अन्तर्द्धानकरी विद्या मोहनी जृम्भनी तथा । वशन्नयति शत्रूणां शत्रुबुद्धिप्रमोहिनी ।। ३२३.
कामधेनुरियं विद्या सप्तधा परिकीर्त्तिता । मन्त्रराजं प्रवक्ष्यामि शत्रुचौरादिमोहनम् ।। ३२४.
महाभयेषु सर्व्वषु स्मर्त्तव्यं हरपूजितं । लक्षं जप्त्तवा तिलैर्हो मः सिद्ध्येदुद्धरारकं श्रृणु ।। ३२५.
ओं हले शूले एहि ब्रह्मसत्येन विष्णुसत्येन रुद्रसत्येन रक्ष मां वाचेश्वराय स्वाहा ।। दुर्गात्तारयते यस्मात्तेन दुर्गा शिवा मता । ओं चण्डकपालिनि दन्तान् किटि क्षिटि गुह्ये फट् ह्रीँ । अनेन मन्त्रराजेन क्षालयित्वा तु तण्डुलान् ।। ३२५.
त्रिशद्वारानि जप्तानि तच्चौरेषु प्रदापयेत् । दन्तैशचूर्णानि शुक्लानि पतितानि हि शुद्धये ।। ३२५.
ओं ज्वलल्लोचन कपिलजटाभारभास्वर विद्रावण त्रैलोक्यडामर दर भ्रम आकट्ट तोटय मोटय दह पट एवं सिद्धिरुद्रो ज्ञापयति यदि ग्रहोपगतः स्वर्गल्लोकं देवलोकं वा आरामविहाराचलं तथापि तमावर्त्तयिष्यामि बलिं गृह्ण ददामि ते स्वाहेत् । क्षेत्रपालबलिं दत्वा ग्र्हो न्यासाद्ह्रदं व्रजेत् । शत्रवो नाशमायान्ति रणे वैरगणक्षयः ।। ३२५.
हंसबीजन्तु विन्यस्य विषन्तु त्रिविधं हरेत् । अगुरुञ्चन्दनं कुष्ठं कुङ्कुमं नागकेशरम् ।। ३२५.
नखं वै देवदारुञ्च समं कृत्वाथ धूपकः । माक्षइकेन समायुक्तो देहवस्त्रादिधूपनात् ।। ३२५.
विवादे मोहने स्त्रीणं मण्डने कलहे शुभः । कन्याया वरणे भाग्ये मायामन्त्रेण मन्त्रितः ।। ३२५.
ह्रीँ रोचनानागपुष्पाणि कुङ्कुमञ्च मनःशिला । ललाटे तिलकं कृत्वा यं पश्येत्स वशी भवेत् ।। ३२५.
शतावर्य्यास्तु चूर्णन्तु दुग्धपीतञ्च पुत्रकृत् । नागकेशरचूर्णन्तु घृतपक्कन्तु पुत्र्कृत् ।। ३२५.
पालाशवीजपानेन लभेत पुत्रकन्तथा । ओं उत्तिष्ठ चामुण्डे जम्भय मोहय अमुकं वशमानय स्वाहा । षड्विंशा सिद्धविद्या सा नदीतीरमृता श्रियम् ।। ३२५.
कृत्वोन्मत्तरसेनैव नामालिख्मार्कपत्रके । मूत्रोत्सर्गन्ततः कृत्वा जपेत्तामानेयेत्तस्त्रियम् ।। ३२३.
ओं क्षुंसः वषट् । मद्वामृत्युञ्जयो मन्त्रो जप्याद्धोमाच्च पुष्टिकृत् । ओं हंसः ह्रूँ हूं स ह्नः सौः । मृतसञ्जीवनी विद्या अष्टार्णा जयकृद्रणे ।। ३२३.
मन्त्रा ईशानमुख्याश्च धर्म्मकामादिदायकाः । ईशानः सर्वविद्यानामीश्वरः सर्वभूतानां ।। ३२३.
ब्रह्माणश्चाधिपतिर्ब्रह्म शिवो मेऽस्तु सदाशिवः । ओं तत्पुरुषाय शिद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् । ओं अघोरेभ्योऽथ घोरेभ्यो घोरहरेभ्यस्तु सर्वतः ।। ३२३.
