अष्टलक्षैश्च वाक्सिद्धिर्देवाद्या वश्माप्नुयुः । न निवेद्य न चास्नीयाद्वामहस्तेन चार्च्चयेत् ।। ३२६.
अष्टम्याञ्च चतुर्दश्यां तृतीयायां विशेषतः । मृत्युञ्जयार्च्चनं वक्ष्ये पूजयेत् कलसोदरे ।। ३२६.
हूयमानञ्च प्रणवो मूर्त्तिरोजस ईदृशं । मूलञ्च वौषडन्तेन कुम्भमुद्रां प्रदर्शयेत् ।। ३२६.
होमयेत् क्षीरदूर्वाज्यममृताञ्च पुनर्नवाम् । पायसञ्च पुरोडासमयुतन्तु पजेन्मनुं ।। ३२६.
चतुर्मुखं चतुर्वाहुं द्वाभ्याञ्च कलसन्दधत् । वरदाभयकं द्वाभ्यां स्नायाद्वै कुम्भमुद्रया ।। ३२६.
आरोग्यैश्वर्य्यदीर्घायुरौषधं मन्त्रितं शुभम् । अपमृत्युहरो ध्यातः पूजितोऽद्भुत एव सः ।। ३२६.
ईश्वर उवाच व्रतेश्वरांश्च सत्यादीनिष्ट्वा व्रतसम्र्पणम्। अरिष्टशमने शस्तमरिष्टं सूत्रनायकम् ।। ३२७.
हेमरत्नमयं भूत्यै महाशङ्खञ्च मारणे । आप्यायने शङ्खसूत्रं मौक्तिकं पूत्रवर्द्धनम् ।। ३२७.
स्फाटिकं भूतिदं कौशं मुक्तिदं रुद्रनेत्रजं । धात्रीफलप्रमाणेन रुद्राक्षँ चोत्तमन्ततः ।। ३२७.
समेरुं मेरुहीनं वा सूत्रं जप्यन्तु मानसम् । अनामाङ्गुष्ठमाक्रम्य जपं भाष्यन्तु कारयेत् ।। ३२७.
तर्ज्जन्यङ्गुष्ठमाक्रम्य न मेरुं लङ्घयेज्जपे । प्रमादात् पतिते सूत्रे जप्तव्यन्तु शतद्वयम् ।। ३२७.
सर्ववाद्यमयी घण्टा तस्या वादनमर्थकृत् । गोशकृन्मूत्रवल्मीकमृत्तिकाभस्मवारिभिः ।। ३२७.
वेस्मायतनलिङ्गादेः कार्य्यमेवं विशोधनम् । स्कन्दो नमः शिवायेति मन्त्रः सर्व्वार्थसाधकः ।। ३२७.
गीतः पञ्चाक्षरो वेदे लोके गीतः षड़क्षरः । ओमित्यन्ते स्थितः शम्भुर्म्मुद्रार्थं वटवीजवत् ।। ३२७.
क्रमान्नमः शिवायेति ईशानाद्यानि वै विदुः । षड़क्षरस्य सूत्रस्य भाष्यद्विद्याकदम्बकं ।। ३२७.
यदोँनमः शिवायेति एतावत् परमं पदम् । अनेन पूजयेल्लिङ्गं लिङ्गे यस्मात् स्थितः शिवः ।। ३२७.
अनुग्रहाय लोकानां धर्म्मकामार्थमुक्तिदः । यो न पूजयते लिङ्गन्न स धर्म्मादिभाजनं ।। ३२७.
लिङ्गार्च्चनाद्भुक्तिमुक्तिर्यावज्जीवमतो यजेत् । वरं प्राणपरित्यागो भुञ्जीतापूज्य नैव तं ।। ३२७.
रुद्रस्य पूजनाद्रुद्रो विष्णुः स्याद्विष्णुपूजनात् । सूर्य्यः स्यात् सूर्य्यपूजातः शक्त्यादिः शक्तिपूजनात् ।। ३२७.
सर्वयज्ञतपोदाने तीर्थे वेदेषु यत् फलं । तत् फलं कोटिगुणितं स्थाप्य लिङ्गं लभेन्नरः ।। ३२७.
त्रिसन्ध्यं योर्च्चयेल्लिङ्गं कृत्वा विल्वेन पार्थिवम् । शतैकादशिकं यावत् कुलमुद्धृत्य नाकभाक् ।। ३२७.
भक्त्या वित्तानुसारेण कुर्य्यात् प्रासादसञ्चयम् । अल्पे महति वा तुल्यफलमाढ्यदरिद्रयोः ।। ३२७.
भागद्वयञ्च धर्मार्थं कल्पयेज्जीवनाय च । धनस्य भागमेकन्तु अनित्यं जीवितं यतः ।। ३२७.
त्रिसप्तकुलमुद्धृत्य देवागारकृदर्थंभाक् । मृत्कष्ठेष्टकशैलाद्यैः क्रमात् कोटिगुणं फलम् ।। ३२७.
अष्टेष्टकसुरागारकारी स्वर्गमवाप्नुयात् । पांशुना क्रीडमानोपि देवागारकृदर्थभाक् ।। ३२७.
अग्निरुवाच छन्दो वक्ष्ये मूलजैस्तैः पिङ्गलोक्तं यथाक्रमम् । सर्व्वादिमध्यान्तगणौ म्लौ द्वौ जौ स्तौ त्रिकौ गणाः ।। ३२८.
ह्रस्वो गुरुर्व्वा पादान्ते पूर्व्वो योगाद् विसर्गतः । अनुस्वाराद्व्यञ्जनात् स्थात् जिह्वामूलीयतस्तथा ।। ३२८.
उपाध्मानीयतो दीर्वो गुरुर्ग्लौ नौ गणाविह । वसवोष्टौ च चत्वारो वेदादित्यादिलोपतः ।। ३२८.
अग्निरुवाच पाद आपादपूरणे गायत्र्यो वसवः स्मृताः । जगत्या आदित्याः पादो विराजो दिश ईरिताः ।। ३३०.
विष्णुतो रुद्राः पादः स्याच्छन्द एकादिपादकं । आद्यं चतुष्पाच्चतुर्मिस्त्रिपात् सप्ताक्षरैः क्कचित् ।। ३३०.