नरसिंहं कृतान्तस्थं तेजस्विग्राणमूर्द्धगम् । अंशुमानूहकाक्रान्तमधोर्द्धं स्वसलङ्घृतम् ।। ३१८.
चन्द्रार्द्धनादनादानतं ब्रह्मविष्णुविभूषितम् । उदधिं नरसिंहञ्च सूर्य्यमात्राविभेदितम् ।। ३१८.
यदा कृतं तदा तस्य ब्रह्माण्यङ्गानि पूर्व्ववत् । ओजाख्यमंशुमद्युक्तं प्रथमं वर्णमुद्धरेत् ।। ३१८.
अंशुमच्चांशुनाक्रान्तंक द्वितीयं वर्णनायकम् । अंशुमानीश्चरन्तद्वत् तृतीयं मुक्तिदायकम् ।। ३१८.
ऊहकञ्चांशुनाक्रान्तं वरुणप्राणतैजसम् । पद्ममिन्दुसमाक्रान्तं नन्दीशमेकपादधृक् ।। ३१८.
अंशुमानुदकप्राणः सप्तमं वर्णमुद्धृतम् । अस्यार्द्धं तृतीयञ्चैव पञ्चमं सप्तमं तथा ।। ३१८.
प्रथमञ्चान्ततो योज्यं क्षपणं दशवीजकम् । अस्यार्द्धंतृतीयञ्चैव पञ्चैमं सप्तमं तथा ।। ३१८.
सद्योजातन्तु नवमं द्वितीयाद्धृदयादिकम् । दशार्णप्रणवं यत्तु फडन्तञ्चास्त्रमुद्धरेत् ।। ३१८.
नमस्कारयुतान्यत्र ब्रह्माङ्गानि तु नान्यथा । द्वितीयादष्टमं यावदष्टौ विद्येश्वरा मताः ।। ३१८.
अनन्तेशश्च सूक्षमश्च तृतीयश्च शिवोत्तमः । एकमूर्त्त्येकरूपस्तु त्रिमूर्त्तिरपस्तथा ।। ३१८.
श्रीकण्ठश्च शिखण्डी च अष्टौ वद्येश्वराः स्मृताः । शिखिण्डिनोऽप्यनन्तान्तं मन्त्रान्तं मूर्त्तिरीरीता ।। ३१८.
ईश्वर उवाच वागीश्वरीपूजनञ्च प्रवदामि समण्डलम् । ऊहकं कालसंयुक्तं मनुं वर्णसमायुतम्।। ३१९.
निषाद ईश्वरं कार्य्यं मनुना चन्द्रसूर्यवत् । अक्षरन्न हिदेयं स्यात् ध्यायेत् कुन्देन्दुसन्निभां ।। ३१९.
पञ्चाशद्वर्णमालान्तु मुक्तास्रग्दामभूषिताम् । वरदाभयाक्षसूत्रपुस्तकाढ्यां त्रिलोचनां ।। ३१९.
लक्षं जपेन्मस्तकान्तं स्कन्धान्तं वर्णमालिकां । अकारादिक्षकारान्तां विशन्तीं मानवत् स्मरेत् ।। ३१९.
कुर्य्याद् गुरुश्च दीक्षार्थं मन्त्रग्राहे तु मण्डलम् । सूर्य्याग्रमिन्दुभक्तन्तु भागाभ्यां कमलं हितं ।। ३१९.
वीथिका पदिका कार्य्या पद्मान्यष्टौ चतुष्पदे । वीथिका पदिका वाह्ये द्वाराणि द्विपदानि तु ।। ३१९.
उपद्वाराणि तद्वच्च कोणवान्धं द्विपट्टिकम् । सितानि नव पद्मानि कर्णिका कनकप्रभा ।। ३१९.
केशराणि विचित्राणि कोणात्रक्तेन पूरयेत् । व्योमरेखान्तरं कृष्णं द्वाराणीन्द्रेभमानतः ।। ३१९.
मध्ये सरस्वतीं पद्मेवागीशी पूर्व्वपद्मके । हृत्लेखा चित्रवागीशी गायत्री विश्वरुपया ।। ३१९.
शाङ्करी मतिर्धुतिश्च पूर्व्वाद्या ह्रीँ स्ववीजकाः । ध्येया सरस्वतीवच्च कपिलाज्येन होमकः । संस्कृतप्राकृतकविः काव्यशास्त्रादिविद्भवेत् ।। ३१९.
सर्व्वतो भद्रकान्यष्टमण्डलानि वदे गुह । शक्तिमासाधयेत् प्राचीमिष्टायां विषुवे सुधीः ।। ३२०.
चित्रास्वात्यन्तरेणाथ दृष्टसूत्रेण वा पुनः । पूर्व्वापरायतं सूत्रमास्फाल्य मद्यतोऽङ्कयेत् ।। ३२०.
कोटचिद्वयन्तु तन्मध्यादङ्कयेद्दक्षिणोत्तरम् । मध्ये द्वयं प्रकर्त्तव्यं स्फालयेद्दक्षिणोत्तरम् ।। ३२०.
शतक्षेत्रार्द्धमानेन कोणसम्पातमादिशेत् । एवं सूत्रचतुष्कस्य स्फालनाच्चतुरस्रकम् ।। ३२०.
जायते तत्र कर्त्तव्यं भद्रस्वेदकरं शुभम् । वसुभक्तेन्दुद्विपदे क्षेत्रे वीथी च भागिका ।। ३२०.
द्वारं द्विपदिकं पद्ममानाद्वै सकपोलकम् । कोणबन्धविवित्त्रन्तु द्विपदं तत्र वर्त्तयेत् ।। ३२०.
शुक्लं पद्मं कर्णिका तु पीता चित्रन्तु केशरम्। रक्ता वीथी तत्र कल्प्या द्वारं लोकेशरूपकं ।। ३२०.
रक्तकोणं विधौ नित्ये नैमित्तिकेऽव्जकं श्रृणु । असंसक्तन्तु संसक्तं द्विधाव्जं भुक्तिमुक्तिकृत् ।। ३२०.
असंसक्तं सुमुक्षूणां संसक्तं तत्त्रिधा पृथक् । बालो युवा च वृद्धश्च नामतः फलसिद्धिदाः ।। ३२०.