अस्त्रं शशी समाख्यातं शिवसंज्ञं शिखिध्वजः । नमः स्वाहा तथा वौषट् ह्रँ च फट्कक्रमेण तु ।। ३१८.
जातिफट्कं हृदादीनां प्रासादं मन्त्रमावदे । ईशानाद्रुद्रसंख्यातं प्रोद्धरेच्चांशुरञ्चितम् ।। ३१८.
औषधाक्रान्तशिरसमूहकस्योपरिस्थितं । अर्द्धचन्द्रोर्द्धनादश्च विन्दुद्वितयमध्यगं ।। ३१८.
तदन्ते विश्वरूपन्तु कृटिलन्तु त्रिधा ततः । एवं प्रासादमन्त्रश्च सर्व्वकर्म्मकरो मनुः ।। ३१८.
शिखाबीजं समुद्धृत्य फट्कारान्तन्तु चैव फट् । अर्द्धचन्द्रासनं ज्ञेयं कामदेवं ससर्पकम् ।। ३१८.
महापाशुपतास्त्रन्तु सर्व्वदुष्टप्रमर्द्दनम् । प्रासादः सकलः प्रोक्तो निष्कलः प्रोच्यते ऽधुना ।। ३१८.
औषधं विश्वरूपन्तु रुद्राख्यं सूर्य्यमण्डलम् । चन्द्रार्द्धं नादसंयोगं विसंज्ञं कुटिलन्ततः ।। ३१८.
निष्कलोभुक्तिमुक्तौ स्यात्पञ्चाङ्गोऽयं सदाशिवः । अंशुमान् विस्वरुपञ्च आवृतं शून्यरञ्जितम् ।। ३१८.
ब्रह्माङ्गरहितः शून्यस्तस्य मूर्त्तिरसस्तरुः । विघ्ननाशाय भवति पूजितो बालबालिसैः ।। ३१८.
अंशुमान् विश्वरूपाख्यमूहकस्योपरि स्थितम् । कलाढ्यं सकलस्यैव पूजाङ्गादि च सर्व्वतः ।। ३१८.
नरसिंहं कृतान्तस्थं तेजस्विग्राणमूर्द्धगम् । अंशुमानूहकाक्रान्तमधोर्द्धं स्वसलङ्घृतम् ।। ३१८.
चन्द्रार्द्धनादनादानतं ब्रह्मविष्णुविभूषितम् । उदधिं नरसिंहञ्च सूर्य्यमात्राविभेदितम् ।। ३१८.
यदा कृतं तदा तस्य ब्रह्माण्यङ्गानि पूर्व्ववत् । ओजाख्यमंशुमद्युक्तं प्रथमं वर्णमुद्धरेत् ।। ३१८.
अंशुमच्चांशुनाक्रान्तंक द्वितीयं वर्णनायकम् । अंशुमानीश्चरन्तद्वत् तृतीयं मुक्तिदायकम् ।। ३१८.
ऊहकञ्चांशुनाक्रान्तं वरुणप्राणतैजसम् । पद्ममिन्दुसमाक्रान्तं नन्दीशमेकपादधृक् ।। ३१८.
अंशुमानुदकप्राणः सप्तमं वर्णमुद्धृतम् । अस्यार्द्धं तृतीयञ्चैव पञ्चमं सप्तमं तथा ।। ३१८.
प्रथमञ्चान्ततो योज्यं क्षपणं दशवीजकम् । अस्यार्द्धंतृतीयञ्चैव पञ्चैमं सप्तमं तथा ।। ३१८.
सद्योजातन्तु नवमं द्वितीयाद्धृदयादिकम् । दशार्णप्रणवं यत्तु फडन्तञ्चास्त्रमुद्धरेत् ।। ३१८.
नमस्कारयुतान्यत्र ब्रह्माङ्गानि तु नान्यथा । द्वितीयादष्टमं यावदष्टौ विद्येश्वरा मताः ।। ३१८.
अनन्तेशश्च सूक्षमश्च तृतीयश्च शिवोत्तमः । एकमूर्त्त्येकरूपस्तु त्रिमूर्त्तिरपस्तथा ।। ३१८.
श्रीकण्ठश्च शिखण्डी च अष्टौ वद्येश्वराः स्मृताः । शिखिण्डिनोऽप्यनन्तान्तं मन्त्रान्तं मूर्त्तिरीरीता ।। ३१८.
ईश्वर उवाच वागीश्वरीपूजनञ्च प्रवदामि समण्डलम् । ऊहकं कालसंयुक्तं मनुं वर्णसमायुतम्।। ३१९.
निषाद ईश्वरं कार्य्यं मनुना चन्द्रसूर्यवत् । अक्षरन्न हिदेयं स्यात् ध्यायेत् कुन्देन्दुसन्निभां ।। ३१९.
पञ्चाशद्वर्णमालान्तु मुक्तास्रग्दामभूषिताम् । वरदाभयाक्षसूत्रपुस्तकाढ्यां त्रिलोचनां ।। ३१९.
लक्षं जपेन्मस्तकान्तं स्कन्धान्तं वर्णमालिकां । अकारादिक्षकारान्तां विशन्तीं मानवत् स्मरेत् ।। ३१९.
कुर्य्याद् गुरुश्च दीक्षार्थं मन्त्रग्राहे तु मण्डलम् । सूर्य्याग्रमिन्दुभक्तन्तु भागाभ्यां कमलं हितं ।। ३१९.
वीथिका पदिका कार्य्या पद्मान्यष्टौ चतुष्पदे । वीथिका पदिका वाह्ये द्वाराणि द्विपदानि तु ।। ३१९.
उपद्वाराणि तद्वच्च कोणवान्धं द्विपट्टिकम् । सितानि नव पद्मानि कर्णिका कनकप्रभा ।। ३१९.
केशराणि विचित्राणि कोणात्रक्तेन पूरयेत् । व्योमरेखान्तरं कृष्णं द्वाराणीन्द्रेभमानतः ।। ३१९.
मध्ये सरस्वतीं पद्मेवागीशी पूर्व्वपद्मके । हृत्लेखा चित्रवागीशी गायत्री विश्वरुपया ।। ३१९.