गोग इन्द्रियनवकौ ननौ वसनगाः स्वराः । स्वराश्चापराजिता स्यान्ननभाननगाः स्वराः ।। ३३४.
द्विःप्रहरणकलिता वसन्ततिलका नभौ । जौ गौ सिंहोन्नता सा स्यान्मुनेरुद्धर्षणी च सा ।। ३३४.
चन्द्रावर्त्ता ननौ सोमावर्त्तर्तुनवकः स्मृतः । मणिगुणनिकरा सौ मालिनौ नौ मयौ ययः ।। ३३४.
यतिर्वसुस्वरा भौ वौ नतलमित्रसग्रहाः । ऋषभगजविलासितं ज्ञेया शिखरिणी जगौ ।। ३३४.
रसभालभृगुरुद्राः पृथ्वीजसजसा जनौ । गोवसुग्रहविच्छिन्ना पिह्गलेनेरिता पुरा ।। ३३४.
वंशपत्रपतितं स्याद् भवना भौ नगौ सदिक् । हरिणी नसमारः सो नगौ रसचतुःस्वराः ।। ३३४.
मन्दाक्रान्ता नभनतं तगौगछिरसस्वराः । कुसुमितलता वेल्लिता मतना यययाः शराः ।। ३३४.
रथाः स्व्राः प्रतिरथससजाः सततश्च गः । शार्दूलविक्रीड़ितं स्यादादित्यमुनयो यतिः ।। ३३४.
कृतिः सुवदना मोरो भनया भनगाः सुराः । यतिर्मुनिरसाश्चाथ इति वृत्तं क्रमात् स्मृतम् ।। ३३४.
स्रग्ध्रा मरतानोमोयपौ त्रिःसप्तका यतिः । समुद्रकं भरजानोवनगा दशभास्कराः ।। ३३४.
अस्वललितं नजभा जभजा भनमीशतः । मत्ताक्रीड़ा ममनना नौनग्नौ गोष्टमातिथिः ।। ३३४.
तन्वी भनतसाभोभो लयो वाणसुरार्क्ककाः । क्रौञ्चपदा भमतता नौ नौ वाण्शराष्टतः ।। ३३४.
भुजङ्गविजृम्भितं ममतना ननवासनौ । गष्टेशमुनिभिश्छेदो ह्युहाराख्यमीदृशम् ।। ३३४.
मननानतानः सो गगौ ग्रहरसो रसात् । नौ सप्तरोदण्डदः स्याच्चण्डवृष्टिप्रघातकं ।। ३३४.
रेफवृद्ध्या णणवा स्युर्व्यालजीमूतमुख्यकाः । शेषे वै प्रचिता ज्ञेया गाथाप्रस्तार उच्यते ।। ३३४.
अग्निरुवाच छन्दोऽत्र सिद्धं गाथा स्यात् पादे सर्व्वगुरौ तथा । प्रस्तार आद्यगाथोनः परतुल्योऽथ पूर्व्वगः ।। ३३५.
नष्टमध्ये समेऽङ्कोनः समेऽर्द्ध विषमे गुरुः । प्रतिलोमगुणं नाद्यं द्विरुद्दिष्टग एकनुत् ।। ३३५.
सङ्ख्याद्विरर्द्धे रूपे तु शून्यं शून्ये द्विरीरितं । तावदर्द्धे तद्गुणितं द्वि द्व्यूनञ्च तदन्ततः ।। ३३५.
परे पूर्णं परे पूर्णं मेरुप्रस्तारतो भवेत् । नगसंख्या वृत्तसंख्या चाध्वाङ्गुलमधोद्र्धतः ।। ३३५.
सङ्ख्यैव द्विगुणैकोना छन्दः सारोऽथमीरितः ।। ३३५.
अग्निरुवाच वक्ष्ये शिक्षान्त्रिषष्टिः स्युर्वर्णा वा चतुराधिकाः । स्वरा विंशतिरेकश्च स्पर्शानां पञ्चविंशतिः ।। ३३६.
यादयश्च स्मृता ह्यष्टौ चत्वारश्च समाः स्मृताः । अनुस्वारो विसर्गश्च ᳲ क ᳲ पौ चापि परान्वितौ ।। ३३६.
दुष्पृष्ठश्चेति विज्ञेया लृकारः प्लुत एव च । रङ्गश्च खे अरं प्रोक्तं हकारः पञ्चमैर्युतः ।। ३३६.
अन्तस्थाभिः समायुक्त औरस्यः कण्ठ्य एव सः । आत्मबुद्ध्या समेसार्थं मनो युंक्ते विवक्षया ।। ३३६.
मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् । मारुतस्तूरसि चरन् मन्त्रं जनयति स्वरं ।। ३३६.
प्रातः सवनयोगस्तु छन्दो गायत्रमाश्रितम् । कण्ठे माध्यन्दिनयुतं मध्यमन्त्रेषु भानुगम् ।। ३३६.
तारन्तार्त्तीयसवनं शीर्षण्यं जागतानुगम् । सोदीर्णो मूर्ध्न्यभिहितो वक्रमापद्य मारुतः ।। ३३६.
वर्णान् जनयते तेषां विभागः पञ्चधा स्मृतः । स्वरतः कालतः स्थानात् प्रयत्नार्थप्रदानतः ।। ३३६.
अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा । जिह्वामूलञ्च दन्ताश्च नासिकौष्ठौ च तालु च ।। ३३६.
स्वभावश्च विवृत्तिश्च शषसा रेफ एव च । जिह्वामूलमुपध्मा च गतिरष्टविधोष्मणः ।। ३३६.