भयानकं सुखपरं गर्बे च करुणो रसः । अद्भुतोऽन्ते सुक्लृप्तार्थो नोदात्ता सा कथानिका ।। ३३७.
पद्यं चतुष्पदी तच्च वृत्तं जातिरितित्रिधा । वृत्तमक्षरसंख्येयमुक्थं तत् कृतिशेषजम् ।। ३३७.
मात्राभिर्गणना यत्र सा जातिरिति काश्यपः । सममर्द्धसमं वृत्तं विषमं पैङ्गलं त्रिधा ।। ३३७.
सा विद्या नौस्तितीर्षूणां गभीरं काव्यसागरं । महाकाव्यं कलापश्च पर्य्याबन्धो विशेषकम् ।। ३३७.
कुलकं मुक्तक कोष इति पद्यकुटुम्बकम् . सर्गबन्धो महाकाव्यमारब्धं संस्कृतेन यत् ।। ३३७.
तादात्म्यमजहत्तत्र तत्समं नाति दुष्यति । इतिहासकथोद्भूतमितरद्वा सदाश्रयं ।। ३३७.
मन्त्र्दूतप्रयाणाजिनियतं नातिविस्तरम् । शक्कर्य्यातिजगत्यातिशक्कर्य्या त्रिष्टुभा तथा ।। ३३७.
पुष्पिताग्रादिभिर्व्वक्राभिजनैश्चारुभिः समैः । मुक्ता तु भिम्नवृत्तान्ता नातिसंक्षिप्तस्र्गकम् ।। ३३७.
अतिशक्वरिकाष्टिभ्यामेकसङ्कीर्णकैः पररः । मात्रयाप्यपरः सर्गः प्राशस्त्येषु च पश्चिमः ।। ३३७.
कल्पोऽतिनिन्दितस्तस्मिन्विशेषानादरः सतां । नगरार्णवशैलर्त्तु चन्द्रार्काश्रमपादपैः ।। ३३७.
उद्यानसलिलक्रीड़ामधुपानरतोत्सवैः । दूतीवचनविन्यासैरसतीचरिताद्भुतैः ।। ३३७.
तमसा मरुताप्यन्यैविभावैरतिनिर्भरैः । सर्व्ववृत्तिप्रवृत्तञ्च सर्व्वभावप्रभावितम् ।। ३३७.
सर्व्वरीतिरसैः पुष्टं पुष्टङ्गुणविभूणैः । अत एव महाकाव्यं तत्कर्त्ता च महाकविः ।। ३३७.
वाग्वैदग्ध्यप्रधानेपि रस एवात्र जीवितम् । पृथक्प्रयत्ननिर्व्वर्त्यं वाग्वक्रिम्नि रसाद्वपुः ।। ३३७.
चतुर्व्वर्गफलं विश्वग्व्याख्यातं नायकाख्यया । समानवृत्तिनिर्व्यूढः कौशिकीवृत्तिकोमलः ।। ३३७.
कलापोऽत्र प्रवासः प्रागनुरागाह्वयो रसः । सविशेषकञ्च प्राप्त्यादि संस्कृतेनेतरेण च ।। ३३७.
श्लोकैरनेकैः कुलकं स्यात् सन्दानितकानि तत्। मुक्तकं श्लोक एकैकश्चमत्कारक्षमः सतां ।। ३३७.
सूक्तिभिः कविसिंहानां सुन्दरीभिः समन्वितः . कोषो ब्रह्मापरिच्छिन्नः स विदग्धाय रोचते ।। ३३७.
आभासोपमशक्तिश्च सर्गे यद्भिन्नवृत्तता । मिश्रं वपुरिति ख्यातं प्रकीर्णमिति च द्विधा ।। ३३७.
श्रव्यञ्चैवाबिनेयञ्च प्रकीर्णं सकलोक्तिभिः ।। ३३७.
अग्निरुवाच नाटकं सप्रकरणं डिम ईहामृगोऽपि वा । ज्ञेयः समवकारश्च भवेत् प्रहसनन्तथा ।। ३३८.
व्यायोगभाणवीथ्यङ्गत्रोटकान्यथ नाटिका । सट्टकं शिल्पकः कर्णा एको दुर्म्मल्लिका तथा ।। ३३८.
प्रस्थानं भाणिका भाणी गोष्ठी हल्लीशकानि च । काव्यं श्रीगदितं नाट्यरासकं रासकं तथा ।। ३३८.
उल्लाप्यकं प्रेङ्क्षणञ्च सप्तविंशतिरेव तत् । सामान्यञ्च विशेषश्च लक्ष्णस्य द्वयी गतिः ।। ३३८.
सामान्यं सर्व्वविषयं शेषः क्कापि प्रवर्त्तते । पूर्व्वरङ्गे निवृते द्वौ देशकालावुभावपि ।। ३३८.
रसभावमिभावानुभावा अभिनयास्तथा । अङ्कः स्थितिश्च सामान्यं सर्व्वत्रैवोपसर्पणात् ।। ३३८.
विशेषोऽवसरे वाच्यः सामान्यं पूर्व्वमुच्यते । त्रिवर्गसाधनन्नाट्यमित्याहुः करणञ्च यत् ।। ३३८.
इतिकर्त्तव्य्ता तस्य पूर्व्वरङ्गो यथाविधि । नान्दीमुखानि द्वात्रिंशदङ्गानि पूर्व्वरङ्गके ।। ३३८.
देवतानां नमस्कारो गुरूणामपि च स्तुतिः । गोब्राह्मणनृपादीनामाशीर्वादादि गीयते ।। ३३८.
नान्द्यन्ते सूत्रधारोऽसौ रुपकेषु निबध्यते । गुरुपूर्वक्रमं वंशप्रशंसा पौरुषं कवेः ।। ३३८.