दोधकं भगभागौ स्यात् शालिनी मतभागगौ । यतिः समुद्रा ऋषयः वातोर्म्मी मभतागगौ ।। ३३४.
चतुःस्वरा स्याद्भ्रमरी विलासिता मभौनलौ । समुद्रा अथ ऋषयो वनौ लौगौ रथोद्धता ।। ३३४.
सामताधनभागौगोवृत्ताननसमाश्च सः । श्येनी वजवनागः स्याद्रम्या नपरगागगः ।। ३३४.
जगती वंशस्था वृत्तं जतौ जावथ तौ जवौ । इन्द्रवंशा तोटकं सैरचतुर्भिः प्रतिपादतः ।। ३३४.
भवेद्द्रुतविलम्बिता नभौ भवावथौ नलौ । स्यौ श्रीपुठो वसुवेदा जलोगतिजलौ जमौ ।। ३३४.
जसौ वसर्व्ववश्चाथ ततं ननमराः स्मृतं । कुशुमविचित्रान्यौ द्यौ नौ नौ रौ स्याच्चलाम्बिका ।। ३३४.
भुजङ्गप्र्यातं थैः स्याच्चतुभिः स्राग्विनीभवैः । प्रमिताक्षरा गजौ सौ कान्तोत्पीड़ा मतौ समौ ।। ३३४.
वैश्वदेवी ममयायाः पञ्चाङ्गा नवमालिनी । नजौ भयौ प्रतिपादं गणा यदि जगत्यपि ।। ३३४.
प्रहर्षणी मवजवा गोपतिर्बह्निदिक्षु च । रुचिरा जभसजगा च्छिन्ना वेदैर्ग्रहैः स्मृता ।। ३३४.
मत्तमयूरं मतया सगौ वेदग्रहे यतिः । गौरीनलनसागः स्यादसम्बाधा नतौ नगौ ।। ३३४.
गोग इन्द्रियनवकौ ननौ वसनगाः स्वराः । स्वराश्चापराजिता स्यान्ननभाननगाः स्वराः ।। ३३४.
द्विःप्रहरणकलिता वसन्ततिलका नभौ । जौ गौ सिंहोन्नता सा स्यान्मुनेरुद्धर्षणी च सा ।। ३३४.
चन्द्रावर्त्ता ननौ सोमावर्त्तर्तुनवकः स्मृतः । मणिगुणनिकरा सौ मालिनौ नौ मयौ ययः ।। ३३४.
यतिर्वसुस्वरा भौ वौ नतलमित्रसग्रहाः । ऋषभगजविलासितं ज्ञेया शिखरिणी जगौ ।। ३३४.
रसभालभृगुरुद्राः पृथ्वीजसजसा जनौ । गोवसुग्रहविच्छिन्ना पिह्गलेनेरिता पुरा ।। ३३४.
वंशपत्रपतितं स्याद् भवना भौ नगौ सदिक् । हरिणी नसमारः सो नगौ रसचतुःस्वराः ।। ३३४.
मन्दाक्रान्ता नभनतं तगौगछिरसस्वराः । कुसुमितलता वेल्लिता मतना यययाः शराः ।। ३३४.
रथाः स्व्राः प्रतिरथससजाः सततश्च गः । शार्दूलविक्रीड़ितं स्यादादित्यमुनयो यतिः ।। ३३४.
कृतिः सुवदना मोरो भनया भनगाः सुराः । यतिर्मुनिरसाश्चाथ इति वृत्तं क्रमात् स्मृतम् ।। ३३४.
स्रग्ध्रा मरतानोमोयपौ त्रिःसप्तका यतिः । समुद्रकं भरजानोवनगा दशभास्कराः ।। ३३४.
अस्वललितं नजभा जभजा भनमीशतः । मत्ताक्रीड़ा ममनना नौनग्नौ गोष्टमातिथिः ।। ३३४.
तन्वी भनतसाभोभो लयो वाणसुरार्क्ककाः । क्रौञ्चपदा भमतता नौ नौ वाण्शराष्टतः ।। ३३४.
भुजङ्गविजृम्भितं ममतना ननवासनौ । गष्टेशमुनिभिश्छेदो ह्युहाराख्यमीदृशम् ।। ३३४.
मननानतानः सो गगौ ग्रहरसो रसात् । नौ सप्तरोदण्डदः स्याच्चण्डवृष्टिप्रघातकं ।। ३३४.
रेफवृद्ध्या णणवा स्युर्व्यालजीमूतमुख्यकाः । शेषे वै प्रचिता ज्ञेया गाथाप्रस्तार उच्यते ।। ३३४.
अग्निरुवाच छन्दोऽत्र सिद्धं गाथा स्यात् पादे सर्व्वगुरौ तथा । प्रस्तार आद्यगाथोनः परतुल्योऽथ पूर्व्वगः ।। ३३५.
नष्टमध्ये समेऽङ्कोनः समेऽर्द्ध विषमे गुरुः । प्रतिलोमगुणं नाद्यं द्विरुद्दिष्टग एकनुत् ।। ३३५.
सङ्ख्याद्विरर्द्धे रूपे तु शून्यं शून्ये द्विरीरितं । तावदर्द्धे तद्गुणितं द्वि द्व्यूनञ्च तदन्ततः ।। ३३५.
परे पूर्णं परे पूर्णं मेरुप्रस्तारतो भवेत् । नगसंख्या वृत्तसंख्या चाध्वाङ्गुलमधोद्र्धतः ।। ३३५.
सङ्ख्यैव द्विगुणैकोना छन्दः सारोऽथमीरितः ।। ३३५.