अन्त्येनार्द्धेनोपगीतिरुद्गीतिश्चोत्क्रमात् स्मृता । अर्द्धे रक्षगणा आर्य्या गीतच्छन्दोऽथ मात्रया ।। ३३१.
वैतालीयं द्विस्वरा स्यादयुष्पादे समे नलः । वसवोऽन्ते वनगाश्च गोपुच्छन्दशकं भवेत् ।। ३३१.
भगणआन्ता पाटलिका शेषे परे च पूर्ववत् । साकं षड्वा मिश्रायुक् प्राच्यवृत्तिः प्रदर्श्यते ।। ३३१.
पञ्चमेन पूर्वसाकं तृतीयेन सहस्रयुक् । उदीच्यवृत्तिर्वाच्यां स्याद् युगपच्च प्रवर्त्तकं ।। ३३१.
अयुक्चारुहासिनी स्याद्युगपच्चान्तिका भवेत् ।। ३३१.
सप्तार्च्चिर्वसवश्चैव मात्रासमकमीरितम् । भवेन्नलवमौ लश्च द्वादशो वा नवासिका ।। ३३१.
विश्वोकः पञ्चमाष्टौ मो चित्र लवमकश्चलः । परयुक्तेनोपचित्रा पादाकुलकमित्यतः ।। ३३१.
गीतार्य्या लोपश्चेत् सौम्या लः पूर्वः ज्योतिरीरिता । स्याच्छिखा विपर्य्यास्तार्द्धा तूलिका समुदाहृता ।। ३३१.
एकोनत्रिंशदन्ते गः स्याज्ज्ञेजनसमावला । गु इत्येकगुरुं संख्यावर्णाद्दशविपर्य्ययात् ।। ३३१.
अग्निरुवाच वृत्तं समञ्चार्द्धसमं विषमञ्च त्रिधा वदे । समन्तावत् कृत्वकृतमर्द्धसमञ्च कारयेत् ।। ३३२.
पिषमञ्चैव वास्यूनमतिवृत्तं समान्यपि । ग्लौचतुःप्रमाणी स्यादाभ्यामन्यद्वितानकं ।। ३३२.
पादस्याद्यन्तु वक्रं स्यात् शनौ न प्रथमास्मृतौ । बाल्यमुश्चतुर्थाद्वर्णात् पथ्या वर्णं युजेयतः ।। ३३२.
विपरीतपथ्यान्या साच्चपला वा युजस्वनः । विपुलायुग्नसप्तमः सर्व्वं तस्यैव तस्य च ।। ३३२.
तौन्तौ वा विपुलानेका चक्रजातिः समीरिता । भवेन् पदचतुरूद्र्ध्वं चतुर्वृद्ध्या पदेषु च ।। ३३२.
गुरुद्वयान्त आपीडः प्रत्यापीडो गणादिकः । प्रथमस्य विपर्य्यासे मञ्जरी लवणी क्रमात् ।। ३३२.
भवेदमृतधाराख्या उद्धताद्य्चयतेऽधुना । एकतः ससजसानः स्युर्न सौ जो गोऽथ भौनजौ ।। ३३२.
नोगोऽथ सजसा गोगस्तृतीयचरणस्य च । सौरभे केचनभगा ललितञ्च नमौ जसौ ।। ३३२.
उपस्थितं प्रचुपितं प्रथमाद्यं समौ जसौ । गोगथां मलजा रोगः समो नगरजयाः पदे ।। ३३२.
वर्द्धमानं मलौ स्वौ नसौ अथो भोजोव इरिता । शुद्धविराड़ार्षभाख्यं वक्ष्ये चार्द्धसमन्ततः ।। ३३२.
अग्निरुवाच उपचित्रकं ससमनामथभोजभगामय । द्रूतमध्या ततभगागथोननजयाः स्मृताः ।। ३३३.
वेगवती ससमगा भभभगोगथो स्मृता । रुद्रविस्तारस्तोसभगासमजागोगथा स्मृता ।। ३३३.
रजसागोगथोद्रोणौ गोगौ वै केतुमत्यपि । आख्यानिकी ततजगागथोततजगागथ ।। ३३३.
विपरीताख्यानिकी त्तौ जयगातौ जगोगथ । सौमलौ गथलभभावौ भवेद्धरिणवल्लभा ।। ३३३.
लौवनौगाथनजजा यः स्यादपरक्रमं । पुष्पिता ननवयानजजावोगथो रजौ ।। ३३३.
वोजथो जवजवागौ मूले पनमती शिखा । अष्टाविंशतिनागाभा त्रिशन्नागन्ततो युजि । खञ्जा तद्विपरीता स्यात् समवृत्तं प्रदर्श्यते ।। ३३३.
अग्निरुवाच यतिविच्छेद इत्युक्तस्तत्तन्मध्यान्तयौ गणौ । यौसः कुमारलालिता तौ गौ चित्रपदा स्मृता ।। ३३४.
विद्युन्माला मममागणैर्भूतगणैर्भवेत् । माणवकाक्रीड़ितकं वनौ हलमुखी वसः ।। ३३४.
स्याद्भुजङ्गशिशुसूतानौ मेहनं मरुतं ननौ। भवेच्छुद्धविराड्वृत्तं प्रतिपादं समौ जगौ ।। ३३४.
पणवोमलयोमः स्याज्जौ गौ मयूरसारिणी । सत्तामभसगा वृत्तं भजताद्युपरिस्थिता ।। ३३४.
रुक्मवती भससगाविन्द्रावज्रा तजौ जगौ । जतौ जगौ गूपपूर्व्वावाद्यन्ताद्युपजातयः ।। ३३४.