चुर्णीकृत्य क्षिपेत्तैले तदभ्यङ्गश्च कुष्ठकृत् । ओं नवग्रहाय सर्त्र्वशत्रून् मम साधय मारय आं सों मं वुं चुं ओं शं वां कें ओं स्वाहा । अनेनार्क्कशतैरर्च्य श्मशाने तु निधापयेत् ।। ३१५.
भूर्ज्जे वा प्रतिमायां वा मारणाय रिपोर्ग्रहाः । ओं कुञ्जरी ब्रह्माणी । ओं मञ्जरी माहेश्वरी ।। ओं वेताली कौमारी ओं काली वैष्णवी । ओं अघोरा वारही । ओं वेताली इन्द्राणी उर्व्वशी । ओं जयानी यक्षिणी । नवमातरो हे मम शत्रु गृह्णत । भूर्ज्जे नाम रिपोर्लिख्य श्मशाने पूजिते म्रियेत् ।। ३१५.
अग्निरुवाच आदौ हूँकारसंयुक्ताः खेचछे पदभूषिता । वर्गातीतविसर्गेण स्त्रीँ हूँक्षेपफड़न्तिक्रा ।। ३१६.
सर्व्वकर्म्मकरी विद्या विषसन्धादिमर्द्दनी । ओं क्षेचछेतिप्रयोगश्च कालदष्टस्य जीवने ।। ३१६.
ओं हूँ केक्षः प्रयोगोयं विषशत्रुप्रमर्द्दनः । स्त्रीं हूँ फडितियोगोयं पापरोगादिकं जयेत् ।। ३१६.
खेछेति च प्रयोगोऽय विघ्नदुष्टादि वारयेत् । ह्रुँ स्त्रीँ ओमितियोगोऽयं योषिदाविवशीकरः ।। ३१६.
खे स्त्रीँ खे च प्रयोगोऽयं वशाय विजयाय च । एँ ह्रीँ श्रीँ स्फँ कैँ क्षौँ भगवति अम्बिके कुब्जिके स्फँ ओं भं तं वशनमो अवोराय मुखे व्राँ व्रीँ किलि किलि विच्चा स्फीँ हे स्फँ श्रईँ ह्रीँ ऐण श्रीमिति कुब्जिकाविद्या सर्व्वकरा स्मृता ३१६.
ईश्वर उवाच सकलं निष्कलं शून्यं कलाढयं स्वमलङ्कृतम् । क्षपणं क्षयमन्तस्थं कण्ठोष्ठं चाष्टमं शिवम् ।। ३१७.
प्रासादस्य१ पराख्यस्य स्मृतं रुपं गुहाष्टधा । सदाशिवश्य शब्दस्य रूपस्याखिलसिद्धये ।। ३१७.
अमृतश्चांशुमांश्चेन्दुश्चेश्वरश्चोग्र ऊहकः । एकपादेन ओजाख्य औषधश्चांशुमान् वशी ।। ३१७.
अकारादेः क्षकारश्च ककारादेः क्रमादिमे । कामदेवः शिखण्डी च गणेशः कालशङ्करौ ।। ३१७.
एकनेत्रो द्विनेत्रश्च त्रिशिखो दीर्घबाहुकः । एकपादर्द्धचन्द्रश्च वलपो योगिनीप्रियः ।। ३१७.
शक्तीश्वरो महाग्रन्धिस्तर्पकः स्थाणुदन्तुरौ । निधीरो नन्दी पद्मश्च तथान्यः शाकिनीप्रियः ।। ३१७.
मुखविम्वो भीषणश्च कृतान्तः प्राणसंज्ञकः । तेजस्वी शक्र उदधिः श्रीकण्ठः सिंह एव च ।। ३१७.
शशङ्गो विश्वरूपश्च क्षश्च स्यान्नरसिहकः । सुर्य्यमात्रासमाक्रान्तं विश्वरूपन्तु कारयेत् ।। ३१८.
अंशुमत्संयुतं कृत्वा शशिवीजं विनायुतम् । ईशानमोजसाक्रान्तं प्रथमन्तु समुद्धरेत् ।। ३१८.
. तृतीयं पुरुषं विद्धि दक्षिणं पञ्चमं तथा । सप्तमं वामदेवन्तु सद्योजातन्ततः परं ।। ३१८.
रसयुक्तन्तु नवमं ब्रह्मपञ्चकमीरितम् । ओंकाराद्याश्चतुर्थ्यन्ता नमोन्ताः सर्व्वमन्त्रकाः ।। ३१८.
सद्योदेवा द्वितीयन्तु हृदयञ्चाङ्गसंयुतम् । चतुर्थन्तु शिरो विद्धि ईश्वरन्नामनामतः ।। ३१८.
ऊहकन्तु शिखा ज्ञेया विश्वरूपसमन्विता । तन्मन्त्रमष्टमं ख्यातं नेत्रन्तु दशमं मतम् ।। ३१८.
अस्त्रं शशी समाख्यातं शिवसंज्ञं शिखिध्वजः । नमः स्वाहा तथा वौषट् ह्रँ च फट्कक्रमेण तु ।। ३१८.
जातिफट्कं हृदादीनां प्रासादं मन्त्रमावदे । ईशानाद्रुद्रसंख्यातं प्रोद्धरेच्चांशुरञ्चितम् ।। ३१८.
औषधाक्रान्तशिरसमूहकस्योपरिस्थितं । अर्द्धचन्द्रोर्द्धनादश्च विन्दुद्वितयमध्यगं ।। ३१८.
तदन्ते विश्वरूपन्तु कृटिलन्तु त्रिधा ततः । एवं प्रासादमन्त्रश्च सर्व्वकर्म्मकरो मनुः ।। ३१८.
शिखाबीजं समुद्धृत्य फट्कारान्तन्तु चैव फट् । अर्द्धचन्द्रासनं ज्ञेयं कामदेवं ससर्पकम् ।। ३१८.
महापाशुपतास्त्रन्तु सर्व्वदुष्टप्रमर्द्दनम् । प्रासादः सकलः प्रोक्तो निष्कलः प्रोच्यते ऽधुना ।। ३१८.
औषधं विश्वरूपन्तु रुद्राख्यं सूर्य्यमण्डलम् । चन्द्रार्द्धं नादसंयोगं विसंज्ञं कुटिलन्ततः ।। ३१८.
निष्कलोभुक्तिमुक्तौ स्यात्पञ्चाङ्गोऽयं सदाशिवः । अंशुमान् विस्वरुपञ्च आवृतं शून्यरञ्जितम् ।। ३१८.
ब्रह्माङ्गरहितः शून्यस्तस्य मूर्त्तिरसस्तरुः । विघ्ननाशाय भवति पूजितो बालबालिसैः ।। ३१८.
अंशुमान् विश्वरूपाख्यमूहकस्योपरि स्थितम् । कलाढ्यं सकलस्यैव पूजाङ्गादि च सर्व्वतः ।। ३१८.