आद्यस्तस्य विकारो यः सोऽहङ्कार इति स्मृतः । ततोऽभिमानस्तत्रेदं समाप्तं भुवनत्रयं ।। ३३९.
अभिमानाद्रतिः सा च परिपोषमुपेयुषी । व्यभिचार्य्यादिसामान्यात् श्रृङ्गार इति गीयते ।। ३३९.
तद्भेदाः काममितरे हास्याद्या अप्यनेकशः । स्वस्वस्थादिविशेषोत्थपरिघोषस्वलक्षणाः ।। ३३९.
सत्त्वादिगुणसन्तानाज्जायन्ते परमात्मनः । रागाद्बवति श्रृङ्गारो रौद्रस्तैक्षणात् प्रजायते ।। ३३९.
वीरोऽवष्टम्भजः सङ्कोचभूर्व्वीभत्स इष्यते । श्रृङ्गारहास्यकरुणा रौद्रवीरभयानकाः ।। ३३९.
वीराच्चाद्भुतनिष्पत्तिः स्याद्वीभत्साद्भयानकः । श्रृङ्गारहास्यकरुणा रौद्रवीरभयानकाः ।। ३३९.
वीभत्साद्भुतशान्ताख्याः स्वभावाच्चतुरो रसाः । लक्ष्मीरिव विना त्यागान्न वाणी भाति नीरसा ।। ३३९.
अपारे काव्यसंसारे कविरेव प्रजापतिः । यथा वै रोचते विश्वं तथेवं परिवर्त्तते ।। ३३९.
अपारे काव्यसंसारे कविरेव प्रजापतिः । यथा वै रोचते विश्वं तथेदं परिवर्त्तते ।। ३३९.
न भावहीनोऽस्ति रसो न भावो रसवर्ज्जितः । भावयन्ति रसानेभिर्भाव्यन्ते च रसा इति ।। ३३९.
स्थायितनोऽष्टौ रतिमुखाः स्तम्भाद्या व्यभिचारिणः । मनोऽनुकूलेऽनुभवः सुखस्य रतिरिष्य्ते ।। ३३९.
हर्वादिभिश्च मनसो विकाशो हास उच्यते । चित्रादिदर्शनाच्चेतोवैक्लव्यं ब्रुवते भयम् ।। ३३९.
जुगुप्सा च पदार्थानां निन्दा दौर्भाग्यवाहिनां । विस्मयोऽतिशयेनार्थदर्शनाच्चित्तविस्तृतिः ।। ३३९.
अष्टौ स्तम्भादयः सत्त्वाद्रजसस्तमसः परम् । स्तम्भश्चेष्टाप्रतीघातो भयरागाद्युपाहितः ।। ३३९.
श्रमरागाद्युपेतान्तःक्षोभजन्म वपुर्ज्जलं । स्वेदो हर्षादिभिर्द्देहोच्छासाऽन्तःपुलकोद्गमः ।। ३३९.
हर्षादिजन्मवाक्सङ्गः स्वरभेदो भयादिभिः । मनोवैक्लव्यमिच्छन्ति शोकमिष्टक्षयादिभिः ।। ३३९.
क्रोधस्तैक्ष्णप्रबोधश्च प्रतिकू लानुकारिणि । पुरुषार्थसमाप्त्यार्थो यः स उत्साह उच्यते ।। ३३९.
चित्तक्षोभभवोत्तम्भो वेपथुः परिकीर्त्तितः । वैवर्ण्यञ्च विचषादादिजन्मा कान्तिविपर्य्ययः ।। ३३९.
दुःखानन्दादिजन्नेत्रजलमश्रु च विश्रुतम् । इन्द्रियाणामस्तमयः प्रलयो लङ्घनादिभिः ।। ३३९.
वैराग्यादिर्म्मनः खेदो निर्वेद इति कथ्यते । मनः पीड़दिजन्मा च सादो ग्लानिः शरीरगा ।। ३३९.
शङ्कानिष्टागमोत्प्रेक्षा स्यादसूया च मत्सरः । मदिराद्युपयोगोत्थं मनः संमोहनं मदः ।। ३३९.
क्रियातिशयजन्मान्तःशरीरोत्थक्लमः श्रमः । श्रृङ्गारादिक्रियाद्वेषश्चित्तस्यालस्यमुच्यते ।। ३३९.
दैन्यं सत्त्वादपभ्रंशश्चिन्तार्थपरिभावनं । इतिकर्त्तव्यतोपायादर्शनं मोह उच्यते ।। ३३९.
स्मृतिः स्यादनुभूतस्य वस्तुनः प्रतिविम्बनं । मतिरर्थपरिच्छेदस्तत्त्वज्ञानोपनायितः ।। ३३९.
व्रीडानुरागादिभवः सङ्कोचः कोपि चेतसः । भवेच्चपलताऽस्थैर्यं हर्षश्चित्तप्रसन्नता ।। ३३९.
आवेशश्च प्रतीकारः शयो वैधुर्य्यमात्मनः । कर्त्तव्ये प्रतिभाभ्रंशो जड़तेत्यभिधीयते ।। ३३९.
इष्टप्राप्तेरुपचितः सम्पदाभ्युदयो धृतिः । गर्व्वः परेष्ववज्ञानमात्मन्युत्कर्षभावाना ।। ३३९.
भवेद्विषादो दैवादेर्विघातोऽभीष्टवस्तुनि । औस्सुक्यमीष्सिताप्राप्तेर्वाञ्छया तरला स्थितिः ।। ३३९.
चित्तेन्द्रियाणां स्तैमित्यमपस्मारोऽचला स्थितिः । युद्धे बाधादिभीस्त्रासो वीप्सा चित्तचमत्कृतिः ।। ३३९.
क्रोधस्याप्रशमोऽमर्षः प्रबोधश्तेचनोदयः । अवहित्थं भवेद्गुप्तिरिङ्गिताकारगोचरा ।। ३३९.