तद्वाह्ये पञ्च पदिका वीथिका यत्र भूषिता । पद्मवद्द्वारकण्ठन्तु पदिकञ्चौष्ठकण्ठकं ।। ३२०.
कपोलं पदिकं कार्य्यं दिक्षु द्वारत्रयं स्फुटम् । कोणबन्धं त्रिपट्टन्तु द्विपट्टं वज्रवद्भवेत् ।। ३२०.
मध्यन्तु कमलं शुक्लं पीतं रक्तञ्च नीलकम् । पीतशुक्लञ्च धूम्रञ्च रक्तं पीतञ्च मुक्तिदम् ।। ३२०.
पूर्व्वादौ कमलान्यष्ट शिवविष्ण्वादिकंजपेत् . प्रासादमध्यतोऽभ्यर्च्य शक्रादीन्व्जकादिषु ।। ३२०.
अस्त्राणि वाह्यवीथ्यान्तु विष्ण्वादीनश्वमेधभाक् । पवित्रारोहणादौ च महामण्डलमालिखेत् ।। ३२०.
अष्टहस्तं पुरा क्षेत्रं रसपक्षैर्विवर्त्तयेत् । द्विपदं कमलं मध्ये वीथिका पदिका ततः ।। ३२०.
दिग्विदिक्षु ततोऽष्ठै च नीलाब्जानि विवर्त्तयेत् । मध्यपद्मप्रमाणेन त्रिंशत्पद्मानि तानि तु ।। ३२०.
. दलसन्धिविहीनानि नीलेन्दीवरकानि च । तत्पृष्ठे पदिका वीथी स्वस्तिकानि तदूर्द्धतः ।। ३२०.
. द्विपदानि तथा चाष्टौ कृतिभागकृतानि तु . वर्त्तयेत् स्वस्तिकांश्तत्र वीथिका पूर्व्ववद्वहिः ।। ३२०.
द्वाराणि कमलं यद्वदुपकण्ठयुतानि तु । वक्त्तयेत् स्वस्तिकांस्तत्र वीथका पूर्व्ववद्वहिः ।। ३२०.
स्वस्तिकादि विचित्रञ्च सर्व्वकामपदं गुह । पञ्चाब्जं पञ्चहस्तं स्यात् समन्ताद्दशभाजितम् ।। ३२०.
द्विपदं कमलं वीथी पट्टिका दिक्षु पङ्कजम् । चतुष्कं पृष्ठतो वीथी पदिका द्विपदान्यथा ।। ३२०.
कण्ठोपकण्ठयुक्तानि द्वारान्यब्जन्तु मध्यतः । पञ्चाब्जमण्डले ह्यस्मिन् सितं पीतञ्च पूर्व्वकम् ।। ३२०.
वैदूर्य्याभं दक्षिणाब्जं कुन्दाभं वारुणं कजम् । उत्तराब्जन्तु शङ्गाभमन्यत् सर्व्वं विचित्रकम् ।। ३२०.
सर्व्वकामप्रदं वक्ष्ये दशहस्तन्तु मण्डलम् । विकारक्तन्तुर्य्याश्रं द्वारन्तु द्विपदं भवेत् ।। ३२०.
मध्ये पद्मं पूर्व्ववच्च विघ्नध्वंसं वदाम्यथ । चतुर्हस्तं पुरं कृत्वा वृतञ्चैव करद्वयम् ।। ३२०.
वीथिका हस्तमात्रन्तु स्वस्तिकैर्वहुभिर्वृता । हस्तमात्राणि द्वाराणि दिशु वृत्तं सपद्मकम् ।। ३२०.
पद्मानि पञ्च शुक्लानि मध्ये पूज्यश्च निष्कलः । हृदयादीनि पूर्व्वादौ विकदिक्ष्वस्त्राणि वै यजेत् ।। ३२०.
प्राग्वच्च पञ्च ब्रह्माणि बुद्ध्याधारमतो वदे . शतभागो तिथिभागे पद्मं लिङ्गाष्टकं दिशि ।। ३२०.
मे खलाभागसंयुक्तं कण्ठं द्विपदिकं भवेत् । आचार्य्यो बुद्धिमाश्रित्य कल्पयेच्च लतादिकम् ।। ३२०.
चतुःपट्पञ्चमाष्टादि खाछिशाद्यादि मण्डलम् । खाक्षीन्दुसूर्य्यगं सर्वं खाक्षि चैवेन्दुवर्णनात् ।। ३२०.
चत्वारिंशदधिकानि चतुर्द्दशसतानि हि । मण्डलानि हरेःशम्भोर्देव्याः सूर्य्यस्य सन्ति च ।। ३२०.
दशसप्तविभक्ते तु लतालिङ्गोद्भवं श्रृणु । दिक्षु पञ्चत्रयञ्चैकं त्रयं पञ्च च लोमयेत् ।। ३२०.
ऊद्र्ध्वगो द्विपदे लिङ्गमन्दिरं पार्श्वकोष्ठयोः । मध्येन द्विपदं पद्ममथ चैकञ्च पङ्कजं ।। ३२०.
लिङ्गस्य पार्श्वयोर्भद्रेपदद्वारमलोपनात् । तत्पार्श्वशोभाः षड्लोप्य लताः शेषास्तथा हरेः ।। ३२०.
ऊद्र्ध्वं द्विपदिकं लोप्य हरेर्भद्राष्टकं स्मृतम् . रश्मिमानसमायुक्तवेदलोपाच्च शोभिकम् ।। ३२०.
पञ्चविंशतिकं पद्मं ततः पीठमपीठकम् । द्वयं द्वयं रक्षयित्वा उपशोभास्तथाष्ट च ।। ३२०.
देव्यादिख्यापकं भद्रं बृहन्मध्ये परं लघु । मध्ये नवपदं पद्मं कोणे भद्रचतुष्टयम् ।। ३२०.
त्रयोदशपदं शेषं बुद्ध्याधारन्तु मण्हलं । शतपत्रं षष्ट्यधिकं बुद्ध्याधारं हरादिषु ।। ३२०.
ईश्वर उवाच अस्त्रयागः पुरा कार्य्यः सर्वकर्म्मसु सिद्धिदः । मध्ये पूज्यं शिवाद्यस्त्रं वज्रादीन् पूर्वतः क्रमात् ।। ३२१.