नारद उवाच मध्ये पद्मे यदेद्ब्रह्म साङ्गं पूर्वेब्जनाभकम्। आग्नेयेब्जे च प्रकृतिं याम्येब्जे पुरुषं यजेत्
पुरुषाद्दशिणे वह्निं नैर्ऋते वारुणेनिलम्। आदित्यमैन्दवे पद्मे ऋग्यजुश्चैशपद्मके
इन्द्रादींश्च द्वितीयायां पद्मे षोडशके तथा। सामाथर्वाणमाकाशं वायु तेजस्तता जलम्
पृथिवीञ्च मनश्चैव श्रोत्रं त्वक् चक्षुरर्च्चयेत्। रसनाञ्च तथा घ्राणं भूर्भुवश्चैव षोडशम्
महर्जनस्तपः सत्यं तथाग्निष्टोममेव च। अत्यग्निष्टोमकं चौक्थं षोडशीं वाजपेयकम्
अतिरात्रञ्च सम्पूज्य तथाप्तोर्याममर्च्चयेत्। मनो बुद्धिमहङ्कारं शब्दं स्पर्शञ्च रूपकम्
रसं गन्धञ्च पद्मे षु चतुर्विंशतिषु क्रमात्। जीवं मनोधिपञ्चाहं प्रकृतिं शब्दमात्रकम्
वासुदेवादिमूर्त्तिंश्च तथा चैव दशात्मकम्। मनः श्रोत्रं त्वचं प्रार्च्च्य चक्षुश्च रसनं तथा
घ्राणं वाक्पाणिपादञ्च द्वात्रिंशद्वारिजेष्विमान्। चतुर्थावरणे पूज्याः साङ्गाः सपरिवारकाः
पायूपस्थौ च सम्पूज्य मासानां द्वादशाधिपान्। पुरुषोत्तमादिषड्विशानं बाह्यावरणकेयजेत्
चक्राब्जे तेषु सम्पूज्या मासानां पतयः क्रमात्। अष्टौ प्रकृतयः षड् वा पञ्चाथ चतुरोऽपरे
रजः पातं ततः कुर्य्याल्लिखिते मण्डले श्रृणु। कर्णिका पीतवर्णा स्याद्रेशाः सर्वाः सिताः समाः
द्विहस्तेऽङ्गुष्ठमात्राः स्युर्हस्ते चार्द्धसमाः सिताः। पद्मं शुक्लेनसन्धींस्तु कृष्णेन श्यामतोथवा
केशरा रक्तपीताः स्युः कोणान् रक्तेन पूरयेत्। भूषयेद्योगपीठन्तु यथेष्टं सार्ववर्णिकैः
लतावितानपत्राद्यैर्वींथिकामुपशोभयेत। पीठद्वारे तु शुक्लेन शोभारक्तेन पीततः
उपसोभाञ्च नीलेन कोणशंशाँस्च वै सितान्। भद्रके पूरणं प्रोक्तमेवमन्येषु पूरणम्
अरकान् पीतरक्ताभिः श्यामान् नेमिन्तुरक्ततः। सितश्यामारुणाः सृष्णाः पीता रेखास्तु बाह्यतः
शालिपिष्टादि शुक्लं स्याद्रक्तं कौसुम्भकादिकम्। हरिद्रया च हारिद्रं कृष्णं स्याद्दग्धधान्यतः
शमीपत्रादिकैः श्यामं वीजानां लक्षजाप्यतः। चतुर्लक्षैम्तु मन्त्राणां विद्यानां लक्षसाधनम्
अयुतं बुद्धविद्यानां स्तोत्राणाञ्च सहस्त्कम्। पूर्ब्वमेवाथ लक्षेण मन्त्रसुद्धिस्तथात्मनः
तथापरेण लक्षेण मन्त्रः क्षेत्रीकृतो भवेत्। कूर्वमेवासमो होमो वीजानां सम्प्रकीर्तितः
पूर्वसेवा दशांशेन मन्त्रादीनां प्रकीर्त्तिता। पुरश्चर्य्ये तु भन्त्रे तु मासिकं व्रतमाचरेत्
भुवि न्यसेद्वामपादं न गृह्णीयात् प्रतिग्रहम्। एवं द्वित्रिगुणेनैव मध्यमोत्तमसिद्धयः
मन्त्रध्यानं प्रवक्ष्यामि येन स्यान्मन्त्रजं फलम्। स्थूलं शब्दमयं रूपं विग्रहं बाह्यमिष्यते
सूक्ष्मं ज्योतिर्म्मयं रूपं हार्द्दं चिन्तामयं भवेत्। चिन्तया रहितं यत्तु तत् परं परिकीर्त्तितम्
इतरेषां स्मृतं रूपं हार्द्दं चिन्तामयं सदा। स्थूलं वैराजमाख्यातं सूक्ष्मं वै लिङ्गितं भवेत्
चिन्तया रहितं रूपमैश्वरं परिकीर्त्तितम्। हृत्पुण्डरीकनिलयञ्चैतन्यं ज्योतिरव्ययम्
वीजं वीजात्कमं ध्यायेत् कदम्बकुसुमाकृतिम्। कुम्भान्तरगतो दीपो निरुद्धप्रसवो यथा
संहतः केवलस्तिष्ठेदेवं मन्त्रेश्वरो हृदि। अनेकशुषिरे कुम्भे तावन्मात्रा गभस्तयः
प्रसरन्ति वहिस्तद्वन्नाडीभिर्वीजरश्मयः। अथावभासतो दैवीमात्मीकृत्य तनुं स्थिताः