मुखं प्रतिमुखं गर्भो विमर्षश्च तथैव च । तथा निर्व्वहणञ्चेति क्रमात् पञ्चैव सन्धयः ।। ३३८.
अल्पमात्रं समुद्दिष्टं बहुधा यत् प्रसर्पति । फलावसानं यच्चैव वीजं तदभिधीयते ।। ३३८.
यत्र वीजसमुत्पत्तिर्नानार्थरससम्भवा । काव्ये शरीरानुगतं तन्मुखं परिकीर्त्तितं ।। ३३८.
इष्टस्यार्थस्य रचना वृत्तान्तस्यानुपक्षयः । रागप्राप्तिः प्रयोगस्य गुह्यानाञ्चैव गूहनम् ।। ३३८.
आस्चर्य्यवदभिख्यातं प्रकाशानां प्रकाशनम् । अङ्गहीनं नरो यद्वन्न श्रेष्ठं काव्यमेच च ।। ३३८.
देशकालौ विना किञ्चिन्नेतिवृत्तं प्रवर्त्तते । अतस्तयोरुपादाननियमात् पदभुच्यते ।। ३३८.
देशेषु भारतं वर्षं काले कृतयुगत्रयं । नर्त्ते ताम्यां प्राणभृतां सुखदुःखोदयः क्कचित् ।। ३३८.
सर्गे सार्गादिवार्त्ता च प्रसज्जन्ती न दुष्यति ।। ३३८.
अग्निरुवाच अक्षरं परमं ब्र्ह्म सनातनमजं विभुं । वेदान्तेषु वदन्त्येकं चैतन्यं ज्योतिरीश्वरम् ।। ३३९.
आनन्दः सहजस्तस्य व्यज्यते स कदाचन । व्यक्तिः सा तस्य चैतन्यचमत्काररसाह्वया ।। ३३९.
आद्यस्तस्य विकारो यः सोऽहङ्कार इति स्मृतः । ततोऽभिमानस्तत्रेदं समाप्तं भुवनत्रयं ।। ३३९.
अभिमानाद्रतिः सा च परिपोषमुपेयुषी । व्यभिचार्य्यादिसामान्यात् श्रृङ्गार इति गीयते ।। ३३९.
तद्भेदाः काममितरे हास्याद्या अप्यनेकशः । स्वस्वस्थादिविशेषोत्थपरिघोषस्वलक्षणाः ।। ३३९.
सत्त्वादिगुणसन्तानाज्जायन्ते परमात्मनः । रागाद्बवति श्रृङ्गारो रौद्रस्तैक्षणात् प्रजायते ।। ३३९.
वीरोऽवष्टम्भजः सङ्कोचभूर्व्वीभत्स इष्यते । श्रृङ्गारहास्यकरुणा रौद्रवीरभयानकाः ।। ३३९.
वीराच्चाद्भुतनिष्पत्तिः स्याद्वीभत्साद्भयानकः । श्रृङ्गारहास्यकरुणा रौद्रवीरभयानकाः ।। ३३९.
वीभत्साद्भुतशान्ताख्याः स्वभावाच्चतुरो रसाः । लक्ष्मीरिव विना त्यागान्न वाणी भाति नीरसा ।। ३३९.
अपारे काव्यसंसारे कविरेव प्रजापतिः । यथा वै रोचते विश्वं तथेवं परिवर्त्तते ।। ३३९.
अपारे काव्यसंसारे कविरेव प्रजापतिः । यथा वै रोचते विश्वं तथेदं परिवर्त्तते ।। ३३९.
न भावहीनोऽस्ति रसो न भावो रसवर्ज्जितः । भावयन्ति रसानेभिर्भाव्यन्ते च रसा इति ।। ३३९.
स्थायितनोऽष्टौ रतिमुखाः स्तम्भाद्या व्यभिचारिणः । मनोऽनुकूलेऽनुभवः सुखस्य रतिरिष्य्ते ।। ३३९.
हर्वादिभिश्च मनसो विकाशो हास उच्यते । चित्रादिदर्शनाच्चेतोवैक्लव्यं ब्रुवते भयम् ।। ३३९.
जुगुप्सा च पदार्थानां निन्दा दौर्भाग्यवाहिनां । विस्मयोऽतिशयेनार्थदर्शनाच्चित्तविस्तृतिः ।। ३३९.
अष्टौ स्तम्भादयः सत्त्वाद्रजसस्तमसः परम् । स्तम्भश्चेष्टाप्रतीघातो भयरागाद्युपाहितः ।। ३३९.
श्रमरागाद्युपेतान्तःक्षोभजन्म वपुर्ज्जलं । स्वेदो हर्षादिभिर्द्देहोच्छासाऽन्तःपुलकोद्गमः ।। ३३९.
हर्षादिजन्मवाक्सङ्गः स्वरभेदो भयादिभिः । मनोवैक्लव्यमिच्छन्ति शोकमिष्टक्षयादिभिः ।। ३३९.
क्रोधस्तैक्ष्णप्रबोधश्च प्रतिकू लानुकारिणि । पुरुषार्थसमाप्त्यार्थो यः स उत्साह उच्यते ।। ३३९.
चित्तक्षोभभवोत्तम्भो वेपथुः परिकीर्त्तितः । वैवर्ण्यञ्च विचषादादिजन्मा कान्तिविपर्य्ययः ।। ३३९.
दुःखानन्दादिजन्नेत्रजलमश्रु च विश्रुतम् । इन्द्रियाणामस्तमयः प्रलयो लङ्घनादिभिः ।। ३३९.
वैराग्यादिर्म्मनः खेदो निर्वेद इति कथ्यते । मनः पीड़दिजन्मा च सादो ग्लानिः शरीरगा ।। ३३९.