विपरीतोपमा सा स्याद्व्यावृत्तेर्न्नियमोपमा । अन्यत्राप्यनुवृत्तेस्तु भवेदनियमोपमा ।। ३४४.
समुच्यतेपमातोऽन्यधर्म्मवाहुल्यकीर्त्तनात् । वहोर्धर्म्मस्य साम्येपि वैलक्षण्यं विवक्षितं ।। ३४४.
यदुच्यतेऽतिरिक्तत्वं व्यतिरेकोपमा तु सा । यत्रोपमा स्याद्वहुभिः सदृशैः सा बहूपमा ।। ३४४.
धर्म्माः प्रत्युपमानञ्चेदन्ये मालोपमैव सा। उपमानविकारेण लुलना विक्रियोपमा ।। ३४४.
त्रैलोक्यासम्भवि किमप्यारोप्य प्रतियोगिनि । कविनोपमीयते या प्रथते साद्भुतोपमा ।। ३४४.
प्रतियोगिनमारोष्य तदभेदेन कीर्त्तनम् । उपमेयस्य सा मोहोपमाऽसौ भ्रान्तिमद्वचः ।। ३४४.
उभयोर्धर्म्मिणोस्तथ्यानिश्चयात् संशयोपमा । उपमेयस्य संशय्य निश्चयान्निश्चयोपमा ।। ३४४.
वाक्यार्थेनैव वाक्यार्थोपमा स्यादुपमानतः । आत्मनोपमानादुपमा साधारण्यतिशायिनी ।। ३४४.
उपमेयं यदन्यस्य तदन्यस्योपमा मता । यद्युत्तरोत्तरं याति तदाऽसौ गगनोपमा ।। ३४४.
प्रशंसा चैव निन्दा च कल्पिता सदृशो तथा । किञ्चिच्च सदृशी ज्ञेया उपमा पञ्चधा पुनः ।। ३४४.
उपमानेन यत्तत्त्वमुपमेयस्य रूप्यते । गुणानां समतां दृष्ट्वा रूपकं नाम तद्विदुः ।। ३४४.
उपमैव तिरोभूतभेदा रूपकमेव वा । सहोक्तिः सहभावेन कथनं तुल्यधर्म्मिणां ।। ३४४.
भवेदर्थान्तरन्यासः सादृश्येनोत्तरेण सः । अन्यथोपस्थिता वृत्तिश्चेतन्स्येतरस्य च ।। ३४४.
अन्यथा मन्यते यत्र तामुत्प्रेक्षआं प्रचक्षते । लोकसीमानिवृत्तस्य वस्तुधर्म्मस्य कीर्त्तनम् ।। ३४४.
भवेदतिशयो नाम सम्भवासम्भवाद् द्विधा । गुणजातिक्रियादीनां यत्र वैकल्यदर्शनं ।। ३४४.
विशेषदर्शनायैव सा विशेषोक्तिरुच्यते । प्रसिद्धहेतुव्यावृत्या यत् किञ्चित् कारणआन्तरम् ।। ३४४.
यत्र स्वाभाविकत्वं वा विभाव्यं सा विभावना । सङ्गतीकरणं युक्त्या यदसंगच्छमानयोः ।। ३४४.
विरोधपूर्वकत्वेन तद्विरोध इति स्मृतं । सिसाधयिषितार्थस्य हेतुर्भवति साधकः ।। ३४४.
कारको ज्ञापक इति द्विधा सोऽप्युपजायते । प्रवर्त्तते कारकाख्यः प्राक् पश्चात् कार्य्यजन्मनः ।। ३४४.
पूर्व्वशेष इति ख्यातस्तयोरेव विशेषयोः । कार्य्यकारणभावद्वा स्वभावाद्वा नियामकात् ।। ३४४.
ईपकाख्यस्य भेदोऽस्ति नदीपूरादिदर्शनात् । अविनाभावनियमो ह्यविनाभावदर्शनात् ।। ३४४.
अग्निरुवाच शब्दार्थयोरलङ्कारो द्वावलङ्कुरुते समं । एकत्र निहितो हारः स्तनं ग्रीवामिव त्रियाः ।। ३४५.
प्रशस्तिः कान्तिरौचित्यं संक्षेपो यावदर्थता । अबिव्यक्तिरिति व्यक्तं षड्भेदास्तस्य जाग्रति ।। ३४५.
प्रशस्तिः परवन्मर्म्मद्रवीकरणकर्म्मणः । वाचो युक्तिर्द्विधा सा च प्रेमोक्तिस्तुतिभेदतः ।। ३४५.
प्रेमोक्तिस्तुतिपर्य्यायौ प्रियोक्तिगुणकीर्त्तने । कान्तिः सर्व्वमनोरुच्यवाच्यवाचकसङ्गतिः ।। ३४५.
यथा वस्तु तथा रीतिर्यथा वृत्तिस्तथा रसः । उर्ज्जस्विमृदुसन्दर्भादौचित्यमुपजायते ।। ३४५.
संक्षेणो वाचकैरस्पैर्वहोरर्थस्य संग्रहः । अन्यूनाधिकता शब्दवस्तुनोर्यावदर्थता ।। ३४५.
प्रकटत्वमभिव्यक्तिः श्रुतिराक्षेप इत्यपि । तस्या भेदौ श्रुतिस्तत्र शब्दं स्वार्थसमर्पणम् ।। ३४५.
भवेन्नैमित्तिकी पारिभाषिकी द्विविधैव सा । सङ्केतः परिभाषेति ततः स्यात् पारिभाषिकी ।। ३४५.
मुख्यौपचारिकी चेति सा च सा च द्विधा द्विधा । स्वाभिधेयस्खलद्वृत्तिरमुख्यार्थस्य वाचकः ।। ३४५.