गजवक्त्राय कवचं चहूँ फडन्तं तथाष्टकं । महोदरो दण्डहस्तः पूर्व्वादौ मध्यतो यजेत् ।। ३१३.
जयो गणाधिपो गणनायकोऽथ गणेश्वरः । वक्रतुण्ड एकदन्तोत्कटलम्बोदरो गज ।। ३१३.
वक्त्रो विकटाननोऽथ हूँ पूर्व्वो विघ्ननाशनः । धूम्रवर्णो महेन्द्राद्यो वाह्ये विघ्नेशपूदनम् ।। ३१३.
त्रिपुरापूजनं वक्ष्ये असिताङ्गो रुरुस्तथा । चण्डः क्रोधस्तथोन्मत्तः कपाली भीषणः क्रमात् ।। ३१३.
संहारो भैरवो ब्राह्मीमुख्या ह्रस्वास्तु भैरवाः । ब्रह्माणीषण्मुखा दीर्घा अग्न्यादौ वटुकाः क्रमात् ।। ३१३.
समयपुत्रो वटुको योगिनीपुत्रकस्तथा । सिद्धपुत्रश्च वटुकः कुलपुत्रश्चतुर्थकः ।। ३१३.
हेतुकः क्षेत्रपालश्च त्रिपुरान्तो द्वितीयकः । अग्निवेतालोऽग्निजिह्वः कराली काललोचनः ।। ३१३.
एकपादश्च भीमाक्ष ऐं क्षें प्रेतस्तथासनं । ऐँ ह्रीं द्वौश्च त्रिपुरा पद्मासनसमास्थिता ।। ३१३.
विभ्रत्यभयपुस्तञ्च वामे बरदमालिकाम् । मूलेन हृदयादि स्याज्जालपूर्णञ्च कामकम् ।। ३१३.
गोमध्ये नाम संलिख्य चाष्टपत्रे च मध्यतः । श्मशानादिपटे श्मशानाङ्गारेण विलेखयेत् ।। ३१३.
चिताङ्गारपिष्टकेन मूर्त्तिं ध्यात्वा तु तस्य च । क्षिप्त्वोदरे नीलसूत्रैर्वेष्ट्य चोच्चाटनं भवेत् ।। ३१३.
ओं नमो भगवति ज्वालामानिनि गृध्रगणपरिवृते स्वाहा । युद्ध गच्छन् जपन्मन्त्रं पुमान् साक्षाज्जयी भवेत् । ओं श्रीँ ह्रीँ क्लीँ श्रियै नमः । उत्तरादौ च घृणिनी सूर्य्या पूज्या चतुर्द्दले ।। ३१३.
आदित्या प्रभावती च हेमाद्रिमधुराश्रियः । ओं ह्रीं गौर्य्यै नमः । गौरीमन्त्रः सर्व्वकरः होमाद्ध्यानाज्जपार्च्चनात् ।। ३१३.
रक्ता चतुर्भुजा पाशवरदा दक्षिणे करे । अङ्कुशाभययुक्तान्तां प्रार्थ्य सिद्धात्मना पुमान् ।। ३१३.
जीवेद्वर्षशतं धीमान्न चौरारिभयं भवेत् । क्रुद्धः प्रसादी भवति युधि मन्त्राम्बुपानतः ।। ३१३.
अञ्जनं तिलकं वश्ये जिचह्वाग्रे कविता भवेत् । तज्जपान्मैथुनं वश्ये तज्जपाद्योनिवीक्षणप्त् ।। ३१३.
. स्पर्शाद्वशी तिलहोमात्सर्व्वञ्चैव तु सिध्यति । सप्ताभिमन्त्रितञ्चान्नं भुञ्जंस्तस्य श्रियः सदा ।। ३१३.
अर्द्धनारीशरुपोऽयं लक्ष्मयादिवैष्णवादिकः । अनङ्गरूपा शक्तिश्च द्वितीया मदनातुरा ।। ३१३.
पवनवेगा भुवनपाला वै सर्व्वसिद्धिदा । अनङ्गमदनानङ्गमेखलान्ताञ्जपेच्छ्रिये ।। ३१३.
पद्ममध्यदलेषु ह्रीँ स्वरान् कादीस्ततः स्त्रियाः । षट्कोणे वा घटे वाऽथ लिखित्वा स्याद्वशीकरं ।। ३१३.
ओं ह्रीँ छँ नित्यक्लिन्ने मदद्रवे ओं ओं । मूलमन्त्रः षडङ्गोयं रक्तवर्णे त्रिकोणके । द्रावणी ह्लादकारिणी क्षोभिणी गुरुशक्तिका ।। ३१३.
ईशानादौ च मध्ये तां नित्यां पाशाङ्कुशौ तथा । कपालकल्पकतरुं वीणा रक्ता च तद्वती ।। ३१३.
नित्याभया मङ्गला च नववीरा च मङ्गला । दुर्भगा मनोन्मनी पूज्या द्रावा पूर्व्वादितः स्थिता ।। ३१३.
ओं ह्रीँ अनङ्गाय नमः ओं ह्रीँ ह्रीँ स्मराय नमः । मन्मथाय च माराय कामायैवञ्च पञ्चधा । कामाः पाशाङ्गुशौ चापवाणाः ध्येयाश्च विभ्रतः ।। ३१३.
रतिश्च विरतिः प्रीतिर्विप्रीतिश्च मतिर्धृतिः । विधृतिः पुष्टिरेभिश्च क्रमात् कामादिकैर्युताः ।। ३१३.
ओं छँ नित्यक्लिन्ने मदद्रवे ओं ओं । अ आ इ ई उ उ ऋ लृ लॄ ए ऐ ओ औ अं अः । क ख ग घ ङ च छ ज झ ञ ट ठ ड ढ ण त थ द ध न प फ ब भ म य र ल व श ष स ह क्ष । ओं छँ नित्यक्लिन्ने मदद्रवे स्वाहा । आधारशक्तिं पद्मञ्च सिंहे देवीं हृदादिषु ।। ३१३.
अग्निरुवाच ओं ह्रीं ह्रँ खे छे क्षः स्त्रीँ ह्रूँ क्षे ह्रीं फट् । त्वरितां पूजयेन्नयस्य द्विभुजाञ्चाष्टवाहुकां । आधारशक्तिं पद्मञ्च सिंहे देवीं हृदादिकम् ष ।। ३१४.
पूर्व्वादौ गायत्रीं यजेन्मण्डले वै प्रणीतया । हुंकारां खेचरीं चण्डांछेदनीं क्षेपणीं स्त्रियाः ।। ३१४.
हुंकारां क्षएगकारीञ्च फट्कारीं मध्यतो यजेत् । जयाञ्च विजयां द्वारि किङ्करञ्च तदग्रतः ।। ३१४.
तिलैर्होमैश्च सर्व्वाप्त्यै नामव्याहृतिभिस्तथा । अनन्ताय नमः स्वाहा कुलिकाय नमः स्वधा ।। ३१४.