पद्मक्षेत्रे तु सूत्राणि दिग्विदिशु विनिक्षिपेत् । वृत्तानि पञ्चकल्पानि पद्मक्षेत्रसमानि तु ।। ३२०.
प्रथमे कर्णिका तत्र पुष्करैर्न्नवभिर्युता । केशराणि चतुर्व्विशद्वितीयेऽथ तृतीयके ।। ३२०.
दलसन्धिर्गजकुम्भनिभान्तर्यद्दलाग्रकम् । पञ्चमे व्योमरूपन्तु संसक्तं कमलं स्मृतं ।। ३२०.
असंसक्ते दलाग्रे तु दिग्भागैर्विस्तराद्भजेत् ।. भागद्वयपरित्यागाद्वस्वंशैर्वर्त्तयेद्दलम् ।। ३२०.
सन्धिविस्तरसूत्रेण तन्मूलादञ्जयेद्दलम् सव्यासव्यक्रमेणैव वृद्धमेतद्भवेत्तथा ।। ३२०.
अथ वा सन्धिमध्यात्तु भ्रामयेदर्द्धचन्द्रवत् । सन्धिद्वयाग्रसूत्रं वा बालपद्मन्तथा भवेत् ।। ३२०.
. सन्धिसूत्रार्द्धमानेन पृष्ठतः परिवर्त्तयेत् । तीक्ष्णाग्रन्तु सुवातेन कमलं भुक्तिमुक्तिदम् ।। ३२०.
मुक्तवृद्धौ च वश्यादौ बालं पद्मं समानकं । नवनाभंनवहस्तं भागैर्म्मन्त्रात्मकैश्च तत् ।। ३२०.
मध्येऽव्जं पट्टिकावीजं द्वारेणाब्जस्य मानतः । कण्ठोपकण्ठमुक्तानि तद्वाह्ये वीथिका मता ।। ३२०.
पञ्चभागान्विता सा तु समन्ताद्दशभागिका । दिग्विदिक्ष्वष्ट पद्मानि द्वारपद्मं सवीथिकम् ।। ३२०.
तद्वाह्ये पञ्च पदिका वीथिका यत्र भूषिता । पद्मवद्द्वारकण्ठन्तु पदिकञ्चौष्ठकण्ठकं ।। ३२०.
कपोलं पदिकं कार्य्यं दिक्षु द्वारत्रयं स्फुटम् । कोणबन्धं त्रिपट्टन्तु द्विपट्टं वज्रवद्भवेत् ।। ३२०.
मध्यन्तु कमलं शुक्लं पीतं रक्तञ्च नीलकम् । पीतशुक्लञ्च धूम्रञ्च रक्तं पीतञ्च मुक्तिदम् ।। ३२०.
पूर्व्वादौ कमलान्यष्ट शिवविष्ण्वादिकंजपेत् . प्रासादमध्यतोऽभ्यर्च्य शक्रादीन्व्जकादिषु ।। ३२०.
अस्त्राणि वाह्यवीथ्यान्तु विष्ण्वादीनश्वमेधभाक् । पवित्रारोहणादौ च महामण्डलमालिखेत् ।। ३२०.
अष्टहस्तं पुरा क्षेत्रं रसपक्षैर्विवर्त्तयेत् । द्विपदं कमलं मध्ये वीथिका पदिका ततः ।। ३२०.
दिग्विदिक्षु ततोऽष्ठै च नीलाब्जानि विवर्त्तयेत् । मध्यपद्मप्रमाणेन त्रिंशत्पद्मानि तानि तु ।। ३२०.
. दलसन्धिविहीनानि नीलेन्दीवरकानि च । तत्पृष्ठे पदिका वीथी स्वस्तिकानि तदूर्द्धतः ।। ३२०.
. द्विपदानि तथा चाष्टौ कृतिभागकृतानि तु . वर्त्तयेत् स्वस्तिकांश्तत्र वीथिका पूर्व्ववद्वहिः ।। ३२०.
द्वाराणि कमलं यद्वदुपकण्ठयुतानि तु । वक्त्तयेत् स्वस्तिकांस्तत्र वीथका पूर्व्ववद्वहिः ।। ३२०.
स्वस्तिकादि विचित्रञ्च सर्व्वकामपदं गुह । पञ्चाब्जं पञ्चहस्तं स्यात् समन्ताद्दशभाजितम् ।। ३२०.
द्विपदं कमलं वीथी पट्टिका दिक्षु पङ्कजम् । चतुष्कं पृष्ठतो वीथी पदिका द्विपदान्यथा ।। ३२०.
कण्ठोपकण्ठयुक्तानि द्वारान्यब्जन्तु मध्यतः । पञ्चाब्जमण्डले ह्यस्मिन् सितं पीतञ्च पूर्व्वकम् ।। ३२०.
वैदूर्य्याभं दक्षिणाब्जं कुन्दाभं वारुणं कजम् । उत्तराब्जन्तु शङ्गाभमन्यत् सर्व्वं विचित्रकम् ।। ३२०.
सर्व्वकामप्रदं वक्ष्ये दशहस्तन्तु मण्डलम् । विकारक्तन्तुर्य्याश्रं द्वारन्तु द्विपदं भवेत् ।। ३२०.
मध्ये पद्मं पूर्व्ववच्च विघ्नध्वंसं वदाम्यथ । चतुर्हस्तं पुरं कृत्वा वृतञ्चैव करद्वयम् ।। ३२०.
वीथिका हस्तमात्रन्तु स्वस्तिकैर्वहुभिर्वृता । हस्तमात्राणि द्वाराणि दिशु वृत्तं सपद्मकम् ।। ३२०.
पद्मानि पञ्च शुक्लानि मध्ये पूज्यश्च निष्कलः । हृदयादीनि पूर्व्वादौ विकदिक्ष्वस्त्राणि वै यजेत् ।। ३२०.
प्राग्वच्च पञ्च ब्रह्माणि बुद्ध्याधारमतो वदे . शतभागो तिथिभागे पद्मं लिङ्गाष्टकं दिशि ।। ३२०.
मे खलाभागसंयुक्तं कण्ठं द्विपदिकं भवेत् । आचार्य्यो बुद्धिमाश्रित्य कल्पयेच्च लतादिकम् ।। ३२०.