उद्यानसलिलक्रीड़ामधुपानरतोत्सवैः । दूतीवचनविन्यासैरसतीचरिताद्भुतैः ।। ३३७.
तमसा मरुताप्यन्यैविभावैरतिनिर्भरैः । सर्व्ववृत्तिप्रवृत्तञ्च सर्व्वभावप्रभावितम् ।। ३३७.
सर्व्वरीतिरसैः पुष्टं पुष्टङ्गुणविभूणैः । अत एव महाकाव्यं तत्कर्त्ता च महाकविः ।। ३३७.
वाग्वैदग्ध्यप्रधानेपि रस एवात्र जीवितम् । पृथक्प्रयत्ननिर्व्वर्त्यं वाग्वक्रिम्नि रसाद्वपुः ।। ३३७.
चतुर्व्वर्गफलं विश्वग्व्याख्यातं नायकाख्यया । समानवृत्तिनिर्व्यूढः कौशिकीवृत्तिकोमलः ।। ३३७.
कलापोऽत्र प्रवासः प्रागनुरागाह्वयो रसः । सविशेषकञ्च प्राप्त्यादि संस्कृतेनेतरेण च ।। ३३७.
श्लोकैरनेकैः कुलकं स्यात् सन्दानितकानि तत्। मुक्तकं श्लोक एकैकश्चमत्कारक्षमः सतां ।। ३३७.
सूक्तिभिः कविसिंहानां सुन्दरीभिः समन्वितः . कोषो ब्रह्मापरिच्छिन्नः स विदग्धाय रोचते ।। ३३७.
आभासोपमशक्तिश्च सर्गे यद्भिन्नवृत्तता । मिश्रं वपुरिति ख्यातं प्रकीर्णमिति च द्विधा ।। ३३७.
श्रव्यञ्चैवाबिनेयञ्च प्रकीर्णं सकलोक्तिभिः ।। ३३७.
अग्निरुवाच नाटकं सप्रकरणं डिम ईहामृगोऽपि वा । ज्ञेयः समवकारश्च भवेत् प्रहसनन्तथा ।। ३३८.
व्यायोगभाणवीथ्यङ्गत्रोटकान्यथ नाटिका । सट्टकं शिल्पकः कर्णा एको दुर्म्मल्लिका तथा ।। ३३८.
प्रस्थानं भाणिका भाणी गोष्ठी हल्लीशकानि च । काव्यं श्रीगदितं नाट्यरासकं रासकं तथा ।। ३३८.
उल्लाप्यकं प्रेङ्क्षणञ्च सप्तविंशतिरेव तत् । सामान्यञ्च विशेषश्च लक्ष्णस्य द्वयी गतिः ।। ३३८.
सामान्यं सर्व्वविषयं शेषः क्कापि प्रवर्त्तते । पूर्व्वरङ्गे निवृते द्वौ देशकालावुभावपि ।। ३३८.
रसभावमिभावानुभावा अभिनयास्तथा । अङ्कः स्थितिश्च सामान्यं सर्व्वत्रैवोपसर्पणात् ।। ३३८.
विशेषोऽवसरे वाच्यः सामान्यं पूर्व्वमुच्यते । त्रिवर्गसाधनन्नाट्यमित्याहुः करणञ्च यत् ।। ३३८.
इतिकर्त्तव्य्ता तस्य पूर्व्वरङ्गो यथाविधि । नान्दीमुखानि द्वात्रिंशदङ्गानि पूर्व्वरङ्गके ।। ३३८.
देवतानां नमस्कारो गुरूणामपि च स्तुतिः । गोब्राह्मणनृपादीनामाशीर्वादादि गीयते ।। ३३८.
नान्द्यन्ते सूत्रधारोऽसौ रुपकेषु निबध्यते । गुरुपूर्वक्रमं वंशप्रशंसा पौरुषं कवेः ।। ३३८.
सम्बम्धार्थौ च काव्य्स्य पञ्चैतानेष निर्द्दिशेत् । नटी विदूषको वापि पारिपार्श्विक एव वा ।। ३३८.
सहिताः सूत्रधारेण संलापं यत्र कुर्व्वते । चित्रैर्व्वाक्यैः स्वकार्य्योत्थैः प्रस्तुताक्षेपिभिर्मिथ ।। ३३८.
आमुखं तत्तु विज्ञेयं बुधैः प्रस्तावनापि सा । प्रवृत्तकं कथोद्घातः प्रयोगातिशयस्तथा ।। ३३८.
आमुखस्य त्रयो भेदा वीजांशेषूपजायते । कालं प्रवृत्तमाश्रित्य सूत्रधृग्यत्र वर्णयेत् ।। ३३८.
तदाश्रयश्च पात्रस्य प्रवेशस्तत् प्रवृत्तकं । सूत्रधारस्य वाक्यं वा यत्र वाक्यार्थमेव वा ।। ३३८.
गृहीत्वा प्रविशेत् पात्रं कथोद्घातः स उच्यते । प्रयोगेषु प्रयोगन्तु सूत्रधृग्यत्र वर्णयेत् ।। ३३८.
ततश्च प्रविशेत् पात्रं प्रयोगातिशयो हि सः । शरीरं नाटकादीनामितिवृत्तं प्रचक्षते ।। ३३८.
सिद्धमुत्प्रेक्षितञ्चेति तस्य भेदाबुभौ स्मृतौ । सिद्धमागमदृष्टञ्च सृष्टमुत्प्रेक्षइतं कवेः ।। ३३८.
वीजं विन्दुः पताका च प्रकरी कार्य्यमेव च । अर्थप्रकृतयः पञ्च पञ्च चेष्टा अपि क्रमात् ।। ३३८.
प्रारम्भश्च प्रयत्नश्च प्राप्तिः सद्भाव एव च । नियता च फलप्राप्तिः फलयोगश्च पञ्चमः ।। ३३८.