माया लीला लाली यामा याज्ञे ज्ञेया नौसा । यत्र ज्ञेया वरिः शीघ्रा दिक्षुरं कलसं वहिः ।। ३१४.
पद्मस्थं पद्मचक्रञ्च भृत्युजित् स्वर्गगन्धृति । शान्तीनां परमा शान्तिः सौभाग्यादिप्रदायकम् ।। ३१४.
रुद्रेरुद्रसमाः कार्य्याः कोष्ठकास्तत्र ता लिखेत् । ओमाद्याह्रूँ फडन्ता च आदिवर्णमयानुतः ।। ३१४.
विद्यावर्णक्रमेनैव संज्ञाञ्च वषडन्तिकां । अधस्थात् प्रत्यङ्गिरैषा सर्व्वकामार्थसाधिका ।। ३१४.
एकाशीतिपदे सर्व्वामादिवर्णक्रमेण तु । आदिमं यावदन्तं स्याद्वषडन्तञ्च नाम वै ।। ३१४.
एषा प्रत्यङ्गिरा चान्या सर्व्वकार्य्यादिसाधनी । निग्रहानुग्रहञ्चकञ्चतुः पष्टिपदैर्लिखेत् ।। ३१४.
अमृती सा च विद्या च क्रीं सःक हूँ नामाथ मध्यतः । फट्काराद्यां पत्रगतां त्रिहीँकारेण वेष्टयेत् ।। ३१४.
कुम्भवद्धारिता सर्व्वशत्रुहृत् सर्व्वदायिता । विषन्नश्येत् कर्णजपादक्षराद्यैश्च दण्डकैः ।। ३१४.
अग्निरुवाच स्तम्भनं मोहनं वश्यं विद्वेषोच्चाटनं वदे । विचषव्याधिमरोगञ्च मारणं शमनं पुनः ।। ३१५.
भूर्ज्जे कूर्म्मं समालिख्य नाड़नेन षडङ्गुलम् । मुखपादचतुष्केषु ततो मन्त्रं न्यसेद्द्विजः ।। ३१५.
चतुष्पादेषु क्रीँकारं ह्रीँकारं मुखमध्यतः । गर्भे विद्यां ततो लिख्य साधकं पृष्ठतो लिखेत् ।। ३१५.
मालामन्त्रैस्तु संवेट्य इष्टकोपरि सन्न्यसेत् । पिधाय कूर्म्मपृष्ठेन करालेनाभिसम्पठेत् ।। ३१५.
महाकूर्म्मं पूजयित्वा पादप्रोक्षन्तु निक्षइपेत् । ताडयेद्वामपादेन स्मृत्वा शत्रुञ्च सप्तधा ।। ३१५.
ततः सञ्जायते शत्रोस्तम्भनं मुखरागतः । कृत्वा तु भैरवं रूपं मालामन्त्रं समालिखेत् ।। ३१५.
ओं शत्रुमुखस्तम्भनी कामरूपा आलीढक्करी ।। ह्रीं फें फेत्कारिणी मम शत्रूणां देवदत्तानां मुखं स्तम्भय मम सर्व्वविद्वेषिणां मुखस्तम्भनं कुरु ओं हूँ फेँ फेत्कारिणि स्वाहा । फट् हेतुञ्च समालिख्य तज्जपान्तं महाबलं । वामेनैव नगं शूलं संलिखेद्दक्षिणे करे ।। ३१५.
लिखेन्मन्त्रमघोरस्य संग्रामे स्तम्भयेदरीन् । ओं नमो भगवत्यै भगमालिनि निस्फुर स्पन्द नित्यक्लिन्ने द्रव हूँ सः क्रीँ काराक्षरे स्वाहा ३१५.
ओं फेँ हूँ फट् फेत्कारिणि ह्रीँ ज्वल त्रैलोक्यं मोहय गुह्यकालिके स्वाहा । अनेन तिलकं कृत्वा राजादीनां वशीकरं । गर्द्धभस्य रजो गृह्य कुसुमं सूतकस्य च ।। ३१५.
नीरीरजः क्षिपेद्रात्रौ शय्यादौ द्वेषकृद्भवेत् । गोखुरञ्च तथा श्रृङ्गमश्वस्य च खुरं तथा ।। ३१५.
शिरः सर्पस्य संक्षिप्तं गृहेपूच्चाटनं भवेत् । करवीरशिफा पीता ससिद्दार्था च मारणे ।। ३१५.
व्यालछुच्छुन्दरीरक्तं करवीरं तदर्थकृत् । सरटं षट्पदञ्चापि तथा कर्क्कटवृश्चिकम् ।। ३१५.
चुर्णीकृत्य क्षिपेत्तैले तदभ्यङ्गश्च कुष्ठकृत् । ओं नवग्रहाय सर्त्र्वशत्रून् मम साधय मारय आं सों मं वुं चुं ओं शं वां कें ओं स्वाहा । अनेनार्क्कशतैरर्च्य श्मशाने तु निधापयेत् ।। ३१५.
भूर्ज्जे वा प्रतिमायां वा मारणाय रिपोर्ग्रहाः । ओं कुञ्जरी ब्रह्माणी । ओं मञ्जरी माहेश्वरी ।। ओं वेताली कौमारी ओं काली वैष्णवी । ओं अघोरा वारही । ओं वेताली इन्द्राणी उर्व्वशी । ओं जयानी यक्षिणी । नवमातरो हे मम शत्रु गृह्णत । भूर्ज्जे नाम रिपोर्लिख्य श्मशाने पूजिते म्रियेत् ।। ३१५.
अग्निरुवाच आदौ हूँकारसंयुक्ताः खेचछे पदभूषिता । वर्गातीतविसर्गेण स्त्रीँ हूँक्षेपफड़न्तिक्रा ।। ३१६.
सर्व्वकर्म्मकरी विद्या विषसन्धादिमर्द्दनी । ओं क्षेचछेतिप्रयोगश्च कालदष्टस्य जीवने ।। ३१६.
ओं हूँ केक्षः प्रयोगोयं विषशत्रुप्रमर्द्दनः । स्त्रीं हूँ फडितियोगोयं पापरोगादिकं जयेत् ।। ३१६.
खेछेति च प्रयोगोऽय विघ्नदुष्टादि वारयेत् । ह्रुँ स्त्रीँ ओमितियोगोऽयं योषिदाविवशीकरः ।। ३१६.
खे स्त्रीँ खे च प्रयोगोऽयं वशाय विजयाय च । एँ ह्रीँ श्रीँ स्फँ कैँ क्षौँ भगवति अम्बिके कुब्जिके स्फँ ओं भं तं वशनमो अवोराय मुखे व्राँ व्रीँ किलि किलि विच्चा स्फीँ हे स्फँ श्रईँ ह्रीँ ऐण श्रीमिति कुब्जिकाविद्या सर्व्वकरा स्मृता ३१६.
ईश्वर उवाच सकलं निष्कलं शून्यं कलाढयं स्वमलङ्कृतम् । क्षपणं क्षयमन्तस्थं कण्ठोष्ठं चाष्टमं शिवम् ।। ३१७.
प्रासादस्य१ पराख्यस्य स्मृतं रुपं गुहाष्टधा । सदाशिवश्य शब्दस्य रूपस्याखिलसिद्धये ।। ३१७.
अमृतश्चांशुमांश्चेन्दुश्चेश्वरश्चोग्र ऊहकः । एकपादेन ओजाख्य औषधश्चांशुमान् वशी ।। ३१७.