नारद उवाच साधकः साधयेन्मन्त्रं देवतायतनादिके। शुद्धभूमौ गृहे प्रार्च्च्य मण्डले हरिमीश्वरम्
चतुरस्त्रीकृते क्षेत्रे मण्डलादीनि वै लिखेत्। रसवाणाक्षिकोष्ठेषु सर्व्वतोबद्रमालिखेत्
षट्त्रिंशत्कोष्ठकैः पद्मं पीठं पङ्क्त्या बहिर्भवेत्। द्वाभ्यान्तु वीथिका तस्माद् द्वाभ्यां द्वाराणि दिक्षु च
वर्त्तु लं भ्रामयित्वा तु पद्मक्षेत्रं पुरोदितम्। पद्मार्द्धे भ्रामयित्वा तु भागं द्वादशमं बहिः
विभज्य भ्रामयेच्छेषं चतुः क्षेत्रन्तु वर्त्तुलम्। प्रथमं कर्णिकाक्षेत्रं केशराणां द्वितीयकम्
तृतीयं दलसन्धीनां दलाग्राणां चतुर्थकम्। प्रसार्य कोणसूत्राणि कोणदिङ्मध्यमन्ततः
निधाय केशराग्रे तु दलसन्धींस्तुलाञ्छयेत्। पातयित्वाथ सूत्राणि तत्र पत्राष्टकं लिखेन
दलस्न्ध्यन्तशलन्तु मानं मध्ये निधाय तु। दलाग्रं भ्रामयेत्तेन तदग्रं तदनन्तरम्
तदन्तरालं तत्पार्श्वे कृत्वा बाह्यक्रमेण च। केशरे तु लिखेद्द्वौ द्वौ दलमध्ये ततः पुनः
पद्मलक्षमैतत् सामान्यं द्विषट्कदलमुच्यते। कर्णिकार्द्धेन मानेन प्राकसंस्थं भ्रामयेत् क्रमात्
तत्पार्श्वे भ्रमयोगेन कुण्डल्यः षड् भवन्ति हि। एवं द्वादश मत्स्याः स्युर्द्विष्ट्कदलकञ्च तैः
पञ्चपत्राभिसिद्ध्यर्थं द्विद्विकान्यपराणि तु। चतुर्दिक्षु विलिप्तानि गात्रकाणि भवन्त्युत
त्रीणि कोणेषु पादार्थं द्विद्विकान्यपराणि तु। चतुर्दिक्षु विलिप्तानि गात्रकाणि भवन्त्युत
ततः पङ्क्तिद्वयं दिक्षु वीथ्यर्थन्तु विलोपयेत् । द्वाराण्याशासु कुर्वीत चत्वारि चतसृष्वपि
द्वाराणां पार्श्वतः शोभा अष्टौ कुर्याद्विचक्षणः। तत्पार्श्व उपशोभास्तु तावत्यः परिकीत्तिताः
समीप उपशोभानां कोणास्तु परिकीर्त्तिताः। चतुर्दिक्षु ततो द्वे द्वे चिन्तयेन्मध्यकोष्ठकैः
चत्वारिबाह्यतो मृज्यादेकैकं पार्श्वयोरपि। शोभार्थं पार्श्वयोस्त्रीणि त्रीणि लुम्पेद्दलस्य तु
तद्वद्विपर्यये कुर्य्यादुपशोभां ततः परम्। कोणस्यान्तर्बहिस्त्रीणि चिन्तयेद्द्विर्विभेदतः
एवं षोडशकोष्ठं स्यादेवप्तन्यत्तु मण्डलम्। द्विषट्कभागे षट्त्रिंशत्पदं पद्मन्तु वीथिका
एका पङ्क्तिः पराभ्यां तु द्वारशोभादि पूर्ववत्। द्वादशाङ्गुलिभिः मद्ममेकहस्ते तु मण्डले
द्विहस्ते हस्तमात्रं स्याद्वृद्ध्या द्वारेण वाचरेत्। अपीठञ्चतुरस्त्रं स्याद्विकरञ्चक्रपङ्कजम्
पद्मार्द्धं नवभिः प्रोक्तं नाभिस्तु तिसृभिः स्मृता। अष्टाभिर्द्वारकान् कुर्य्यान्नेमिन्तु चतुरङ्गुलैः
त्रिधा विभज्य च क्षेत्रमन्तर्द्वाभ्यामथाङ्कयेत्। वञ्चान्तस्वरसिद्ध्यर्थं तष्वास्फाल्य लिखदरान्
इन्दीवरदलाकारानथवा मातुलाङ्गवत्। पद्मपत्रायतान्वापि लिखेदिच्छानुरूपतः
भ्रामयित्वा बहिर्न्नेमावरसन्ध्यन्तरे स्थितः। भ्रामयेदरमूलन्तु सन्धिमध्ये व्यवस्थितः
अरमध्ये स्थितो मद्यमरणिं भ्रामयेत् समम्। एवं सिद्ध्यन्तराः सम्यक् मातुलाङ्गनिभाः समाः
विभज्य सप्तधा क्षेत्रं चतुर्द्दशकरं समम्। द्विधा कृते शतं ह्यत्र षण्नवत्यधिकानि तु
कोष्ठकानि चतुर्भिस्तैर्म्मध्ये भद्रं समालिखेत्। परितो विसृजेद्वीथ्यै तथा दिक्षु समालिखेत्
कमलानि पुनर्वीथ्यै परितः परिमृज्य तु। द्वे द्वे मध्यमकोष्ठे तु ग्रीवार्थं दिक्षु लोपयेत्
चत्वारि बाह्यतः पश्चात्त्रीणि त्रीणि तु लोपयेत्। ग्रीवापार्श्वे बहिस्त्वेका शोभा सा परिकीर्त्तिता