पञ्चचक्रं दश करं रणादौ पूजितं जये । ग्रहपूजा रविर्मध्ये पूर्व्वाद्याः सोमकादयः ।। ३२१.
सर्व्व एकादशस्थास्तु ग्रहाः स्युः ग्रहपूजनात् । अस्त्रशान्तिं प्रवक्ष्यामि सर्वोत्पातविनाशिनीं ।। ३२१.
ग्रहरोगादिशमनीं मारीशत्रुविमर्द्दनीं । विनायकोपतप्तिघ्नमघोरास्त्रं जपेन्नरः ।। ३२१.
लक्षं ग्रहादिनाशः स्यादुत्पाते तिलहोमकम् । दिव्ये लक्षं तदर्द्धेन व्योमजोत्पातनाशनं ।। ३२१.
घृतेन लक्षपातेन उत्पाते भूमिजे हितम् । घृतगुग्गुलुहोमे च सर्व्वोत्पातादिमर्द्दनम् ।। ३२१.
दूर्वाक्षताज्यहोमेन व्याधयोऽथ घृतेन च । सहस्रेण तु दुःस्वप्ना विनश्यन्ति न संशयः ।। ३२१.
अयुताद् ग्रहदोषघ्नो जवाघृतविमिश्रितात् । विनायकार्त्तिशमनमयुतेन घृतस्य च ।। ३२१.
भूतवेतालशान्तिस्तु गुग्गुलोरयुतेन च । महावृक्षस्य भङ्गे तु व्यालकङ्के गृहे स्थिते ।। ३२१.
आरण्यानां प्रवेशे च दूर्वाज्याक्षतहावनात् । उल्कापाते भूमिकम्पे तिलाज्येनाहुताच्छिवम् ।। ३२१.
रक्तस्रावे तु वृक्षाणामयुताद् गुग्गुलोः शिवं । अकाले फलपुष्पणां राष्ट्रभङ्गे च मारणे ।। ३२१.
द्विपदादेर्यदा मारी लक्षार्द्धाच्च तिलाज्यतः । हस्तिमारीप्रशान्त्यर्थ करिणीदन्तवर्द्धने ।। ३२१.
हस्तिन्यां मददृष्टौ च अयुताच्छान्तिरिष्यते । अकाले गर्भपाते तु जातं यत्र विनश्यति ।। ३२१.
विकृता यत्र जायन्ते यात्राकालेऽयुतं हुनेत् । तिलाज्यलक्षहोमन्तु उत्तमासिद्धिसाधने ।। ३२१.
मध्यमायां तदर्द्धेन तत्पादादधमासु च । यथा जपस्तथा होमः संग्रामे विजयो भवेत । अघोरास्त्रं जपेन्न्यस्य ध्यात्वा पञ्चास्यमूर्ज्जितम् ।। ३२१.
ईश्वर उवाच वक्ष्ये पाशुपतास्त्रेण शान्तिजापादि पूर्व्वतः । पादतः पूर्व्वनाशो हि फडन्तं चापदादिनुत् ।। ३२२.
ओं नमो भगवते महापाशुपताय अतुलबलवीर्य्यपराक्रमाय त्रिपञ्चनयनाय नानारूपाय नानाप्रहरणोग्यताय सर्व्वाङ्गरक्ताय भिन्नाञ्जनचयप्रख्याय श्मशानवेतालप्रियाय सर्वविघ्ननिकृन्तरताय सर्व्वसिद्धिप्रदाय भक्तानुकम्पिने असंख्यवक्त्रभुजपादाय तस्मिन्सिद्धाय वेतालवित्रासिने शाकिनीक्षोभजनकाय व्याधिनिग्रहकारिणे पापभञ्जनाय सूर्य्यसोमाग्निनेत्राय विष्णुकवचाय खङ्गवज्रहस्ताय यमदण्डवरुणपाशाय रुद्रशूलाय ज्वलज्जिह्वाय सर्व्वरोगविद्रावणाय ग्रहनिग्रहकारिणे दुष्टनागक्षयकारिणे ओं कृष्णपिङ्गलाय फट् । हूंकारास्त्राय फट् । वज्रहस्ताय फट् । शक्तये फट् । दण्डाय फट् । यमाय फट् । खड्गाय फट् । वारुणाय फट् । पाशाय फट् । ध्वजाय फट् । अङ्कुशाय फट् । गदायै फट् । कुवेशय फट् । त्रिशूलाय फट् । मुद्गराय फट् । चक्राय फट् । पद्माय फट् । नागास्त्राय फट् । ईशानाय फट् । खेटकास्त्राय फट् । मुण्डास्त्राय फट् । कङ्गालास्त्राय फट् । पिच्छिकास्त्राय फट् । क्षुरिकाश्त्राय फट् । ब्रह्मास्त्राय फट् । शक्त्यस्त्राय फट् । गणास्त्राय फट् । पिलिपिच्छास्त्राय फट् । गन्धर्वास्त्राय फट् । मूर्व्वास्त्राय फट् । दक्षिणास्त्राय फट् । वामास्त्राय फट् । पश्चिमास्त्राय फट् । मन्त्रास्त्राय फट् । शाकिन्यस्त्राय फट् । योगिन्यस्त्राय फट् । दण्डास्त्राय फट् । महादण्डाश्त्राय फट् । नानास्त्राय फट् । शिवास्त्राय फट् । ईशानास्त्राय फट् । पुरुषास्त्राय फट् । अघोरास्त्राय फट् । सद्योजातास्त्राय फट् । हृदयास्त्राय फट् । महास्त्राय फट् । गरुड़ास्त्राय फट् । राक्षसास्त्रोय फट् । दानवास्त्राय फट् । क्षौं नरसिंहास्त्राय फट् । त्वष्ट्रस्त्राय फट् । सर्व्वास्त्राय फट् । नः फट् । वः फट् । पः फट् । फः फट् ।