सा गायत्री पदे नीवृत् तत्प्रतिष्ठादि षट् त्रिपात् । बधँमाना षड़ष्टाष्टा त्रिपात् षड् वसूभूवरैः ।। ३३०.
गायत्री त्रिपदा नीवृत् नागी नवनवर्त्तुभिः । वाराही रसद्विरसा छम्दश्चाथ तृतीयकप् ।। ३३०.
द्विषाद् द्वादशवस्वन्तैः त्रिपात्तु त्रैष्टभैः स्मृतम् । उष्णिक् छन्दोऽष्टवसुकैः पादैर्वेदे प्रकीर्त्तितः ।। ३३०.
ककुबुष्णिगष्टसूर्य्यवस्वर्णा त्रिभिरेव सः । पुनरुष्णिक् सूर्य्यवसुवस्वर्णैश्च त्रिपाद्भवेत् ।। ३३०.
परोष्णिक् परतस्तस्माच्चतुष्णदात् त्रिभिर्भवेत् । साष्टाक्षरैरनुष्टुप् स्यात् चतुष्पाच्च त्रिपात् क्कचित् ।। ३३०.
अष्टार्कसूर्य्यवर्णैः स्यात् मध्येऽन्ते च क्कचिद्भवेत् । वृहतीजगत्यस्त्रवोगायत्र्याः पूर्व्वको यदि ।। ३३०.
तृतीयः पथ्या भवति द्वितीयान्यं कुसारिणी । स्कन्धौ ग्रीवा क्रोष्टुके स्याद् यक्षे स्याद्वो वृहत्यपि ।। ३३०.
उपरिष्टाद् वृहत्यन्ते पुरस्ताद् वृहती पुनः । क्कचिन्नवकाश्चत्वारो दिग्विदिक्ष्वष्टवर्णिकाः ।। ३३०.
महावृहती जागतैः स्यात् त्रिभिः सतो वृहत्यप्रि । भण्डिलः पङ्क्तिच्छन्दः स्यात् सूर्य्यार्काष्टाष्टवर्णकैः ।। ३३०.
पूर्व्वौ वेदयुजौ सतः पङ्क्तिश्च विपरीतकौ । प्रस्तारपङक्तिः पुरतः पवादास्तारपङ्क्तिका ।। ३३०.
अक्षरपङ्क्तिः पञ्चकाश्चत्वारश्चाल्पशो द्वयं । पदपङ्क्तिः पञ्च भवेच्चतुषकं षट्ककत्रयेम् ।। ३३०.
षट्कपञ्चभिर्गायत्रैः षड्भिश्च जगती भवेत् । एकेन त्रिष्टुव्ज्योतिष्मती तथैव जगतोरिता ।। ३३०.
पुरस्ताज्जयोतिः प्रथमे मध्ये ज्योतिश्च मध्यतः । उपरिष्टाज्जोतिरन्त्यादेकस्मिन् पञ्चके तथा ।। ३३०.
भवेच्छन्दः शङ्कुमती षट्के छन्दः ककुद्मती । त्रिपादशिशुमध्या स्यात् सा पिपीलिकमध्यमा ।। ३३०.
विपरीता यवमध्या त्रिवृदेकेन वर्जिता । भूमिजैकेनाधिकेन द्विहीना च चिराद्भवेत् ।। ३३०.
स्वराट्स्याद्द्वाभ्यामधिकं सन्दिग्धो दैवतादितः । आदिपादान्निश्चयः स्याच्छन्दसां देवता क्रमात् ।। ३३०.
अग्निः सूर्य्यः शशी जीवो वरुणश्चन्द्र एव च । विश्वेदेवाश्च षड़ जाद्याः स्वराः षड़ जो वृषः क्रमात् ।। ३३०.
गान्धारो मध्यमश्चैव पञ्चमो धैवतस्तथा । निषादवर्णाः श्वेतश्च साहड्गश्च पिसड्गकः ।। ३३०.
कृष्णो नीलो लोहितश्च गौरी गायत्रिमुख्यके । गोरोचनाभाः कृतयो ज्योतिश्छन्दो हि श्यामलं ।। ३३०.
अग्निर्वैश्यः काश्यपश्च गौतमाह्गिरसौ क्रमात् । भार्गवः कौशिकश्चैव वाशिष्ठो गोत्रमीरितं ।। ३३०.
अग्निरुवाच चतुःशतमुत्कृतिः स्यादुकृतेश्चतुरस्त्यजेत् । अभिसंव्या प्रत्यकृतिस्तानि छन्दांसि वै पृथक् ।। ३३१.
कृतिश्चातिधृतिवृत्ती अत्यष्टिष्चाष्टिरित्यतः । अतिशर्क्करी शक्करीति अतिजगती जगत्यपि ।। ३३१.
छन्दोऽत्र लौकिकंस्याच्च आर्षमात्रैष्टुभात् स्मृतम् । त्रिष्टुप्पङ्क्तिवृहती अनुष्टुवुष्णिगी रितम् ।। ३३१.
गायत्री स्यात् सुप्रतिष्ठा प्रतिष्ठा मध्यया सह । अत्युक्तात्युक्त आदिश्च एकैकाक्षरवर्जितम् ।। ३३१.
चतुर्भागो भवेत् पादो गण्च्छन्दः प्रदर्श्यते । तावन्तः समुद्रा गणा ह्यादिमध्यान्तसर्वगाः ।। ३३१.
चतुर्णः पञ्च च गणा आर्य्यालक्षणमुच्यते । स्वरार्द्धञ्चार्य्यार्द्धं स्यादार्य्यांयां विषमेनजः ।। ३३१.
षष्ठो जो नलपूर्वा स्याद्द्वितीयादिपदं नले । सप्तमेऽन्ते प्रथमा च द्वितीये पञ्चमे नले ।। ३३१.
अर्द्धे पदं प्रथमादि षष्ठ एको लघुर्भवेत् । त्रिषु गणेषु पादः स्यादार्य्या पञ्चार्द्धके स्मृता ।। ३३१.
विपुलान्याथ चपला गुरुमध्यागतौ च जौ । द्वितीयचतुर्थौ पूर्वे च चपला मुखपुर्विका ।। ३३१.
द्वितीथे जघनपूर्व्वा चपलार्य्या प्रकीर्त्तिता । उभयोर्महाचपला गीतवाद्यार्द्धतुल्यका ।। ३३१.