धर्म्मार्थकाममोक्षैश्च श्रृङ्गार उपचीयते । आलम्वनविशेषैश्च तद्विशेषैर्न्निरन्तरः ।। ३४२.
श्रृङ्गारं द्विविधं विद्याद्वाङ्नेपथ्यक्रियात्मकम् । हासश्चतुर्व्विधोऽलक्षयदन्तः स्मित इतीरितः ।। ३४२.
किञ्चिल्लक्षितदन्ताग्रं हसितं फुल्ललोचनम् । विहसितं सस्वनं स्याज्जिह्मोपहसितन्तु तत् ।। ३४२.
सशब्दं पापहसितमशब्दमतिहासितं । यश्चासौ करुणो नाम स रसस्त्रिविधो भवेत् ।। ३४२.
धर्म्मोपघातजश्चित्तविलासजनितस्तथा । शोकः शोकाद्भवेत् स्थायीकः क्रोधः स्वेदो रोमाञ्चवेपथुः ।। ३४२.
अङ्कनेपथ्यवाक्यैश्च रौद्रोऽपि त्रिविधो रसः । तस्य निर्वर्त्तकः क्रोधः स्वेदो रोमाञ्चवेपथुः ।। ३४२.
दानवीरो धर्मवीरो युद्धवीर इति त्रयम् । वीरस्तस्य च निष्पत्तिहेतुरुत्साह इष्यते ।। ३४२.
आरम्भेषु भवेद्यत्र वीरमेवानुवर्त्तते । भयानको नाम रसस्तस्य निर्वर्तकं भयं ।। ३४२.
उद्वेजनः क्षोभणश्य वीभत्सो द्विविधः स्मृतः । उद्वेजनः स्यात् प्लुत्याद्यैः क्षोभणो रुधिरादिभिः ।। ३४२.
जुगुप्सारम्भिका तस्य सात्त्विकांशो निवर्त्तते । काव्यशोभाकरान् धर्म्मानलङ्कारान् प्रचक्ष्यते ।। ३४२.
अलङ्करिष्णवस्ते च शब्दमर्थमुभौ त्रिधा । ये व्युत्पत्त्यादिना शब्दमलङ्कर्त्तुमिह क्षमाः ।। ३४२.
शब्दालङ्कारमाहुस्तान् काव्यमीमांसका विदः । छाया मुद्रा तथोक्तिश्च युक्तिर्गुम्फनया सह ।। ३४२.
वाकोवाक्यमनुप्रासश्चित्रं दुष्करमेव च । क्षेया नवालङ्कृतयः शब्दानामित्यसङ्करात् ।। ३४२.
तत्रान्योक्तेरनुकृतिश्छाया सापि चतुर्व्विधा । लोकच्छेकार्भकोक्तीनामेकोक्तेरनुकारतः ।। ३४२.
आभाणकोक्तिर्लोकोक्तिः सर्व्वसामान्य एव ताः । यानुधावति लोकोक्तिश्छायामिच्छन्ति तां बुधाः ।। ३४२.
छेका विदग्धा वैदग्धयं कलासु कुशला मतिः । तामुल्लिखन्ती छेकोक्तिश्छाया कविभिरिष्यते ।। ३४२.
अव्युत्पन्नोक्तिरखिलैरर्भकोक्त्योपलक्ष्यते । तेनार्भकोक्तिश्छाया तन्मात्रोक्तिमनुकुर्व्यती ।। ३४२.
विप्लुताक्षरमश्लीलं वचो मत्तस्य तादृशी । या सा भवति मत्तोक्तिश्छायोक्ताप्यतिशोभते ।। ३४२.
अभिप्रायविशेषेण कविशक्तिं विवृण्वती । मुत्प्रदायिनीति सा मुद्रा सैव शय्यापि नो मते ।। ३४२.
उक्तिः सा कथ्यते यस्वामर्थकोऽप्युपपत्तिमान् । लोकयात्रार्थविधिना धिनोति हृदयं सतां ।। ३४२.
उभौ विधिनिषेधौ च नियमानियमावपि । पिकल्पपरिसङ्ख्ये च तदीयाः पड़थोक्तयः ।। ३४२.
अयुक्तयोरिव मिथो वाच्यवाचकयोर्द्वयोः । योजनायै कल्प्यमाना युक्तिरुत्ता मनीषिभिः ।। ३४२.
पदञ्चैव पदार्थश्च वाक्यार्थमेव च । विष्योऽस्याः प्रकारणं प्रपञ्चश्चेति षड्विधः ।। ३४२.
गुम्फना रचनाचर्य्या शब्दार्थक्रमगोचरा । शब्दानुकारादर्थानुपूर्व्वार्थेयं क्रमात्त्रिधा ।। ३४२.
उक्तिपत्युक्तिमद्वाक्यं वाकोवाक्यं द्विधैव तत् । ऋजुवक्रोक्तिभेदेन तत्राद्यं सहजं वचः ।। ३४२.
अग्निरुवाच स्यादावृत्तिरनुप्रासो वर्णानां पदवाक्ययोः । एकवर्णाऽनेकवर्णावृत्तेर्व्वर्णगुणो द्विधा ।। ३४३.
एकवर्णगतावृत्तेर्ज्जायन्ते पञ्च वृत्तयः । मधुरा ललिता प्रौढा भद्रा परुषया सह ।। ३४३.
मधुरायाश्च वर्गान्तादधो वर्ग्या रणौ स्वनौ। ह्रस्वस्वरेणान्तरितौ संयुक्तत्वं नकारयोः ।। ३४३.
न कार्य्या वर्ण्यवर्णानामावृत्तिः पञ्चमाधिका । म्हाप्राणोष्मसंयोगप्रविमुक्तलघूत्तरौ ।। ३४३.
ललिता बलभूयिष्ठा प्रौढा या पणवर्गजा । ऊद्र्ध्वं रेफेण युज्यन्ते नटवर्गोनपञ्चमाः ।। ३४३.