अमोऽनुनासिकानक्रौ नादिमौ हसपः स्मृता । ईषन्नादोपणयशः स्वासिनश्च थकादयः ३३६.
अग्निरुवाच काव्यस्य नाटकादेश्च अलङ्कारान् वदाम्यऽथ । ध्वनिर्व्वर्णाः पदं वाक्यमित्येतद्वाङ्मयं मतं ।। ३३७.
शास्त्रेतिहासवाक्यानां त्रयं यत्र समाप्यते । शास्त्रे शब्दप्रधानात्वमितिहासेषु निष्ठता ।। ३३७.
अभिधायाः प्रधानत्वात् काव्यं ताभ्यां विभिद्यते । नरत्वं दुर्ल्लभं लोके विद्यातत्र च दुर्ल्लभा ।। ३३७.
कवित्वं दुर्ल्लभं तत्र शक्तिस्तत्र च दुर्ल्लभा । व्युत्पत्तिर्दुर्ल्लभा तत्र विवेकस्तत्र दुर्लभः ।। ३३७.
सर्व्वं शास्त्रमविद्वद्भिर्मृग्यमाणन्न सिध्यति । आदिवर्णा द्वितीयश्च महाप्राणास्तुरीयकः ।। ३३७.
वर्गेषु वर्णवृन्दं स्यात्पदं सुप्तिङ्प्रभेदतः । सङ्क्षेपाद्वाक्यमिष्टार्थव्यवछिन्ना पदाबली ।। ३३७.
काव्यं स्फटदलङ्कारं गुणवद्दोषवर्जितम् । योनिर्व्वेदश्च लोकश्च सिद्धमन्नादयोनिजं ।। ३३७.
देवादीनां संस्कृतं स्यात् प्राकृतं त्रिविधं नृणां । गद्यं पद्यञ्च मिश्रञ्च काव्यादि त्रिविधं स्मृतम् ।। ३३७.
आपदः पदसन्तानो गद्यन्तदपि गद्यते । चूर्णकोत्कलिकागन्धिवृत्तभेदात् त्रिरूपकम् ।। ३३७.
अल्पाल्पविग्रहं नातिमृदुसन्दर्भनिर्भरं । तूर्णकं नामतो दीर्घसमासात् कलिका भवेत् ।। ३३७.
भवेन्मध्यमसन्दर्भन्नातिकुत्सितविग्रहम् । वृत्तच्छायाहरं वृत्तं गन्धिनैतत् किलोत्कटम् ।। ३३७.
आख्यायिका कथा खण्डकथा परिकथा तथा । कथानिकेति मन्यन्ते गद्यकाव्यञ्च पञ्चधा ।। ३३७.
कर्तृवंशप्रशंसा स्याद्यत्र गद्येन विस्तरात् । कन्याहरणसंग्रामविप्रलम्भविपत्तयः ।। ३३७.
भवन्ति यत्र दीप्ताश्च रीतिवृत्तिप्रवृत्तयः । उच्छासैश्च चपरिच्छेजो यत्र या चूर्णकोत्तरा ।। ३३७.
. वक्त्रं वापरवक्त्रं वा यत्र साख्यायिका स्मृता । श्लोकैः स्ववंशं संक्षेपात् कविर्यत्र प्रशंसति ।। ३३७.
मुख्यस्यार्थावताराय भवेद्यत्र कथान्तरम् । परिच्छेदो न यत्र स्याद्भवेद्वालम्भकैः क्कचित् ।। ३३७.
सा कथा नाम तद्गर्भे निबध्नीयाच्चतुष्पदीं । भवेत् खण्डकथा यासौ परिकथा तयोः ।। ३३७.
अमात्यं सार्थकं वापि द्विजं वा नायकं विदुः । स्यात्तयोः करुणं विद्धि विप्रलम्भश्च तुर्व्विधः ।। ३३७.
. समाप्यते तयोर्न्नाद्या सा कथामनुधावति । कथाख्याथिकयोर्म्मिश्रमावात् परिकथा स्मृता ।। ३३७.
भयानकं सुखपरं गर्बे च करुणो रसः । अद्भुतोऽन्ते सुक्लृप्तार्थो नोदात्ता सा कथानिका ।। ३३७.
पद्यं चतुष्पदी तच्च वृत्तं जातिरितित्रिधा । वृत्तमक्षरसंख्येयमुक्थं तत् कृतिशेषजम् ।। ३३७.
मात्राभिर्गणना यत्र सा जातिरिति काश्यपः । सममर्द्धसमं वृत्तं विषमं पैङ्गलं त्रिधा ।। ३३७.
सा विद्या नौस्तितीर्षूणां गभीरं काव्यसागरं । महाकाव्यं कलापश्च पर्य्याबन्धो विशेषकम् ।। ३३७.
कुलकं मुक्तक कोष इति पद्यकुटुम्बकम् . सर्गबन्धो महाकाव्यमारब्धं संस्कृतेन यत् ।। ३३७.
तादात्म्यमजहत्तत्र तत्समं नाति दुष्यति । इतिहासकथोद्भूतमितरद्वा सदाश्रयं ।। ३३७.
मन्त्र्दूतप्रयाणाजिनियतं नातिविस्तरम् । शक्कर्य्यातिजगत्यातिशक्कर्य्या त्रिष्टुभा तथा ।। ३३७.
पुष्पिताग्रादिभिर्व्वक्राभिजनैश्चारुभिः समैः । मुक्ता तु भिम्नवृत्तान्ता नातिसंक्षिप्तस्र्गकम् ।। ३३७.
अतिशक्वरिकाष्टिभ्यामेकसङ्कीर्णकैः पररः । मात्रयाप्यपरः सर्गः प्राशस्त्येषु च पश्चिमः ।। ३३७.
कल्पोऽतिनिन्दितस्तस्मिन्विशेषानादरः सतां । नगरार्णवशैलर्त्तु चन्द्रार्काश्रमपादपैः ।। ३३७.