ओं ह्रीँ छँ नित्यक्लिन्ने मदद्रवे ओं ओं । मूलमन्त्रः षडङ्गोयं रक्तवर्णे त्रिकोणके । द्रावणी ह्लादकारिणी क्षोभिणी गुरुशक्तिका ।। ३१३.
ईशानादौ च मध्ये तां नित्यां पाशाङ्कुशौ तथा । कपालकल्पकतरुं वीणा रक्ता च तद्वती ।। ३१३.
नित्याभया मङ्गला च नववीरा च मङ्गला । दुर्भगा मनोन्मनी पूज्या द्रावा पूर्व्वादितः स्थिता ।। ३१३.
ओं ह्रीँ अनङ्गाय नमः ओं ह्रीँ ह्रीँ स्मराय नमः । मन्मथाय च माराय कामायैवञ्च पञ्चधा । कामाः पाशाङ्गुशौ चापवाणाः ध्येयाश्च विभ्रतः ।। ३१३.
रतिश्च विरतिः प्रीतिर्विप्रीतिश्च मतिर्धृतिः । विधृतिः पुष्टिरेभिश्च क्रमात् कामादिकैर्युताः ।। ३१३.
ओं छँ नित्यक्लिन्ने मदद्रवे ओं ओं । अ आ इ ई उ उ ऋ लृ लॄ ए ऐ ओ औ अं अः । क ख ग घ ङ च छ ज झ ञ ट ठ ड ढ ण त थ द ध न प फ ब भ म य र ल व श ष स ह क्ष । ओं छँ नित्यक्लिन्ने मदद्रवे स्वाहा । आधारशक्तिं पद्मञ्च सिंहे देवीं हृदादिषु ।। ३१३.
अग्निरुवाच ओं ह्रीं ह्रँ खे छे क्षः स्त्रीँ ह्रूँ क्षे ह्रीं फट् । त्वरितां पूजयेन्नयस्य द्विभुजाञ्चाष्टवाहुकां । आधारशक्तिं पद्मञ्च सिंहे देवीं हृदादिकम् ष ।। ३१४.
पूर्व्वादौ गायत्रीं यजेन्मण्डले वै प्रणीतया । हुंकारां खेचरीं चण्डांछेदनीं क्षेपणीं स्त्रियाः ।। ३१४.
हुंकारां क्षएगकारीञ्च फट्कारीं मध्यतो यजेत् । जयाञ्च विजयां द्वारि किङ्करञ्च तदग्रतः ।। ३१४.
तिलैर्होमैश्च सर्व्वाप्त्यै नामव्याहृतिभिस्तथा । अनन्ताय नमः स्वाहा कुलिकाय नमः स्वधा ।। ३१४.
स्वाहा वासुकिराजाय शङ्खपालाय वौषट् । तक्षकाय वषन्नित्यं महापद्माय वै नमः ।। ३१४.
स्वाहा कर्कोटनागाय फट् पद्माय च वै नमः । लिखेन्निग्रहचक्रन्तु एकाशातिपदैर्न्नरः ।। ३१४.
वस्त्रे पटे तरौ भूर्ज्जे शिलायां यष्टिकासु च । मध्ये कोष्ठे साध्यनाम पूर्व्वादौ पट्टिकासु च ।। ३१४ ऐसादावम्बुपादौ च यमराज्यञ्च वाह्यतः । कालीनांरवमाली कालीनामाक्षमालिनी ।। ३१४.
मामोदतत्तदोमोमा रक्षत स्वस्व भक्षणा । यमपाटटयामय मटमो टट मोटमा ।। ३१४.
वामो भूरिविभूसेया टट रीश्व श्वरी टट । यमराजाद्वाह्यतो वं तं तोयं मारणात्मकम् ।। ३१४.
कज्जलं निम्बनिर्य्यासमज्जासृग्विषसंयुतम् । काकपक्षस्य लेखन्या श्मशाने वा चतुष्पथे ।। ३१४.
निधापयेत् कुम्भाधस्ताद्वल्मीके वाथ निक्षिपेत् । काफपक्षकस्य लेखन्या श्मशाने वा यतुष्पथे ।। ३१४.
लिखेच्चानुग्रहञ्चक्रं शुक्लपत्रेऽथ भूर्ज्जंके । लाक्षया कुङ्कुमेनाथ स्फटिकाचन्दनेन वा ।। ३१४.
भुवि भिक्तौ पूर्व्वदले१ नाम मध्यमकोष्ठके । खण्डे तु वारिमध्यस्थं ओं हंसौ वापि पट्टिशम् ।। ३१४.
लक्ष्मीश्लोकं शिबादौ च राक्षसादिक्रमाल्लिखेत् । श्रीःसाममोमा सा श्रीः सानौ याज्ञे ज्ञेया नौसा ।। ३१४.
माया लीला लाली यामा याज्ञे ज्ञेया नौसा । यत्र ज्ञेया वरिः शीघ्रा दिक्षुरं कलसं वहिः ।। ३१४.
पद्मस्थं पद्मचक्रञ्च भृत्युजित् स्वर्गगन्धृति । शान्तीनां परमा शान्तिः सौभाग्यादिप्रदायकम् ।। ३१४.
रुद्रेरुद्रसमाः कार्य्याः कोष्ठकास्तत्र ता लिखेत् । ओमाद्याह्रूँ फडन्ता च आदिवर्णमयानुतः ।। ३१४.
विद्यावर्णक्रमेनैव संज्ञाञ्च वषडन्तिकां । अधस्थात् प्रत्यङ्गिरैषा सर्व्वकामार्थसाधिका ।। ३१४.
एकाशीतिपदे सर्व्वामादिवर्णक्रमेण तु । आदिमं यावदन्तं स्याद्वषडन्तञ्च नाम वै ।। ३१४.
एषा प्रत्यङ्गिरा चान्या सर्व्वकार्य्यादिसाधनी । निग्रहानुग्रहञ्चकञ्चतुः पष्टिपदैर्लिखेत् ।। ३१४.
अमृती सा च विद्या च क्रीं सःक हूँ नामाथ मध्यतः । फट्काराद्यां पत्रगतां त्रिहीँकारेण वेष्टयेत् ।। ३१४.
कुम्भवद्धारिता सर्व्वशत्रुहृत् सर्व्वदायिता । विषन्नश्येत् कर्णजपादक्षराद्यैश्च दण्डकैः ।। ३१४.
अग्निरुवाच स्तम्भनं मोहनं वश्यं विद्वेषोच्चाटनं वदे । विचषव्याधिमरोगञ्च मारणं शमनं पुनः ।। ३१५.
भूर्ज्जे कूर्म्मं समालिख्य नाड़नेन षडङ्गुलम् । मुखपादचतुष्केषु ततो मन्त्रं न्यसेद्द्विजः ।। ३१५.