अर्थालङ्काररहिता विधवेव सरस्वती । स्वरूपमथ सादृश्यमुतप्रेक्षातिशयावपि ।। ३४४.
विभावना विरोधश्च हेतुश्च सममष्टधा । स्वभाव एव भावानां स्वरूपमभिधीयते ।। ३४४.
निजमागन्तुकञ्चेति द्विविधं तदुदाहृतम् । सांसिद्धिकं निजं नैमित्तिकमागन्तुकं तथा ।। ३४४.
सादृश्यं धर्म्मसामान्यमुपमा रूपकं तथा । सहोक्त्यर्थान्तरन्यासाविति स्यात्तु चतुर्विधम् ।। ३४४.
उपमा नाम सा यस्यामुपमानोपमेययोः । सत्ता चान्तरसामान्ययोगित्वेपि विवक्षितं ।। ३४४.
किञ्चिदादाय सारूप्यं लोकयात्रा प्रवर्त्तते । समासेनासमासेन सा द्विधा प्रतियोगिनः ।। ३४४.
विग्रहादभिधानश्य ससभासाऽन्यथोत्तरा । उपमाद्योतकपदेनोपमेयपदेन च ।। ३४४.
ताभ्याञ्च विग्रहात् त्रेधा ससमासान्तिमात् त्रिधा । विशिष्यमाणा उपमा भवन्त्यष्टादश स्फुटाः ।। ३४४.
यत्र साधारणो धर्म्मः कथ्यते गम्यतेऽपि वा । ते धर्म्मवस्तुप्राधान्याद्धर्म्मवस्तूपमे उभे ।। ३४४.
तुल्यमेवोपमीयेते यत्रान्योन्येन धर्म्मणौ । परस्परोपमा सा स्यात् प्रसिद्धेरन्यथा तयो ।। ३४४.
विपरीतोपमा सा स्याद्व्यावृत्तेर्न्नियमोपमा । अन्यत्राप्यनुवृत्तेस्तु भवेदनियमोपमा ।। ३४४.
समुच्यतेपमातोऽन्यधर्म्मवाहुल्यकीर्त्तनात् । वहोर्धर्म्मस्य साम्येपि वैलक्षण्यं विवक्षितं ।। ३४४.
यदुच्यतेऽतिरिक्तत्वं व्यतिरेकोपमा तु सा । यत्रोपमा स्याद्वहुभिः सदृशैः सा बहूपमा ।। ३४४.
धर्म्माः प्रत्युपमानञ्चेदन्ये मालोपमैव सा। उपमानविकारेण लुलना विक्रियोपमा ।। ३४४.
त्रैलोक्यासम्भवि किमप्यारोप्य प्रतियोगिनि । कविनोपमीयते या प्रथते साद्भुतोपमा ।। ३४४.
प्रतियोगिनमारोष्य तदभेदेन कीर्त्तनम् । उपमेयस्य सा मोहोपमाऽसौ भ्रान्तिमद्वचः ।। ३४४.
उभयोर्धर्म्मिणोस्तथ्यानिश्चयात् संशयोपमा । उपमेयस्य संशय्य निश्चयान्निश्चयोपमा ।। ३४४.
वाक्यार्थेनैव वाक्यार्थोपमा स्यादुपमानतः । आत्मनोपमानादुपमा साधारण्यतिशायिनी ।। ३४४.
उपमेयं यदन्यस्य तदन्यस्योपमा मता । यद्युत्तरोत्तरं याति तदाऽसौ गगनोपमा ।। ३४४.
प्रशंसा चैव निन्दा च कल्पिता सदृशो तथा । किञ्चिच्च सदृशी ज्ञेया उपमा पञ्चधा पुनः ।। ३४४.
उपमानेन यत्तत्त्वमुपमेयस्य रूप्यते । गुणानां समतां दृष्ट्वा रूपकं नाम तद्विदुः ।। ३४४.
उपमैव तिरोभूतभेदा रूपकमेव वा । सहोक्तिः सहभावेन कथनं तुल्यधर्म्मिणां ।। ३४४.
भवेदर्थान्तरन्यासः सादृश्येनोत्तरेण सः । अन्यथोपस्थिता वृत्तिश्चेतन्स्येतरस्य च ।। ३४४.
अन्यथा मन्यते यत्र तामुत्प्रेक्षआं प्रचक्षते । लोकसीमानिवृत्तस्य वस्तुधर्म्मस्य कीर्त्तनम् ।। ३४४.
भवेदतिशयो नाम सम्भवासम्भवाद् द्विधा । गुणजातिक्रियादीनां यत्र वैकल्यदर्शनं ।। ३४४.
विशेषदर्शनायैव सा विशेषोक्तिरुच्यते । प्रसिद्धहेतुव्यावृत्या यत् किञ्चित् कारणआन्तरम् ।। ३४४.
यत्र स्वाभाविकत्वं वा विभाव्यं सा विभावना । सङ्गतीकरणं युक्त्या यदसंगच्छमानयोः ।। ३४४.
विरोधपूर्वकत्वेन तद्विरोध इति स्मृतं । सिसाधयिषितार्थस्य हेतुर्भवति साधकः ।। ३४४.
कारको ज्ञापक इति द्विधा सोऽप्युपजायते । प्रवर्त्तते कारकाख्यः प्राक् पश्चात् कार्य्यजन्मनः ।। ३४४.
पूर्व्वशेष इति ख्यातस्तयोरेव विशेषयोः । कार्य्यकारणभावद्वा स्वभावाद्वा नियामकात् ।। ३४४.