भद्रायां परिशिष्टाः स्युः परुषा साऽभिधीयते । भवन्ति यस्यामूष्माणः संयुक्तास्तत्तदक्षरैः ।। ३४३.
अकारवर्ज्जमावृत्तिः स्वराणामतिभूयसी । अनुस्वारविशर्गौ च पारुष्याय निरन्तरौ ।। ३४३.
शषसा रेफसंयुक्ताश्चाकारश्चापि भूयसा । अन्तस्थाभिन्नमाभ्याञ्च हः पारुष्याय संयुतः ।। ३४३.
अन्यथापि गुरुर्वर्णः संयुक्ते परिपन्थिनि । पारुष्यायादिमांस्तत्र पूजिता न तु पञ्चमी ।। ३४३.
द्रावणि माधवी पञ्चवर्णान्तस्थोष्मभिः क्रमात् । अनेकवर्णावृत्तिर्या भिन्नार्थप्रतिपादिका ।। ३४३.
यमकं साव्यपेतञ्च व्यपेतञ्चेति तद्द्विधा । आनन्तर्यादव्यपेतं व्यपेतं व्यवधानतः ।। ३४३.
द्वैविध्येनानयोः स्थानपादभेदाच्चतुर्विधम् । आदिपादादिमध्यान्तेष्वेकद्वित्रिनियोगतः ।। ३४३.
सप्तधा सप्तपूर्वेण५ चेत् पादेनोत्तरोत्तरः । एकद्वित्रिपदारम्भस्तुल्यः षोढा तदापरं ।। ३४३.
तृतीयं त्रिविधं पादस्यादिमध्यान्तगोचरम् । पादान्तयमकञ्चैव काञ्चीयमकमेव च ।। ३४३.
संसर्गयमकञ्चैव विक्रान्तयमकन्तथा । पादादियमकञ्चैव तथाम्रेडितमेव च ।। ३४३.
चतुर्व्यवसितञ्चैव मालायमकमेव च । दशधा यमकं श्रेष्ठं तद्भेदा बहवोऽपरे ।। ३४३.
स्वतन्त्रस्यान्यतन्त्रस्य पदस्यावर्त्तना द्विधा । भिन्नप्रयोजनपदस्यावृत्तिं त्वेकत्र विग्राहात् ।। ३४३.
द्वयोरावृत्तपदयोः समस्ता स्यात्समासतः । असमासात्तयोर्व्यस्ता पादे त्वेकत्र विग्रहात् ।। ३४३.
वाक्यस्यावृत्तिरप्येवं यथासम्भवमिष्यते । अलङ्काराद्यनुप्रासो लघुमध्येवमर्हणात् ।। ३४३.
यया कयाचिद्वृत्या यत् समानमनुभूयते । तद्रूपादिपदासत्तिः सानुप्रासा रसावहा ।। ३४३.
गोष्ठ्यां कुतूहलाध्यायी वाग्बन्धश्चित्रमुच्यते । प्रश्नः प्रहेलिका गुप्तं च्युतदक्ते तथोभयम् ।। ३४३.
समस्या सप्त तद्भेदा नानार्थस्यानुयोगतः । यत्र प्रदीयते तुल्यवर्णविन्यासमुत्तरं ।। ३४३.
स प्रश्नः स्यादेकपृष्टद्वपृष्टोत्तरभेदतः । द्विधैकपृष्टो द्विविधः समस्तो व्यस्त एव च ।। ३४३.
द्वयोरप्यर्थयोर्गुह्यमानशब्दा प्रहेलिका । सा द्विधार्थी च शाब्दी च तत्रार्थी चार्थबोधतः ।। ३४३.
शब्दावबोधतः शाब्दी प्राहुः षोढा प्रहेलिकां । यस्मिन् गुप्तेऽपि वलाक्याङ्गे बाव्यर्थोऽपारमार्थिकः ।। ३४३.
तदङ्गविहिताकाङ्क्षस्तद्गुप्तं गूढ़मप्यदः । यत्रार्थान्तरनिर्बासो वाक्याङ्गच्यवनादिभिः ।। ३४३.
तदङ्गविहिताकाङ्क्षस्तच्चुतं स्याच्चतुर्विधम् । स्वरव्यञ्जनविन्दूनां विसर्गस्य च विच्युतेः ।। ३४३.
दत्तेपि यत्र वाक्याङ्गे द्वितीयोर्थः प्रतीयते । तद्द्न्तदाहुस्तद्भेदाः स्वराद्यैः पूर्व्ववन्मताः ।। ३४३.
अपनीताक्षरस्थाने न्यस्ते वर्णान्तरेऽपि च । भासतेऽर्थान्तरं यत्र च्युतदत्तं तदुच्यते ।। ३४३.
सुश्लिष्टपद्यमेकं यन्नानाश्लोकांशनिर्म्मितम् । सा ममस्या परस्यात्मपरयोः कृतिसङ्करात् ।। ३४३.
दुःखेन कृतमत्यर्थं कविसामर्थ्यसूचकम् । दुष्करं नीरसत्वेपि विदग्धानां महोत्सवः ।। ३४३.
नियमाच्च विदर्बाच्च बन्धाच्च भवति त्रिधा । कवेः प्रतिज्ञा निर्म्माणरम्यस्य नियमः समृतः ।। ३४३.
प्रातिलोम्यानुलोम्यञ्च शब्देनार्थेन जायते । अनेकधावृत्तवर्णविन्यासैः शिल्पकल्पना ।। ३४३.
प्रातिलोम्यानुलोम्यञ्च शब्देनार्थेन जायते । अनेकधावृत्तवर्णविन्यासैः शिल्पकल्पना ।। ३४३.
तत्तत्प्रसिद्धवस्तूनां बन्ध इत्यभिधीयते । गोमूत्रिकार्द्धभ्रमणे सर्व्वतोभद्रमम्बुजम् ।। ३४३.