अब्रह्मचारी ब्रह्मचारी अस्नातः स्नातको भवेत् । हैमी वा मुद्रिका धार्य्या शिवमन्त्रेण चार्च्च्य तु ।। ३२५.
शिवः शिखा तथा ज्योतिः सवित्रश्चेतिगोचराः । गोचरन्तु कुलं ज्ञेयं तेन लक्षअयस्तु दीक्षइतः ।। ३२५.
प्राजापत्यो महीपालः कपोतो ग्रन्थिकः शिवे । कुटिलाश्चैव वेतालाः पद्महंसाः शिखाकुले ।। ३२५.
धृताराष्ट्रा बकाः काका गोपाला ज्योतिसंज्ञके । कुटिका सारठाश्चैव गुटिका दण्डिनोऽपरे ।। ३२५.
सावित्री गोचरे चैवमेकैकस्तु चतुर्विधः । सिद्धाद्यंशकमाख्यास्ये येन मन्त्रः सुसिद्धिदः ।। ३२५.
भूमौ तु मातृका लेख्याः कूटषण्डविवर्ज्जिताः । मन्त्राक्षराणि विश्लिष्य अनुस्वारं नयेत् पृथक् ।। ३२५.
साधकस्य तु या संज्ञा तस्या विश्लेषणं चरेत् । मन्त्रस्यादौ तथा चान्ते साधकार्णानि योजयेत् ।। ३२५.
सिद्धः साध्यः सुसिद्धोऽरिः संज्ञातो गणयेत् क्रमात् । मन्त्रस्यादौ तथा चान्ते सिद्धिदः स्याच्छतांशतः ।। ३२५.
सिद्धादिश्चान्तसिद्धिश्च तत्क्षणादेव सिध्यति । सुसुद्धादिः सुसिद्धान्तः सिद्धवत् परिकल्पयेत् ।। ३२५.
अरिमादौ तथान्ते च दूरतः परिवर्ज्जयेत् । सिद्धः सुसिद्धश्चैकार्थे अरिः साध्यस्तथैव च ।। ३२५.
आदौ सिद्धः स्थितो मन्त्रे तदन्ते तद्वदेव हि । मध्ये रिपुसहस्राणि न दोषाय भवन्ति हि ।। ३२५.
मायाप्रसादप्रणवेनांशकः ख्यातमन्त्रके । ब्रह्मांशको ब्र्ह्मविद्या विष्ण्वङ्गो वैष्णवः स्मृतः ।। ३२५.
रुद्रांशको भवेद्वीर इन्द्रांशश्चेश्वरप्रियः । नागांशो नागस्तब्धाक्षो यक्षांशो भूषणप्रियः ।। ३२५.
गन्धर्व्वाशोऽतिगीतादि भीमांशो राक्षसांशकः । दैत्यांशः स्याद् युद्धकार्य्यो मानी विद्याधरांशकः ।। ३२५.
पिशाचांशो मलाक्रान्तो मन्त्रं दद्यान्निरीक्ष्य च । मन्त्र एकात् फड़न्तः स्यात् विद्यापञ्चाशतावधि ।। ३२५.
बाला विंशाक्षरान्ता च रुद्रा द्वाविंशगायुधा । तत ऊर्द्ध्वन्तु ये मन्त्रा वृद्वा यावच्छतत्रयं ।। ३२५.
अकारादिहकारान्ताः क्रमात् पक्षौ सितासितौ । अनुस्वारविसर्गेण विना चैव स्वरा दश ।। ३२५.
ह्रस्वाः शुक्ला दीर्घाः श्यामांस्तिथयः प्रतिपन्मुखाः । उदिते शान्तिकादीनि भ्रमिते वश्यकादिकम् ।। ३२५.
भ्रामिते सन्धयो द्वेषोच्चाटने स्तम्भनेऽस्तकम् । इहावाहे शान्तिकाद्यं पिङ्गले कर्षणादिकम् ।। ३२५.
मारणोच्चाटनादीनि विषुवे पञ्चधा पृथक् । अधरस्य गृहे पृथ्वी ऊर्द्ध्वे तेजोऽन्तरा द्रवः ।। ३२५.
रन्ध्रपार्श्वे बहिर्वायुः सर्वं व्याप्य महेश्वरः । स्तम्भनं पार्थिवे शान्तिर्ज्जले वश्यादि तेजसे ।। ३२५.
ईश्वर उवाच सौभाग्यादेरुमापूजां वक्ष्येऽहं भुक्तिमुक्तिदां । मन्त्रध्यानं मण्डलञ्च मुद्रां होमादिसाधनम् ।। ३२६.
चित्रभानुं शिवं कालं महाशक्तिसमन्वितम् । इडाद्यं परतोहृत्य सदेवः सविकारणम् ।। ३२६.
द्वितायं द्वारकाक्रान्तं गौरीप्रीतिपदान्वितं । चतुर्थ्यन्तं प्रकर्त्तव्यं गौर्य्या वै मूलवाचकं ।। ३२६.
ओं ह्रीँ सः शौँ गौर्य्यै नमः । तत्रार्णत्रितयेनैव जातियुक्तं षड़ङ्गुलम् । आसनं प्रणवेनैव पूर्त्तिं वै हृदयेन् तु ।। ३२६.
उदकञ्च तथा कालं शिववीजं समुद्धरेत् । प्राणं दीर्घस्वराक्रान्तं षडङ्गं जातिसंयुतम् ।। ३२६.
आसनं प्रणवेनात्र मूर्त्तिन्यासं हृदाचरेत् । यामलं कथितं वत्स एकवीरं वदाम्यऽथ ।। ३२६.
व्यापकं सृष्टिसंयुक्तं वह्निमायाकृशानुभिः । शिवशक्तिमयं वीजं हृदयादिविवर्ज्जितं ।। ३२६.
गौरीं यजेद्धेमरूप्यां काष्ठनां शौलजादिकां । पञ्चपिण्डां तथाऽव्यक्तां कोणे मध्ये तु पञ्चमं ।। ३२६.
ललिता सुभगा गौरी क्षोभणी चाग्नितः क्रमात् । वामा ज्येष्ठा क्रिया ज्ञाना वृत्ते पूर्व्वादितो यजेत् ।। ३२६.