व्याहारस्रिमतञ्चैव छलावस्कन्दिते तथा । गण्डोऽथ मृदवश्चैव त्रयोदशमथाचितम् ।। ३४०.
तापसादेः प्रहसनं परिहासपरं वचः । मायेन्द्रजालयुद्धादिबहुलारभटी स्मृता ।। ३४०.
सङ्क्षिप्तकारपातौ च वस्तूत्थापनमेव च ।। ३४०.
अग्निरुवाच चेष्टाविशेषमप्यङ्गप्रत्यङ्गे कर्म्म चानयोः । शरीरारम्भमिच्छन्ति प्रायः पूर्व्वोऽवलाश्रयः ।। ३४१.
लीला विलासो विच्छित्तिर्विभ्रमं किलकिञ्चितं । मोट्टायितं कुट्टमितं विव्वोको ललितन्तथा ।। ३४१.
विकृतं क्रीड़ितं केलिरिति द्वादशधैव सः । लीलेष्टजनचेष्टानुकरणं संवृतक्षये ।। ३४१.
विशेषान् दर्शयन् किञ्चिद्विलासः सद्भिरिष्यते । हसितक्रन्दितादीनां सङ्करः किलकिञ्चितं ।। ३४१.
विकारः कोपि विव्वोको ललितं सौकुमार्य्यतः । शिरः पाणिरुपः पार्श्वङ्गटिरङ्घ्रिरिति क्रमात् ।। ३४१.
अङ्गनि भ्रूलतादीनि प्रत्यङ्गान्यभिजानते । अड्गप्रत्यङ्गयोः कर्म्म प्रयलजनितं विना ।। ३४१.
न प्रयोगः क्कचिन्मुख्यन्तिरश्चीनञ्च तत् क्कचिच् । आकम्पितं कम्पितञ्च१ धूतं विधूतमेव च ।। ३४१.
परिवाहिनमाधूतमवधूतमथाचितं । निकुञ्चितं परवृत्तमुत्क्षिप्तञ्चाप्यधोगतम् ।। ३४१.
ललितञ्चेति विज्ञेयं त्रयोदशविधं शिरः । भ्रूकर्म्म सप्तधा ज्ञेयं पातनं भ्रूकुटीमुखं ।। ३४१.
दृष्टिस्त्रिधा रसस्थायिसञ्चारिप्रतिबन्धना । षट्त्रिंशद्भेदविधुरा रसजा तत्र चाष्टधा ।। ३४१.
नवधा तारकाकर्म्म भ्रमणञ्चलनादिकं । षोढ़ा च नासिका ज्ञेया निश्वासो नवदा मतः ।। ३४१.
षोढौष्ठकर्म्मकं पापं सप्तधा चिवुकक्रिया । कलुषादिमुखं षोढ़ा ग्रीवा नवविधा स्मृता ।। ३४१.
असंयुतः संयुतश्च भूम्ना हस्तः प्रमुच्यते । पताकस्त्रिपताकश्च तथा वै कर्त्तरीमुखः ।। ३४१.
अर्द्धचन्द्रोत्करालश्च शुक्तुण्डस्तथैव च । मुष्टिश्च शिखरश्चैव कपित्थः खेटकामुखः ।। ३४१.
सूच्यास्यः पद्मकोषो हि शिराः समृगशीर्षकाः । कांमूलकालपद्मौ च चतुरभ्रमरौ तथा ।। ३४१.
हंसास्यहंसपक्षौ च सन्दंशमुकुलौ तथा । उर्णनाभस्तात्रचूडश्चतुर्विंशतिरित्यमी ।। ३४१.
असंयुतकराः प्रोक्ताः संयुतास्तु त्रयोदश । अञ्जलिश्च कपोतश्च कर्कटः स्वस्तिकस्तथा ।। ३४१.
कटको वर्द्धमानश्चाप्यसङ्गो निषधस्तथा । दोलः पुष्पपुटश्चैव तथा मकर एव च ।। ३४१.
गजदन्तो वहिस्तम्भो वर्द्धमानोऽपरे कराः । उरः पञ्चविधं स्यात्तु आभुग्ननर्त्तनादिकम् ।। ३४१.
उदरन्दुरतिक्षामं खण्डं पूर्णमिति त्रिधा । पार्श्वयोः पञ्चकर्म्माणि जङ्घाकर्म च पञ्चवा ।। ३४१.
अग्निरुवाच आभिमुख्यन्नयन्नर्थान्विज्ञेयोऽभिनयो बुधैः । चतुर्द्धा सम्भवः सत्त्वावागङ्गाहरणाश्रयः ।। ३४२.
स्तम्भादिः सात्त्विको वागारम्भो वाचिक आङ्गिकः । शरीरारम्भ आहार्य्यो बुद्ध्यारम्भप्रवृत्तयः ।। ३४२.
रसादिविनियोगोऽथ कथ्यते ह्यभिमानतः । तमन्तरेण सर्व्वेषामपार्थैव स्वतन्त्रता ।। ३४२.
सम्भोगो विप्रलम्भश्च श्रृङ्गारः स चतुर्विधः । पूर्व्वानुरागमानाख्यः प्रवासकरुणात्मकः ।। ३४२.
विप्रलम्भाभिदानो यः श्रृङ्गार उपचीयते । आलम्वनविशेषैश्च तद्विशेषैर्न्निरन्तरः ।। ३४२.
एतेभ्योऽन्यतरं जायमानसम्भोगलक्षणम् । विवर्त्तते चतुर्द्धैव न च प्रागतिवर्त्तते ।। ३४२.
स्त्रीपुंसयोस्तदुदयस्तस्य निर्विर्त्तिकारतिः । निखिलाः सात्त्विकास्तत्र वैवर्ण्यप्रलयौ विना ।। ३४२.