विभज्य बाह्यकोणेषु सप्तान्तस्त्रीणि मार्जयेत्। मण्डलं नवभागं स्यान्नवव्यूहं हरि यजेत् ।। ३१ पञ्चविंशातिकव्यूहं मण्डलं विश्वरूपगम्। द्वात्रिंशद्धस्तकं क्षेत्रं भक्तं द्वात्रिंशता समम्
एवं कृते चतुर्विंशत्यधिकन्तु सहस्त्रकम्। कोष्ठकानां समुद्दिष्टं मध्ये षोडशकोष्ठकैः
भद्रकं परिलिख्याथ पार्श्वे पङ्क्तिं विमृज्य तु। ततः षोडशभिः कोष्ठैर्द्दिक्षु भद्काष्टकं लिखेत्
ततोपि पङ्क्तिं सम्मृज्य तद्वत् षोडशभद्रकम्। लिखित्वा परितः पङ्क्तिं विमृज्याथ प्राकल्पयेत्
द्वारद्वाधशकं दिक्षु त्रीणि त्रीणि यथाक्रमम्। षड्भिः परिलुप्यान्तर्मध्ये चत्वारि पार्श्वयोः
चत्वार्यन्तर्बहिर्द्वे तु शोभार्थं परिमृज्य तु। उपद्वारप्रसिद्ध्यर्थं त्रीण्यन्तः पञ्च बाह्यतः
परिमृज्य तथा शोभां पूर्ववत् परिकल्पयेत्। बहिः कोणेषु सप्तान्तस्त्रीणि कोष्ठानि मार्जयेत्
पञ्चत्रिंशतिकव्यूहे परं ब्रह्म यजेत् कजे । मध्ये पूर्वादितः पद्मे वासुदेवादयः क्रमात्
वराहं पूजयित्वा च पूर्वपद्मे ततः क्रमात्। व्यूहान् सम्पूजयेत्तावत् यावत् षड्विंशमो भवेत्
यथोक्तं व्यूहमखिलमेकस्मिन् पङ्कजे क्रमात्। यष्टव्यमिति यत्नेन प्रचेता मन्यतेऽध्वरम्
सप्तन्तु मूर्त्तिभेदेन विभक्तं मन्यतेऽच्युतम्। चत्वारिशत् करं क्षेत्रं ह्युत्तरं विभजेत् क्रमात्
एकैकं सप्तधा भूयस्तथैवैकं द्विधा पुनः। चतुः षष्ट्युत्तंर सप्तशतान्येकं सहस्त्रकम्
कोष्ठकानां भद्रकञ्च मध्ये षोडशकोष्ठकैः। पार्श्वे वीथीं ततश्चाष्टभद्राण्यथ च वीथिका
षोडशाव्जान्यथो वीथी चतुर्विंशतिपङ्कजम्। वीथीपद्मानि द्वात्रिंशत् पङ्क्तिवीथिकजान्यथ
चत्वारिशत्ततो वीथी शेषपङ्क्तित्रयेण च। द्वारशोभोपशोबाः स्युर्द्दिक्षु मध्ये विलोप्य च
द्विच्तुः षड्द्वारसिद्ध्यै चतुर्द्दिक्षु विलोपयेत्। पञ्च त्रीण्येककं बाह्ये शोबोपद्वारसिद्धये
द्वाराणां पार्श्वयोरन्तः पड् वा चत्वारि मध्यतः। द्वे द्वे लुम्पेदेवमेव षड् भवन्त्युपशोभिकाः
एकस्यां दिशि सङ्ख्याः स्युः चतस्त्रः परिसङ्ख्यया
एकैकस्यां दिशि त्रीणि द्वारण्यपि भवन्त्युत। पञ्च पञ्च तु कोणेषु पङ्क्तौ पङ्क्तौ क्रमात् सृजेत्
कोष्ठकानि भवेदेवं मर्त्येष्ट्यं मण्डलं शुभम्
नारद उवाच मध्ये पद्मे यदेद्ब्रह्म साङ्गं पूर्वेब्जनाभकम्। आग्नेयेब्जे च प्रकृतिं याम्येब्जे पुरुषं यजेत्
पुरुषाद्दशिणे वह्निं नैर्ऋते वारुणेनिलम्। आदित्यमैन्दवे पद्मे ऋग्यजुश्चैशपद्मके
इन्द्रादींश्च द्वितीयायां पद्मे षोडशके तथा। सामाथर्वाणमाकाशं वायु तेजस्तता जलम्
पृथिवीञ्च मनश्चैव श्रोत्रं त्वक् चक्षुरर्च्चयेत्। रसनाञ्च तथा घ्राणं भूर्भुवश्चैव षोडशम्
महर्जनस्तपः सत्यं तथाग्निष्टोममेव च। अत्यग्निष्टोमकं चौक्थं षोडशीं वाजपेयकम्
अतिरात्रञ्च सम्पूज्य तथाप्तोर्याममर्च्चयेत्। मनो बुद्धिमहङ्कारं शब्दं स्पर्शञ्च रूपकम्
रसं गन्धञ्च पद्मे षु चतुर्विंशतिषु क्रमात्। जीवं मनोधिपञ्चाहं प्रकृतिं शब्दमात्रकम्
वासुदेवादिमूर्त्तिंश्च तथा चैव दशात्मकम्। मनः श्रोत्रं त्वचं प्रार्च्च्य चक्षुश्च रसनं तथा
घ्राणं वाक्पाणिपादञ्च द्वात्रिंशद्वारिजेष्विमान्। चतुर्थावरणे पूज्याः साङ्गाः सपरिवारकाः
पायूपस्थौ च सम्पूज्य मासानां द्वादशाधिपान्। पुरुषोत्तमादिषड्विशानं बाह्यावरणकेयजेत्