तदङ्गविहिताकाङ्क्षस्तद्गुप्तं गूढ़मप्यदः । यत्रार्थान्तरनिर्बासो वाक्याङ्गच्यवनादिभिः ।। ३४३.
तदङ्गविहिताकाङ्क्षस्तच्चुतं स्याच्चतुर्विधम् । स्वरव्यञ्जनविन्दूनां विसर्गस्य च विच्युतेः ।। ३४३.
दत्तेपि यत्र वाक्याङ्गे द्वितीयोर्थः प्रतीयते । तद्द्न्तदाहुस्तद्भेदाः स्वराद्यैः पूर्व्ववन्मताः ।। ३४३.
अपनीताक्षरस्थाने न्यस्ते वर्णान्तरेऽपि च । भासतेऽर्थान्तरं यत्र च्युतदत्तं तदुच्यते ।। ३४३.
सुश्लिष्टपद्यमेकं यन्नानाश्लोकांशनिर्म्मितम् । सा ममस्या परस्यात्मपरयोः कृतिसङ्करात् ।। ३४३.
दुःखेन कृतमत्यर्थं कविसामर्थ्यसूचकम् । दुष्करं नीरसत्वेपि विदग्धानां महोत्सवः ।। ३४३.
नियमाच्च विदर्बाच्च बन्धाच्च भवति त्रिधा । कवेः प्रतिज्ञा निर्म्माणरम्यस्य नियमः समृतः ।। ३४३.
प्रातिलोम्यानुलोम्यञ्च शब्देनार्थेन जायते । अनेकधावृत्तवर्णविन्यासैः शिल्पकल्पना ।। ३४३.
प्रातिलोम्यानुलोम्यञ्च शब्देनार्थेन जायते । अनेकधावृत्तवर्णविन्यासैः शिल्पकल्पना ।। ३४३.
तत्तत्प्रसिद्धवस्तूनां बन्ध इत्यभिधीयते । गोमूत्रिकार्द्धभ्रमणे सर्व्वतोभद्रमम्बुजम् ।। ३४३.
चक्रञ्चक्राब्जकं दण्डो मुरजाश्चेति चाष्टधा । प्रत्यर्धं प्रतिपादं स्यादेकान्तरसमाक्षरा ।। ३४३.
द्विधा गोमूत्रिकां पूर्व्वामाहुरश्वपदां परे । अन्त्याङ्गोमूत्रिकां धेनुं जालबन्धं वदन्ति हि ।। ३४३.
अर्द्धाभ्यामर्धपादैश्च कुर्य्याद्विन्यासमेतयोः । न्यस्तानामिह वर्णानामधोधः क्रमभागिनां ।। ३४३.
अधोधः स्थितवर्णानां यावत्तूर्य्यपदन्नयेत् । तुर्य्यपादान्नयेदूद्र्ध्वं पादार्द्धं प्रातिलोम्यतः ।। ३४३.
तदेव सर्व्वतोभद्रं त्रिविधं सरसीरुहं । चतुष्पत्रं ततो विघ्नं चतुष्पत्रे उभे अपि ।। ३४३.
अथ प्रथमपादस्य मूर्द्धन्यस्त्रिपदाक्षरं । सर्व्वेषामेव पादानामन्ते तदुपजायते ।। ३४३.
प्राक्पदस्यान्तिमं प्रत्यक् पादादौ प्रातिलोम्यतः । अन्त्यपादान्तिमञ्चाद्यपादादावक्षरद्वयं ।। ३४३.
चतुश्छदे भवेदष्टच्छदे वर्णत्रयं पुनः । स्यात् षोड़शच्छदे त्वेकान्तरञ्चेदेकमक्षरं ।। ३४३.
कर्णिकां तोलयेदूद्र्ध्वं पत्राकाराक्षरावलिं । प्रवेशयेत् कर्णिकायाञ्चतुष्पत्रसरोरुहे ।। ३४३.
कर्णिकायां लिखेदेकं द्वे द्वे दिक्षु विदिक्षु च । प्रवेशनिर्गमौ दिक्षु कुर्य्यादष्टच्छदेऽम्बुजे ।। ३४३.
विश्वग्विषमवर्णानां तावत् पत्राबलीजुषां । मध्ये समाक्षरन्यासः सरोजे षोड़शच्छदे ।। ३४३.
द्विधा चक्रं चतुररं षड़रन्तत्र चादिमं । पूर्व्वार्द्धे सदृशा वर्णाः पादप्रथमपञ्चमा ।। ३४३.
अयुजोऽश्वयुजश्चैव तुर्य्यावप्यष्टमावपि । तस्योपपादप्राक्प्रत्यगरेषु च यथाक्रमं ।। ३४३.
स्यात्पादार्द्धचतुष्कन्तु नाभौ तस्याद्यमक्षरं । पश्चिमारावधि नयेन्नेमौ शेषे पदद्वयी ।। ३४३.
तृतीयं तुर्य्यपादान्ते प्रथमौ सदृशावुभौ । वर्णौ पाढ़त्रयस्यापि दशमः सदृशो यदि ।। ३४३.
प्रथमे चरमे तस्य षड्वर्णाः पश्चिमे यदि । भवन्ति द्व्यन्तरं तर्हि वृहच्चक्रमुदाहृतं ।। ३४३.
सम्मुखाद्वये पादमेकैकं क्रमशो लिखेत् । नाभौ तु वर्णं दशमं नेमौ तुर्य्यपदन्नयेत् ।। ३४३.
श्लोकस्याद्यन्तदशमाः समा आद्यन्तिमौ युजोः । आदौ वर्णः समौ तुर्य्यपञ्चमावाद्यतुर्य्ययोः ।। ३४३.
द्वितायप्रातिलोम्येन तृतीयं जायते यदि । पदं विदध्यात् पत्रस्य दण्डश्चक्राब्जकं कृतेः ।। ३४३.
द्वितीयौ प्राग्दले तुल्यौ सप्तमौ च तथापरौ । सट्टशावुत्तरदलौ द्वितीयाभ्यामथार्द्धयोः ।। ३४३.