श्मशानकर्पटे वाथ वाह्यं निष्क्रम्य मन्त्रवित् । तस्य मध्ये लिखेन्नाम कर्णिकोपरि संस्थितम् ।। ३१२.
तापयेत्खादिराङ्गारैर्भूर्जमाक्रम्य पादयोः । सप्ताहादानयेत् सर्व्वं त्रैलोक्यं सचराचरम् ।। ३१२.
वज्रसम्पुटगर्भे तु द्वादशारे तु लेखयेत् । मध्ये गर्भगतं नाम सदाशिवविदर्मितम् ।। ३१२.
कुड्ये१ फलकके वाथ शिलापट्टे हरिद्रया। मुखस्तम्भं गतिस्तम्भं सैन्यस्तम्भन्तु जायते ।। ३१२.
विषरक्तेन संलिख्य शमशाने कर्परे बुधः । षट्कोणं दण्डमाक्रान्तं समन्ताच्छक्तियोजितम् ।। ३१२.
मारयेदचिरादेष श्मशाने निहतं रिपुं । छेदं करोति राष्ट्रस्य चक्रमध्ये न्यसेद्रिपुं ।। ३१२.
चक्रधाराङ्गतां शक्तिं रिपुनाम्ना रिपुं हरेत् । तार्क्ष्येणैव चु वीजेन खड्गमध्ये तु लोखयेत् ।। ३१२.
विदर्भरिपुनामाथ श्मशानाङ्गारलेखितम् । सप्ताहात्साधयेद्देशं ताडयेत् प्रेतभस्मना ।। ३१२.
भेदने छेदने चैव मारणेषु शिवो भवेत् । तारकं नेत्रमुद्देष्टं शान्तिपुष्टी नियोजयेत् ।। ३१२.
दहनादिप्रयोगोयं शाकिनीञ्चैव कर्षयेत् । मध्यादिवारुणीं यावद्वक्रतुण्डसमन्वितः ।। ३१२.
कुष्ठाद्या व्याधयो ये तु नाशयेत्तान्न संशयः । मध्यादिउत्तरान्तन्तु करालीबन्धनाज्जपेत् ।। ३१२.
रक्षयेदात्मनो विद्यां प्रतिवादी यदा शिवः । वारुण्यादि ततो न्यस्य ज्वरकाशविनाशनम् ।। ३१२.
. सौम्यादि मध्यमान्तन्तु गुरुत्वं जायते वटे । पूर्व्वादि मध्यमान्तन्तु लघुत्वं कुरुते क्षणात् ।। ३१२.
भूर्ज्जे रोचनया लिख्य एतद्वज्राकुलं पुरम् । क्रमस्थैर्म्मन्त्रवीजैस्तु रक्षां देहेषु कारयेत् ।। ३१२.
वेष्टिता भावहेम्ना च रक्षेयं मृत्युनाशिनी । विघ्नपापारिदमनी सौभाग्यायुःप्रदा धृता ।। ३१२.
द्यूते रणे च जयदा शक्रसैन्ये न संशयः । बन्ध्यानां पुत्रदा ह्येणा चिन्तामणिरिवापरा ।। ३१२.
साधयेत् परराष्ट्राणि राज्यञ्च पृथिवीं जयेत् । फट् स्त्रीं क्षें हूँ लक्षज्प्याद्यक्षादिर्वशगो भवेत् ।। ३१२.
अग्निरुवाच ओं विनायकार्चनं वक्ष्ये यजेदाधारशक्तिकम् । धर्म्माद्यष्टककन्दञ्च नालं पद्मञ्च कर्णिकाम् ।। ३१३.
केशरं त्रिगुणं पद्मं तीव्रञ्च ज्वलिनीं यजेत् । नन्दाञ्च सुयशाञ्चोग्रां तेजोवतीं विन्ध्यवासिनीं ।। ३१३.
गणमूर्त्तिं गणपतिं हृदयं स्याद्गणं जयः । एकदन्तोत्कटशिरःशिखायाच्लकर्णिने ।। ३१३.
गजवक्त्राय कवचं चहूँ फडन्तं तथाष्टकं । महोदरो दण्डहस्तः पूर्व्वादौ मध्यतो यजेत् ।। ३१३.
जयो गणाधिपो गणनायकोऽथ गणेश्वरः । वक्रतुण्ड एकदन्तोत्कटलम्बोदरो गज ।। ३१३.
वक्त्रो विकटाननोऽथ हूँ पूर्व्वो विघ्ननाशनः । धूम्रवर्णो महेन्द्राद्यो वाह्ये विघ्नेशपूदनम् ।। ३१३.
त्रिपुरापूजनं वक्ष्ये असिताङ्गो रुरुस्तथा । चण्डः क्रोधस्तथोन्मत्तः कपाली भीषणः क्रमात् ।। ३१३.
संहारो भैरवो ब्राह्मीमुख्या ह्रस्वास्तु भैरवाः । ब्रह्माणीषण्मुखा दीर्घा अग्न्यादौ वटुकाः क्रमात् ।। ३१३.
समयपुत्रो वटुको योगिनीपुत्रकस्तथा । सिद्धपुत्रश्च वटुकः कुलपुत्रश्चतुर्थकः ।। ३१३.
हेतुकः क्षेत्रपालश्च त्रिपुरान्तो द्वितीयकः । अग्निवेतालोऽग्निजिह्वः कराली काललोचनः ।। ३१३.
एकपादश्च भीमाक्ष ऐं क्षें प्रेतस्तथासनं । ऐँ ह्रीं द्वौश्च त्रिपुरा पद्मासनसमास्थिता ।। ३१३.
विभ्रत्यभयपुस्तञ्च वामे बरदमालिकाम् । मूलेन हृदयादि स्याज्जालपूर्णञ्च कामकम् ।। ३१३.
गोमध्ये नाम संलिख्य चाष्टपत्रे च मध्यतः । श्मशानादिपटे श्मशानाङ्गारेण विलेखयेत् ।। ३१३.