मः फट् । श्री फट् । फेः फट् । भूः फट् । भुवः फट् । स्वः फट् । महः फट् । जनः फट् । तपः फट् । सर्व्वलोक फट् । सर्व्वपाताल फट् । सर्वतत्त्व फट् । सर्वप्राण फट् । सर्वनाड़ी फट् । सर्वकारण फट् । सर्वदेव फट् । ह्रीँ फट् । श्रीँ फट् । हूँ फट् । स्रुँ फट् । स्वां फट् । लां फट् । वैराग्याय फट् । कामास्त्राय फट् । स्रुँ फट् । स्वां फट् । लां फट् । वैराग्याय फट् । मायास्त्राय फट् । कामास्त्राय फट् । क्षेत्रपालास्त्राय फट् । हूँकारास्त्राय फट् । भास्करास्त्राय फट् । चन्द्रास्त्राय फट् । क्षेत्रपालास्त्राय फट् । हूँकारास्त्राय फट् । भास्करास्त्राय फट् । चन्द्रास्त्राय फट् । विघ्नेस्वरास्त्राय फट् । गौं गां फट् । स्त्रौं स्त्रौ फट् । भ्रामय भ्रामय फट् । संतापय संतापय फट् । छादय छादय फट् । उन्मूलय फट् । त्रासय फट् । सञ्जीवय सञ्जीवय फट् । विद्रावय विद्रावय फट् । सर्व्यदुरितं नाशय नाशय फट् । सकृदावर्त्तनादेव सर्वविघ्नान् विनाशयेत् । शतावर्त्तेन चोत्पातान्रणादौ विजयो भवेत् ।। ३२२.
घृतगुग्गुलुहोमाच्चह्साध्यानपि साधयेत् । पठनास्सर्वशान्तिः स्याच्छस्त्रापाशुपतस्य च ।। ३२२.
ईश्वर उवाच ओं ह्रूँ हंसइति मन्त्रेण मृत्युरोगादि शाम्यति । लक्षाहुतिभिर्दूर्व्वाभिः शान्ति पुष्टि प्रसाधयेत् ।। ३२३.
अथ वा प्रणवेनैव मायया वा षड़ानन । दिव्यान्तरीक्षभौमानां शान्तिरुत्पातवृक्षके ।। ३२३.
ओं नमो भगवति गङ्गे कालि महाकालि मांसशोणितभोजने रक्तकृष्णमुखि वशमानय मानुषान् स्वाहा ।। ओं लक्षं जप्त्वा दशांशेन हुत्वा स्यात् सर्वकर्म्मकृत् । वशं नयति शक्रादीन्मानुषेष्वेषु का कथा ।। ३२३.
अन्तर्द्धानकरी विद्या मोहनी जृम्भनी तथा । वशन्नयति शत्रूणां शत्रुबुद्धिप्रमोहिनी ।। ३२३.
कामधेनुरियं विद्या सप्तधा परिकीर्त्तिता । मन्त्रराजं प्रवक्ष्यामि शत्रुचौरादिमोहनम् ।। ३२४.
महाभयेषु सर्व्वषु स्मर्त्तव्यं हरपूजितं । लक्षं जप्त्तवा तिलैर्हो मः सिद्ध्येदुद्धरारकं श्रृणु ।। ३२५.
ओं हले शूले एहि ब्रह्मसत्येन विष्णुसत्येन रुद्रसत्येन रक्ष मां वाचेश्वराय स्वाहा ।। दुर्गात्तारयते यस्मात्तेन दुर्गा शिवा मता । ओं चण्डकपालिनि दन्तान् किटि क्षिटि गुह्ये फट् ह्रीँ । अनेन मन्त्रराजेन क्षालयित्वा तु तण्डुलान् ।। ३२५.
त्रिशद्वारानि जप्तानि तच्चौरेषु प्रदापयेत् । दन्तैशचूर्णानि शुक्लानि पतितानि हि शुद्धये ।। ३२५.
ओं ज्वलल्लोचन कपिलजटाभारभास्वर विद्रावण त्रैलोक्यडामर दर भ्रम आकट्ट तोटय मोटय दह पट एवं सिद्धिरुद्रो ज्ञापयति यदि ग्रहोपगतः स्वर्गल्लोकं देवलोकं वा आरामविहाराचलं तथापि तमावर्त्तयिष्यामि बलिं गृह्ण ददामि ते स्वाहेत् । क्षेत्रपालबलिं दत्वा ग्र्हो न्यासाद्ह्रदं व्रजेत् । शत्रवो नाशमायान्ति रणे वैरगणक्षयः ।। ३२५.
हंसबीजन्तु विन्यस्य विषन्तु त्रिविधं हरेत् । अगुरुञ्चन्दनं कुष्ठं कुङ्कुमं नागकेशरम् ।। ३२५.
नखं वै देवदारुञ्च समं कृत्वाथ धूपकः । माक्षइकेन समायुक्तो देहवस्त्रादिधूपनात् ।। ३२५.
विवादे मोहने स्त्रीणं मण्डने कलहे शुभः । कन्याया वरणे भाग्ये मायामन्त्रेण मन्त्रितः ।। ३२५.
ह्रीँ रोचनानागपुष्पाणि कुङ्कुमञ्च मनःशिला । ललाटे तिलकं कृत्वा यं पश्येत्स वशी भवेत् ।। ३२५.