सपीठे वामभागो तु शिवस्याव्यक्तरूपकम् । व्यक्ता द्विनेत्रा त्र्यक्षरा शुद्धा वा शङ्करान्विता ।। ३२६.
पीठपद्मद्वयं तारा द्विभुजा वा चतुर्भजा । सिंहस्था वा वृकस्था वा अष्टाष्टादशसत्करा ।। ३२६.
स्रगक्षसूत्रकलिका गलकोत्पलपिण्डिका । शरं धनुर्व्वा सव्येन पाणिनान्यतमं वहत् ।। ३२६.
वामेन पुस्तताम्बूलदण्डाभयकमण्डलुम् । गणेशदर्पणेष्वासान्दद्यादेकैकशः क्रमात् ।। ३२६.
व्यक्ताऽथवाकार्य्या षद्ममुद्रा स्मृतासने । तिङ्गमुद्रा शिवस्योक्ता मुदा चावाहनी द्वयोः ।। ३२६.
शक्तिमुद्रा तु योन्याख्या चतुरस्रन्तु मण्डलं । चतुरस्रं त्रिपत्राब्जं मध्यकोष्ठचतुष्टये ।। ३२६.
त्र्यश्रोर्द्धे चार्द्धेचन्द्रस्तु द्विपदं द्विगुणं क्रमात् । द्विगुणं द्वारकण्ठन्तु द्विगुणादुपकण्ठतः ।। ३२६.
द्वारत्रयं त्रयं दिक्षु अथ वा भद्रके यजेत् । स्थण्डिले वाथ संस्थाप्य पञ्चगव्यामृतादिना ।। ३२६.
रक्तपुष्पाणि देयानि पूजयित्वा ह्युदङ्मुखः । शतं हुत्वामृताज्यञ्च चपूर्णादः सर्व्वसिद्धिभाक् ।। ३२६.१८ बलिन्दत्वा कुमारीश्च तिस्रो वा चाष्ट भोजयेत् । नैवह्यं शिवभक्तेषु दद्यान्न स्वयमाचरेत् ।। ३२६.
कन्यार्थी लभते कन्यां अपुत्रः पुत्रमाप्नुयात् । दुर्भगा चैव सौभाग्यं राजा राज्यं जयं रणे ।। ३२६.
अष्टलक्षैश्च वाक्सिद्धिर्देवाद्या वश्माप्नुयुः । न निवेद्य न चास्नीयाद्वामहस्तेन चार्च्चयेत् ।। ३२६.
अष्टम्याञ्च चतुर्दश्यां तृतीयायां विशेषतः । मृत्युञ्जयार्च्चनं वक्ष्ये पूजयेत् कलसोदरे ।। ३२६.
हूयमानञ्च प्रणवो मूर्त्तिरोजस ईदृशं । मूलञ्च वौषडन्तेन कुम्भमुद्रां प्रदर्शयेत् ।। ३२६.
होमयेत् क्षीरदूर्वाज्यममृताञ्च पुनर्नवाम् । पायसञ्च पुरोडासमयुतन्तु पजेन्मनुं ।। ३२६.
चतुर्मुखं चतुर्वाहुं द्वाभ्याञ्च कलसन्दधत् । वरदाभयकं द्वाभ्यां स्नायाद्वै कुम्भमुद्रया ।। ३२६.
आरोग्यैश्वर्य्यदीर्घायुरौषधं मन्त्रितं शुभम् । अपमृत्युहरो ध्यातः पूजितोऽद्भुत एव सः ।। ३२६.
ईश्वर उवाच व्रतेश्वरांश्च सत्यादीनिष्ट्वा व्रतसम्र्पणम्। अरिष्टशमने शस्तमरिष्टं सूत्रनायकम् ।। ३२७.
हेमरत्नमयं भूत्यै महाशङ्खञ्च मारणे । आप्यायने शङ्खसूत्रं मौक्तिकं पूत्रवर्द्धनम् ।। ३२७.
स्फाटिकं भूतिदं कौशं मुक्तिदं रुद्रनेत्रजं । धात्रीफलप्रमाणेन रुद्राक्षँ चोत्तमन्ततः ।। ३२७.
समेरुं मेरुहीनं वा सूत्रं जप्यन्तु मानसम् । अनामाङ्गुष्ठमाक्रम्य जपं भाष्यन्तु कारयेत् ।। ३२७.
तर्ज्जन्यङ्गुष्ठमाक्रम्य न मेरुं लङ्घयेज्जपे । प्रमादात् पतिते सूत्रे जप्तव्यन्तु शतद्वयम् ।। ३२७.
सर्ववाद्यमयी घण्टा तस्या वादनमर्थकृत् । गोशकृन्मूत्रवल्मीकमृत्तिकाभस्मवारिभिः ।। ३२७.
वेस्मायतनलिङ्गादेः कार्य्यमेवं विशोधनम् । स्कन्दो नमः शिवायेति मन्त्रः सर्व्वार्थसाधकः ।। ३२७.
गीतः पञ्चाक्षरो वेदे लोके गीतः षड़क्षरः । ओमित्यन्ते स्थितः शम्भुर्म्मुद्रार्थं वटवीजवत् ।। ३२७.
क्रमान्नमः शिवायेति ईशानाद्यानि वै विदुः । षड़क्षरस्य सूत्रस्य भाष्यद्विद्याकदम्बकं ।। ३२७.
यदोँनमः शिवायेति एतावत् परमं पदम् । अनेन पूजयेल्लिङ्गं लिङ्गे यस्मात् स्थितः शिवः ।। ३२७.
अनुग्रहाय लोकानां धर्म्मकामार्थमुक्तिदः । यो न पूजयते लिङ्गन्न स धर्म्मादिभाजनं ।। ३२७.
लिङ्गार्च्चनाद्भुक्तिमुक्तिर्यावज्जीवमतो यजेत् । वरं प्राणपरित्यागो भुञ्जीतापूज्य नैव तं ।। ३२७.
रुद्रस्य पूजनाद्रुद्रो विष्णुः स्याद्विष्णुपूजनात् । सूर्य्यः स्यात् सूर्य्यपूजातः शक्त्यादिः शक्तिपूजनात् ।। ३२७.
सर्वयज्ञतपोदाने तीर्थे वेदेषु यत् फलं । तत् फलं कोटिगुणितं स्थाप्य लिङ्गं लभेन्नरः ।। ३२७.