यै न काव्यं निर्गुणं भवेत् । वपुष्य ललिते स्त्रीणां हारो भारयते परं ।। ३४६.
न च वाच्यं गुणो दोषो भाव एव भविष्यति । गुणाः श्लेषादयो दोषा गुढ़ार्थाद्याः पृथक् कृताः ।। ३४६.
यः काव्ये महतीं छायामनुगृह्णात्यसौ गुणः । सम्भवत्येष सामान्यो वैशेषिक इति द्विधा ।। ३४६.
सर्व्वंसाधारणीभूतः सामान्य इति मन्य्ते । शव्दमर्थमुभौ प्राप्तः सामान्यो भवति त्रिधा ।। ३४६.
शब्दमाश्रयते काव्यं शरीरं यः स तद्गुणः । श्लेषो लालित्यगाम्भीर्य्यसौकुमार्य्यमुदारता ।। ३४६.
सत्येव यौगिकी चेति गुणाः शब्दस्य सप्तधा । सुश्लिष्टसन्निवेशत्वं शब्दानां श्लेष उच्यते ।। ३४६.
गुणादेशादिना पूर्व्वं पदसम्बद्धमक्षरं । यत्र सन्धीयते नैव तल्लालित्यमुदाहृतं ।। ३४६.
विशिष्टलक्षणोल्लेखलेख्यमुत्तानशब्दकम् । गाम्भीर्य्यं कथयन्त्यार्य्यास्तदेवान्येषु शब्दतां ।। ३४६.
अनिष्ठुराक्षरप्रायशब्दता सुकुमारता । उत्तानपदतौदार्य्ययुतश्लाघ्यैर्विशेषणैः ।। ३४६.
ओजः समासभूयस्त्वमेतत्पद्यादिजीवितं । आब्रह्म स्तम्भपर्य्यन्तमोजसैकेन पौरुषं ।। ३४६.
उच्यमानस्य शब्देन येन केनापि वस्तुनः । उत्कर्षमावहन्नर्थो गुण इत्यबिधीयते ।। ३४६.
माधुर्य्यं सम्बिधानञ्च कोमलत्वमूदारता । प्रौढ़िः सामयिकत्वञ्च तद्भेदाः षट्चकाशति ।। ३४६.
क्रोधेर्ष्याकारगाम्भीर्य्यान्माधुर्य्यं धैर्य्यगाहिता । सम्बिधानं परिकरः स्यादपेक्षइतसिद्धये ।। ३४६.
यत्काठिन्यादिनिर्मुक्तसन्निवेशविशिष्टता । तिरस्कृत्यैव मृकदुता भाति कोमलतेति सा ।। ३४६.
लक्ष्यते स्थूललक्षत्वप्रवृत्तेर्यत्र लक्षणम् । गुणल्य तदुदारत्वमाशयस्यातिसौष्ठवं ।। ३४६.
अभिप्रेतं प्रति यतो निर्व्वाहस्योपपादिकाः । युक्तयो हेतुगर्भिण्यः प्रौढाप्रौढिरुदाहृता ।। ३४६.
स्वतन्त्रस्यान्यतन्त्रस्य वाह्यान्तः समयोगतः । तत्र व्युत्पत्तिरर्थस्य या सामयिकतेति सा ।। ३४६.
शब्दार्थावुपकुर्व्वाणो नाम्नोभयगुणः स्मृतः । तस्य प्र्सादः सौभाग्यं यथासङ्ख्यं प्रशस्तता ।। ३४६.
काको राग इकति प्राज्ञैः षट् प्रपञ्चविपञ्चिताः । पाको राग इति प्राज्ञैः पाठभेदः सुप्रसिद्धार्थपदता प्रसाद इति गीयते ।। ३४६.
उत्कर्षवान् गुणः कश्चिद्यस्मिन्नुक्तेप्रतीयते । तत्सौभाग्यमुदारत्वं प्रवदन्ति मनीषिणः ।। ३४६.