अग्निरुवाच वक्ष्ये शिक्षान्त्रिषष्टिः स्युर्वर्णा वा चतुराधिकाः । स्वरा विंशतिरेकश्च स्पर्शानां पञ्चविंशतिः ।। ३३६.
यादयश्च स्मृता ह्यष्टौ चत्वारश्च समाः स्मृताः । अनुस्वारो विसर्गश्च ᳲ क ᳲ पौ चापि परान्वितौ ।। ३३६.
दुष्पृष्ठश्चेति विज्ञेया लृकारः प्लुत एव च । रङ्गश्च खे अरं प्रोक्तं हकारः पञ्चमैर्युतः ।। ३३६.
अन्तस्थाभिः समायुक्त औरस्यः कण्ठ्य एव सः । आत्मबुद्ध्या समेसार्थं मनो युंक्ते विवक्षया ।। ३३६.
मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् । मारुतस्तूरसि चरन् मन्त्रं जनयति स्वरं ।। ३३६.
प्रातः सवनयोगस्तु छन्दो गायत्रमाश्रितम् । कण्ठे माध्यन्दिनयुतं मध्यमन्त्रेषु भानुगम् ।। ३३६.
तारन्तार्त्तीयसवनं शीर्षण्यं जागतानुगम् । सोदीर्णो मूर्ध्न्यभिहितो वक्रमापद्य मारुतः ।। ३३६.
वर्णान् जनयते तेषां विभागः पञ्चधा स्मृतः । स्वरतः कालतः स्थानात् प्रयत्नार्थप्रदानतः ।। ३३६.
अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा । जिह्वामूलञ्च दन्ताश्च नासिकौष्ठौ च तालु च ।। ३३६.
स्वभावश्च विवृत्तिश्च शषसा रेफ एव च । जिह्वामूलमुपध्मा च गतिरष्टविधोष्मणः ।। ३३६.
पद्यो भावप्रसन्धानमुकारादि परम्पदं । स्वरान्तं तादृशं विद्याद्यादन्यद्व्यक्तमूष्मणः ।। ३३६.
ऊतीर्थादागतं दग्धमप्रवर्णञ्च भक्षितं । एवमुच्चारणं पापमेवमुच्चारणं शुभम् ।। ३३६.
अतीर्थादागतं द्रव्यं साम्नायं सुव्यवस्थितं । सुस्वरेण सुवक्त्रेण प्रयुक्तं ब्रह्मराजनि ।। ३३६.
न करालो न लम्वोष्ठो नाव्यक्ता नानुनासिकः । गद्गदो बहुजिह्वश्च न वर्णान् वक्तुमर्हति ।। ३३६.
एवं वर्णाः प्रयोक्तव्या नाव्यक्ता न च पीड़िताः । सम्यग्वर्णप्र्योगेण ब्रह्मलोके महीयते ।। ३३६.
उदात्तश्चानुदात्तश्च स्वरितश्च स्वरास्त्रयः । ह्रस्वो दीर्घः प्लुत इति कालतो नियमावधि ।। ३३६.
कण्ठ्या वहाविचुयशास्तालव्या ओष्ठजा वुपु । स्युर्मूर्द्धन्या ऋटुरसाः दन्त्याः लृतुलसाः स्मृताः ।। ३३६.
जिह्वामूले तु कुः प्रोक्तो दन्त्योष्ठो वः स्मृतो बुधैः । एदैतौ कण्ठतालव्यौ ओ औ कण्ठ्यौष्ठजौ स्मृतौ ।। ३३६.
अर्द्धमात्रा तु कण्ठस्य एकारैकारयोर्भवेत् । अयोगवाहा विज्ञेया आश्रयस्थानभागिनः ।। ३३६.
अचोऽस्पृष्टापणस्त्वीषन्नोमाः स्पृष्टा हलः स्मृताः । शेषाः स्पृष्टा हलः प्रोक्ता निबोधात्र प्रधानतः ।। ३३६.
अमोऽनुनासिकानक्रौ नादिमौ हसपः स्मृता । ईषन्नादोपणयशः स्वासिनश्च थकादयः ३३६.
अग्निरुवाच काव्यस्य नाटकादेश्च अलङ्कारान् वदाम्यऽथ । ध्वनिर्व्वर्णाः पदं वाक्यमित्येतद्वाङ्मयं मतं ।। ३३७.
शास्त्रेतिहासवाक्यानां त्रयं यत्र समाप्यते । शास्त्रे शब्दप्रधानात्वमितिहासेषु निष्ठता ।। ३३७.
अभिधायाः प्रधानत्वात् काव्यं ताभ्यां विभिद्यते । नरत्वं दुर्ल्लभं लोके विद्यातत्र च दुर्ल्लभा ।। ३३७.
कवित्वं दुर्ल्लभं तत्र शक्तिस्तत्र च दुर्ल्लभा । व्युत्पत्तिर्दुर्ल्लभा तत्र विवेकस्तत्र दुर्लभः ।। ३३७.
सर्व्वं शास्त्रमविद्वद्भिर्मृग्यमाणन्न सिध्यति । आदिवर्णा द्वितीयश्च महाप्राणास्तुरीयकः ।। ३३७.
वर्गेषु वर्णवृन्दं स्यात्पदं सुप्तिङ्प्रभेदतः । सङ्क्षेपाद्वाक्यमिष्टार्थव्यवछिन्ना पदाबली ।। ३३७.
काव्यं स्फटदलङ्कारं गुणवद्दोषवर्जितम् । योनिर्व्वेदश्च लोकश्च सिद्धमन्नादयोनिजं ।। ३३७.
देवादीनां संस्कृतं स्यात् प्राकृतं त्रिविधं नृणां । गद्यं पद्यञ्च मिश्रञ्च काव्यादि त्रिविधं स्मृतम् ।। ३३७.
आपदः पदसन्तानो गद्यन्तदपि गद्यते । चूर्णकोत्कलिकागन्धिवृत्तभेदात् त्रिरूपकम् ।। ३३७.