मध्यकोष्ठं भवेत्पद्मं पीतकर्णिकमुज्ज्वलम् । कृष्णेन रजसा लिख्य कुलिशासिशिरोद्र्ध्वता ।। ३११.
वाह्यतश्चतुरस्रन्तु वज्रसम्पुटलाञ्छितम् । द्वारे प्रदापयेन्मन्त्री चतुरो वज्रसम्पुटान् ।। ३११.
पद्मनाम भवेद्वामवीथी चैव समा भवेत् । गर्भं रक्तं केशराणि मण्डले दीक्षिताः स्त्रियः ।। ३११.
जयेच्च परराष्ट्राणि क्षइप्रं राज्यमवाप्नुयात् । मूर्त्ति प्रणवसन्दीप्तां हूँकारेण नियोजयेत् ।। ३११.
मूलविद्यां समुच्चार्य्यं मरुद्व्योमगतां द्विज । प्रथमेन पुनश्चैव कणिकायां प्रपूजयेत् ।। ३११.
एवं प्रदक्षिणं पूज्य एकैकं वीजमादितः । दलमध्ये तु विद्याङ्गा आग्नेय्यां पञ्च नैर्ऋतम् ।। ३११.
मध्येनेत्रं दिशारूञ्च स्वैः स्वैर्म्मन्त्रैः प्रपूजयेत् । मध्येनेत्रं दिशारूञ्च गुह्यकाङ्गे तु रक्षणम् ।। ३११.
पञ्च पञ्च प्रपूज्यास्तु स्वैः स्वैर्म्मन्त्रैः प्रपूजयेत् । लोकपालान्न्यसेदष्टौ वाह्यतो गर्भमण्डले ।। ३११.
वर्णान्तमग्निमारूढं षष्ठस्वरविभेदितं । पञ्चदशेन चाक्रान्तं स्वैः स्वैर्नामभि योजयेत् ।। ३११.
शीघ्रं सिंहे कर्णिकायां यजेद् गन्धादिभिः श्रिये । अष्टाभिर्वेष्टयेत् कुम्भैर्म्मन्त्राष्टशतमन्त्रितैः ।। ३११.
मन्त्रमष्टसहस्रन्तु जप्त्वाङ्गानां दशांशकम् । होमं कुर्य्यादग्निगुण्डे वह्निमन्त्रेण चालयेत् ।। ३११.
निक्षिपेद् हृदयेनाग्निं शक्तिं मध्येऽग्निगां स्मरेत् । गर्भाधानं पुंसवनं जातकर्म्म च होमयेत् ।। ३११.
हृदयेन शतं ह्येकं गुह्याङ्गे जनयेच्छिखिम् । पूर्णाहुत्या तु विद्यायाः शिवाग्निर्ज्वलियो भवेत् ।। ३११.
होमयेन्मूलमन्त्रेण शतञ्चाङ्गं दशांशतः । निवेदयेत्ततो देव्यास्ततः शिष्यं प्रवेशयेत् ।। ३११.
अस्त्रेण ताडनं कृत्वा गुह्याङ्गानि ततो न्यसेत् । विद्याङ्गैश्चेव सन्नद्धं विद्याङ्गेषु नियोजयेत् ।। ३११.
पुष्पं क्षिपाययेच्छिष्यमानयेदग्निकुण्डकम् । यवैर्द्वान्यैस्तिलैराज्यैर्मूलविद्याशतं हुनेत् ।। ३११.
स्थावरत्वं पुरा होमं सरीसृपमतः परं । पक्षिमृगपशुत्वञ्च मानुषं ब्राह्ममेव च ।। ३११.
विष्णुत्वञ्चैव रुद्रत्वमन्ते पूर्णाहुतिर्भवेत् । एकया चैव ह्याहुत्या शिष्यः स्याद्दीक्षितो भवेत् ।। ३११.
अधिकारो भवेदेवं श्रृणु मोक्षमतः परम् । सुमेरुस्थो यदा मन्त्री सदाशिवपदे स्थितः ।। ३११.
परे च होमयेत् स्वस्थोऽकर्म्मकर्म्मशतान् दश । पूर्णाहुत्या तु तद्योगी धर्म्माधर्मैर्न लिप्यते ।। ३११.
मोक्षं याति परंस्थानं यद्गत्वा न निवर्त्तते । यथा जले जले क्षिप्तं जलं देही शिरस्तथा ।। ३११.
कुम्भैः कुर्य्याच्चाभिषेकं जयराज्यादिसर्वभाक् । कुमारी ब्राह्मणी पूज्या गुर्व्वादेर्दक्षिणं ददेत् ।। ३११.
यजेत् सहस्रमेकन्तु पूकजां कृत्वा दिने दिने । तिलाज्यपुरहोमेन देवी श्रीः कामदा भवेत् ।। ३११.
ददाति विपुलान् भोगान् यदन्यच्च समीहते । जप्त्वा ह्यक्षरलक्षन्तु निधानाधिपतिर्भवेत् ।। ३११.
द्विगुणेन भवेद्राज्यं त्रिगुणेन च यक्षिणी । चतुर्गुणेन ब्रह्मत्वं ततो विष्णुपदं भवेत् ।। ३११.
षड्गुणेन महासिद्धिर्ल्लक्षेणैकेन पापहा । दश जप्त्वा देहशुद्ध्यै तीर्थस्नानफलं शतात् ।। ३११.
पटे वा प्रतिमायां वा शीघ्रां वै स्थण्डिले यजेत् । शतं सहस्रमयुतं जपे होमे प्रकीर्त्तितम् ।। ३११.
एवं विधानतो जप्त्वा लक्षमेकन्तु होमयेत् । महिषाजमेषमांसेन नरजेन पुरेण वा ।। ३११.
तिलैर्यवैस्तथा लाजैर्ब्रीहिगोधूमकाम्रकैः । श्रीफलैराज्यसंयुक्तैर्होमयित्वा व्रतञ्चरेत् ।। ३११.
अर्द्धरात्रेषु सन्नद्धः खड्गचापशरादिमान् । एकवासा विचित्रेण रक्तपीतासितेन वा ।। ३११.