विश्वग्विषमवर्णानां तावत् पत्राबलीजुषां । मध्ये समाक्षरन्यासः सरोजे षोड़शच्छदे ।। ३४३.
द्विधा चक्रं चतुररं षड़रन्तत्र चादिमं । पूर्व्वार्द्धे सदृशा वर्णाः पादप्रथमपञ्चमा ।। ३४३.
अयुजोऽश्वयुजश्चैव तुर्य्यावप्यष्टमावपि । तस्योपपादप्राक्प्रत्यगरेषु च यथाक्रमं ।। ३४३.
स्यात्पादार्द्धचतुष्कन्तु नाभौ तस्याद्यमक्षरं । पश्चिमारावधि नयेन्नेमौ शेषे पदद्वयी ।। ३४३.
तृतीयं तुर्य्यपादान्ते प्रथमौ सदृशावुभौ । वर्णौ पाढ़त्रयस्यापि दशमः सदृशो यदि ।। ३४३.
प्रथमे चरमे तस्य षड्वर्णाः पश्चिमे यदि । भवन्ति द्व्यन्तरं तर्हि वृहच्चक्रमुदाहृतं ।। ३४३.
सम्मुखाद्वये पादमेकैकं क्रमशो लिखेत् । नाभौ तु वर्णं दशमं नेमौ तुर्य्यपदन्नयेत् ।। ३४३.
श्लोकस्याद्यन्तदशमाः समा आद्यन्तिमौ युजोः । आदौ वर्णः समौ तुर्य्यपञ्चमावाद्यतुर्य्ययोः ।। ३४३.
द्वितायप्रातिलोम्येन तृतीयं जायते यदि । पदं विदध्यात् पत्रस्य दण्डश्चक्राब्जकं कृतेः ।। ३४३.
द्वितीयौ प्राग्दले तुल्यौ सप्तमौ च तथापरौ । सट्टशावुत्तरदलौ द्वितीयाभ्यामथार्द्धयोः ।। ३४३.
द्वितीयषष्ठाः सट्टशाश्चतुर्थपञ्चमावपि । आद्यन्तपादयोस्तुल्यौ परार्द्धसप्तमावपि ।। ३४३.
समौ तुर्य्यं पञ्चमन्तु क्रमेण विनियोजयेत् । तुर्य्यौ योज्यौ तु तद्वच्च दलान्ताः क्रमपादयोः ।। ३४३.
अर्द्धयोरन्तिमाद्यौ तु मुरजे सदृशावुभौ । पादार्द्धपतितो वर्णः प्रातिलोम्यानुलोमतः ।। ३४३.
अन्तिमं परिबध्नीयाद्यावत्तुर्य्यमिहादिमत् । पादात्तुर्य्याद्यदेवाद्यं नवमात् षोड़शादपि ।। ३४३.
अक्षरात् पुटके मध्ये मद्येऽक्षरचतुष्टयम् । कृत्वा कुर्य्याद्यथैतस्य मुरजाकारता भवेत् ।। ३४३.
द्वितीयं चक्रशार्दूलविक्रीडितकसम्पदम् । गोमूत्रिका सर्ववृत्तैरन्ये बन्धास्त्वनुष्टुभा ।। ३४३.
नामधेयं यदि न चेदमीषु कविकाव्ययोः । मित्रधेयाभितुष्यन्ति नामित्रः खिद्यते तथा ।। ३४३.
वाणबाणासनव्योमखड्गमुद्गरशक्तयः । द्विचतुर्थत्रिश्रृङ्गाटा दम्भोलिमुष्लाङ्कुशाः ।। ३४३.
पदं रथस्य नागस्य पुष्करिण्यसिपुत्रिका । एते बन्धास्तथा चान्ये एवं ज्ञेयाः स्वयं बुधैः ।। ३४३.
अग्निरुवाच अलङ्करणमर्थानामर्थालङ्कार इष्यते । तं विना शब्दसौन्दर्य्यमपि नास्ति मनोहरम् ।। ३४४.
अर्थालङ्काररहिता विधवेव सरस्वती । स्वरूपमथ सादृश्यमुतप्रेक्षातिशयावपि ।। ३४४.
विभावना विरोधश्च हेतुश्च सममष्टधा । स्वभाव एव भावानां स्वरूपमभिधीयते ।। ३४४.
निजमागन्तुकञ्चेति द्विविधं तदुदाहृतम् । सांसिद्धिकं निजं नैमित्तिकमागन्तुकं तथा ।। ३४४.
सादृश्यं धर्म्मसामान्यमुपमा रूपकं तथा । सहोक्त्यर्थान्तरन्यासाविति स्यात्तु चतुर्विधम् ।। ३४४.
उपमा नाम सा यस्यामुपमानोपमेययोः । सत्ता चान्तरसामान्ययोगित्वेपि विवक्षितं ।। ३४४.
किञ्चिदादाय सारूप्यं लोकयात्रा प्रवर्त्तते । समासेनासमासेन सा द्विधा प्रतियोगिनः ।। ३४४.
विग्रहादभिधानश्य ससभासाऽन्यथोत्तरा । उपमाद्योतकपदेनोपमेयपदेन च ।। ३४४.
ताभ्याञ्च विग्रहात् त्रेधा ससमासान्तिमात् त्रिधा । विशिष्यमाणा उपमा भवन्त्यष्टादश स्फुटाः ।। ३४४.
यत्र साधारणो धर्म्मः कथ्यते गम्यतेऽपि वा । ते धर्म्मवस्तुप्राधान्याद्धर्म्मवस्तूपमे उभे ।। ३४४.
तुल्यमेवोपमीयेते यत्रान्योन्येन धर्म्मणौ । परस्परोपमा सा स्यात् प्रसिद्धेरन्यथा तयो ।। ३४४.