रोषतो गुरुवाग्दण्डपारुष्यं विदुरुग्रतां । ऊहो वितर्कः स्याद्व्याधिर्मनोवपुरवग्रहः ।। ३३९.
अनिबद्धप्रलापादिरुन्मादो मदनादिभिः । तत्वज्ञानादिना चेतःकषायोपरमः शमः ।। ३३९.
कविभिर्योजनीया वै भावाः काव्यादिके रसाः । विभाव्यते हि रत्यादिर्यत्र येन विभाव्यते ।। ३३९.
विभावो नाम स द्वेधालम्बनोद्दीपनात्मकः । रत्यादिभाववर्गोऽयं यमाजीव्योपजायते ।। ३३९.
आलम्बनविभावोऽसौ नायकादिभवस्तथा । धीरोदात्तो धीरोद्धतः स्याद्धीरललितस्तथा ।। ३३९.
धीरप्रशान्त इत्येवं चतुर्द्धा नायकः स्मृतः । अनुकूलो दक्षइणश्च शठो धृष्टः प्रवर्त्तितः ।। ३३९.
पीठमर्द्दो विटश्चैव विदूषक इति त्रयः । श्रृड्गारे नर्म्मसचिवा नायकस्यानुनायका ।। ३३९.
पीठमर्द्दः सम्बलकः श्रीमांस्तद्वेशजो विटः । विदूषको वैहसिकस्त्वष्टनायकनायिकाः ।। ३३९.
स्वकीया परकीया च पुनर्भूरिति कौशिकाः । सामान्या न पुनर्भूरिरित्याद्या बहुभेदतः ।। ३३९.
उद्दीपनविभावास्ते संस्कारैर्विविधैः स्थितैः । आलम्बनविभावेषु भावानुद्दीपयन्ति ये ।। ३३९.
चतुःषष्टिकला द्वेधा कर्म्माद्यैर्गीतिकादिभिः । कुहकं स्मृतिरप्येषां प्रायो हासोपहारकः ।। ३३९.
आलम्बनविभावस्य भावैरुद्वुद्धसंस्कृतैः । मनोवाग्बुद्धिवपुषां स्मृतीच्छाद्वेषयत्नत ।। ३३९.
आरम्भ एव विदुषामनुभाव इति स्मृतः । स चानुभूयते चात्र भवत्युत निरुच्यते ।। ३३९.
मनोव्यापारभूयिष्ठो मन आरम्भ उच्यते । द्विविधः पौरुषस्त्रैण ईट्टशोऽपि प्रसिध्यति ।। ३३९.
शोभा विलासो माधुर्य्यं स्थैर्य्यं गाम्भीर्य्यमेव च । ललितञ्च तथौदार्य्यन्तेजोऽष्टाविति पौरुषाः ।। ३३९.
नीचनिन्दोत्तमस्पर्द्धा शौर्य्यं दाक्षादिकारणं । मनोधर्म्मे भवेच्छोभा शोभते भवनं यथा ।। ३३९.
भावो हावश्च हेला च शोभा कान्तिस्तथैव च । दीप्तिर्म्माधुर्य्यशौर्य्ये च प्रागलूभ्यं स्यादुदारता ।। ३३९.
स्थैर्य्यं गम्भीरता स्त्रीणां विभावा द्वादशेरिताः । भावो विलासो हावः स्याद्भावः किञ्चिच्च हर्षजः ।। ३३९.
विलापो दुःखवचनमनुलापोऽसकृद्वचः । संलाप उक्तप्रत्युक्तमपलापोऽन्यथावचः ।। ३३९.
वार्त्ताप्रयाणं सन्देशो निर्देशः प्रतिपादनम् । तत्त्वदेशोऽतिदेशोऽयमपदेशोऽन्यवर्णनम् ।। ३३९.
उपदेशश्च शिक्षावाक् व्याजोक्तिर्व्यपदेशकः । वोधाय एष व्यापारः सुबुद्ध्यारम्भ इष्यते ।। ३३९.
तस्य भेदास्त्रयस्ते च रीतिवृत्तिप्रवृत्तयः ।। ३३९.
अग्निरुवाच वाग्विद्यासम्प्रतिज्ञने रीतिः सापि चतुर्विधा । पाञ्चली गौड़देशीया वैदर्भी लाटजा तथा ।। ३४०.
उपचारयुता मृद्वी पाञ्चाली ह्रस्वविग्रहा । अनवस्थितसन्दर्भा गौडीया दीर्घविग्रहा ।। ३४०.
उपचारैर्न्न बहुभिरुपचारैर्विवर्ज्जिता । नातिकोमलसन्दर्भा वैदर्भी मुक्तविंग्रहा ।। ३४०.
लाजीया स्फुजसन्दर्भा नातिविस्फुरविग्राहा । परित्यक्तापि भूयोभिरुपचारैरुदाहृता ।। ३४०.
क्रियास्वविषमा वृत्तिर्भारत्यारभटी तथा । कौशिकी सात्वती चैति सा चतुर्द्धा प्रतिष्ठिता ।। ३४०.
वाक्प्रधाना नरप्राया स्त्रीयुक्ता प्राकृतोक्तिता । भरतेन प्रणीतत्वात् भारती रीतिरुच्यते ।। ३४०.
चत्वार्य्यङ्गानि भारत्या वीथी प्रहसनन्तथा । प्रस्तावना नाटकादेर्व्वीथ्यङ्गाश्च त्रयोदश ।। ३४०.
उद्घातकं तथैव स्याल्लपितं स्याद्द्वितीयकम् । असत्प्रलापो वाक्श्रेणी नांनिका विपणन्तथा ।। ३४०.