सर्व्वेभ्यो नमस्ते रुद्ररूपेभ्यः । ओं वामदेवाय नमो ज्येष्ठाय नमः रुद्राय नमः । कालाय नमः कलविकरणाय नमो बलविकरणाय नमो बलप्रमथनाय नमः । सर्व्वभूतदमनाय नमो मनोन्मानाय नमः । ओं सद्योजातं प्रवक्ष्यामि सद्योजाताय वै नमः । भवे भवेऽनादिभवे भजस्व मां भवोद्भव ।। ३२३.
पञ्चब्रह्माङ्गष्ट्कञ्च२ वक्ष्येऽहं भुक्तिमुक्तिदं । ओं नमः परमात्मने पराय कामदाय परमेश्वराय योगाय वोगसम्भिवाय सर्व्वकराय कुरु सत्य भव भवोद्भव वामदेव सर्व्वकार्य्यकर पापप्रशमन सदाशिव प्रसन्न नमोऽस्तु ते स्वाहा ।। हृदयं सर्व्वार्थदन्तु सप्तत्यक्षरसंयुतं । ओं शिवः शिवाय नमः शिवः । ओं हृदये ज्वालिनि स्वाहा शिखा । ओं शिवात्मक महातेजः सर्व्वज्ञ प्रभुरावर्त्तय महाघोर कवच पिङ्गल नमः । महाकवच शिवाज्ञया हृदयं बन्ध घूर्णय चूर्णय सूक्ष्मवज्रवर वज्रपाश धनुर्वज्राशनिवज्रशरीर मम शरीरमनुप्रविश्य सर्व्वदुष्टान् स्तम्भय हूँ । अक्षराणान्तु कवचं शतं पञ्चाक्षराधिकम् ।। ३२३.
ईश्वर उवाच रुद्राक्षकटकं धार्य्यं विषमं सुसमं दृढम् । एकत्रिपञ्चवदनं यथालाभन्तु धारयेत् ।। ३२५.
द्विचतुःषण्मुखं शस्तमव्रणं तीव्रकण्ठकं । दक्षवाहौ शिखादौ च धारयेच्चतुराननं ।। ३२५.
अब्रह्मचारी ब्रह्मचारी अस्नातः स्नातको भवेत् । हैमी वा मुद्रिका धार्य्या शिवमन्त्रेण चार्च्च्य तु ।। ३२५.
शिवः शिखा तथा ज्योतिः सवित्रश्चेतिगोचराः । गोचरन्तु कुलं ज्ञेयं तेन लक्षअयस्तु दीक्षइतः ।। ३२५.
प्राजापत्यो महीपालः कपोतो ग्रन्थिकः शिवे । कुटिलाश्चैव वेतालाः पद्महंसाः शिखाकुले ।। ३२५.
धृताराष्ट्रा बकाः काका गोपाला ज्योतिसंज्ञके । कुटिका सारठाश्चैव गुटिका दण्डिनोऽपरे ।। ३२५.
सावित्री गोचरे चैवमेकैकस्तु चतुर्विधः । सिद्धाद्यंशकमाख्यास्ये येन मन्त्रः सुसिद्धिदः ।। ३२५.
भूमौ तु मातृका लेख्याः कूटषण्डविवर्ज्जिताः । मन्त्राक्षराणि विश्लिष्य अनुस्वारं नयेत् पृथक् ।। ३२५.
साधकस्य तु या संज्ञा तस्या विश्लेषणं चरेत् । मन्त्रस्यादौ तथा चान्ते साधकार्णानि योजयेत् ।। ३२५.
सिद्धः साध्यः सुसिद्धोऽरिः संज्ञातो गणयेत् क्रमात् । मन्त्रस्यादौ तथा चान्ते सिद्धिदः स्याच्छतांशतः ।। ३२५.
सिद्धादिश्चान्तसिद्धिश्च तत्क्षणादेव सिध्यति । सुसुद्धादिः सुसिद्धान्तः सिद्धवत् परिकल्पयेत् ।। ३२५.
अरिमादौ तथान्ते च दूरतः परिवर्ज्जयेत् । सिद्धः सुसिद्धश्चैकार्थे अरिः साध्यस्तथैव च ।। ३२५.