मन्त्रमष्टसहस्रन्तु जप्त्वाङ्गानां दशांशकम् । होमं कुर्य्यादग्निगुण्डे वह्निमन्त्रेण चालयेत् ।। ३११.
निक्षिपेद् हृदयेनाग्निं शक्तिं मध्येऽग्निगां स्मरेत् । गर्भाधानं पुंसवनं जातकर्म्म च होमयेत् ।। ३११.
हृदयेन शतं ह्येकं गुह्याङ्गे जनयेच्छिखिम् । पूर्णाहुत्या तु विद्यायाः शिवाग्निर्ज्वलियो भवेत् ।। ३११.
होमयेन्मूलमन्त्रेण शतञ्चाङ्गं दशांशतः । निवेदयेत्ततो देव्यास्ततः शिष्यं प्रवेशयेत् ।। ३११.
अस्त्रेण ताडनं कृत्वा गुह्याङ्गानि ततो न्यसेत् । विद्याङ्गैश्चेव सन्नद्धं विद्याङ्गेषु नियोजयेत् ।। ३११.
पुष्पं क्षिपाययेच्छिष्यमानयेदग्निकुण्डकम् । यवैर्द्वान्यैस्तिलैराज्यैर्मूलविद्याशतं हुनेत् ।। ३११.
स्थावरत्वं पुरा होमं सरीसृपमतः परं । पक्षिमृगपशुत्वञ्च मानुषं ब्राह्ममेव च ।। ३११.
विष्णुत्वञ्चैव रुद्रत्वमन्ते पूर्णाहुतिर्भवेत् । एकया चैव ह्याहुत्या शिष्यः स्याद्दीक्षितो भवेत् ।। ३११.
अधिकारो भवेदेवं श्रृणु मोक्षमतः परम् । सुमेरुस्थो यदा मन्त्री सदाशिवपदे स्थितः ।। ३११.
परे च होमयेत् स्वस्थोऽकर्म्मकर्म्मशतान् दश । पूर्णाहुत्या तु तद्योगी धर्म्माधर्मैर्न लिप्यते ।। ३११.
मोक्षं याति परंस्थानं यद्गत्वा न निवर्त्तते । यथा जले जले क्षिप्तं जलं देही शिरस्तथा ।। ३११.
कुम्भैः कुर्य्याच्चाभिषेकं जयराज्यादिसर्वभाक् । कुमारी ब्राह्मणी पूज्या गुर्व्वादेर्दक्षिणं ददेत् ।। ३११.
यजेत् सहस्रमेकन्तु पूकजां कृत्वा दिने दिने । तिलाज्यपुरहोमेन देवी श्रीः कामदा भवेत् ।। ३११.
ददाति विपुलान् भोगान् यदन्यच्च समीहते । जप्त्वा ह्यक्षरलक्षन्तु निधानाधिपतिर्भवेत् ।। ३११.
द्विगुणेन भवेद्राज्यं त्रिगुणेन च यक्षिणी । चतुर्गुणेन ब्रह्मत्वं ततो विष्णुपदं भवेत् ।। ३११.
षड्गुणेन महासिद्धिर्ल्लक्षेणैकेन पापहा । दश जप्त्वा देहशुद्ध्यै तीर्थस्नानफलं शतात् ।। ३११.
पटे वा प्रतिमायां वा शीघ्रां वै स्थण्डिले यजेत् । शतं सहस्रमयुतं जपे होमे प्रकीर्त्तितम् ।। ३११.
एवं विधानतो जप्त्वा लक्षमेकन्तु होमयेत् । महिषाजमेषमांसेन नरजेन पुरेण वा ।। ३११.
तिलैर्यवैस्तथा लाजैर्ब्रीहिगोधूमकाम्रकैः । श्रीफलैराज्यसंयुक्तैर्होमयित्वा व्रतञ्चरेत् ।। ३११.
अर्द्धरात्रेषु सन्नद्धः खड्गचापशरादिमान् । एकवासा विचित्रेण रक्तपीतासितेन वा ।। ३११.
नीलेन वाथ वस्त्रेण देवीं तैरेव चार्च्चयेत् । व्रजेद्दक्षिणदिग्भागं द्वारे दद्याद्बलिं बुधः ।। ३११.
दूतीमन्त्रेण द्वारादौ एकवृक्षे श्मशानके । एवञ्च सर्व्वकामाप्तिर्भुङ्क्ते सर्व्वां महीं नृपः ।। ३११.
अग्निरुवाच विद्याप्रस्तावमाख्यास्ये धर्म्मकामादिसिद्धिदम् । नवकोष्ठविभागेन विद्याभेदञ्च विन्दति ।। ३१२.
अनुलोमविलोमेन समस्तव्यस्तयोगतः । कर्णाविकर्णयोगेन अत ऊद्र्ध्वं विभागशः ।। ३१२.
त्रित्रिकेण च योगेन देव्या सन्नद्धविग्रहः । जानाति सिद्धिदान्मन्त्रान् प्रस्तावान्निर्गतान् बहून् ।। ३१२.
शास्त्रे शास्त्रे स्मृता मन्त्राः प्रयोगास्तत्र दुर्ल्लभाः । गुरुः स्यात् प्रथमो वर्णः पूर्व्वेद्युर्न च वर्ण्यते ।। ३१२.
प्रस्तावे तत्र चैकार्णा द्व्यर्णस्त्र्यर्णादयोऽभवन् । तिर्य्यगूद्र्ध्वगता रेखाश्चतुरश्चतुरो भजेत् ।। ३१२.
नव कोष्ठा भवन्त्येवं मध्यदेशे तथा इमान् । प्रदक्षिणेन संस्थाप्य प्रस्तावं भेदयेत्ततः ।। ३१२.
प्र्स्तावक्रमयोगेन प्रस्तावं यस्तु विन्दति । करमुष्टिस्थितास्तस्य साधकस्य हि सिद्धयः ।। ३१२.
त्रैलोक्यं पादमूले स्यान्नवखण्डां भुवं लभेत् । कपाले तु समालिख्य शिवतत्त्वं समन्ततः ।। ३१२.